________________
पीठिका - [भा. ५६७ ]
१४५
गुरुरेककस्तिष्ठति शेषाः सर्वे हिण्डन्ते । अथाऽऽचार्योऽपि कुलादिकार्येषु निर्गच्छति ततो य आचार्येण सन्दिष्टः 'मयि निर्गते सर्वमेतस्य पुरत आलोचनादि कार्यम्' स तिष्ठति । ततोयत्र तानि बलिप्रभृतीनि पदानि स्वभावतः कैतवेन वा प्राप्तानि भवन्ति तत्र तेन वसतिपालेनेयं यतना कर्त्तव्या ॥ तत्र बलिपाते तावदाह
[भा.५६८] अप्पुव्वमतिहिकरणे, गाहा न य अन्नभंडगं छिविमो । भगइ व अठायमाणे, जं नासइ तुज्झ तं उवरिं ।।
वृ- साधवो हि कारणेन सप्राभृतिकायामपि शय्यायां स्थिता भवेयुः । साधूनां चेयं सामाचारीऋतुबद्धे काले वृद्ध उपधिस्तिष्ठति वर्षास्वबद्धः, तत्र सप्राभृतिकायां वसतौ वर्षास्वपि समस्तं भाण्डक मेकायोगं प्रकुर्वन्ति, ततो यदि बलिकाराः समागच्छन्ति तथापि न कश्चिद् दोषः । अथ ते कथमपहरणं कर्तुकामा ज्ञातव्याः ? उच्यते - अपूर्वान् दृष्ट्वा, ये स्वाभाविकास्ते प्रतिदिवसमागच्छन्तः परिचिताः, येत्वपूर्वास्ते हर्तुकामा विज्ञेयाः । ये वा अतिथौ विशिष्टतिथ्यभावे बलिकरणाय समागतास्तेऽपि हर्तुकामा द्रष्टव्याः । तेऽपि यदि ब्रूयुः निर्गच्छत वयं बलिं करिष्यामः, तदा
गाथा वक्तव्या
न वि लोणं लोणिजइ, न वि तुप्पिइ घयं व तेल्लं वा । किह नाम लोगडंभग !, चट्टम्मि ठविज्जए वट्टो ? ॥ अनं भंडेहि वर्ण, वणकुट्टग ! जत्थ ते वहइ चंचू । भंगुरवणग्गाहित ! इमे हु खदिरा बइरसारा ॥
ततो जानते ‘वयं प्रत्यभिज्ञाताः' इति । अथवा वक्तव्यम् - येषामेतदुपकरणं ते भैक्षस्यानयनाय गताः, वयं तु 'अन्यभाण्डकम्' अन्येषामुपकरणं न स्पृशामः । ततो यदि न तिष्ठन्ति ततो भूयो भणति शृणुत, अस्मभिर्वारिता यूयं न तिष्ठथ ततो यदत्र नश्यति तद् युष्माकमुपरि एवमुक्ते ते तिष्ठन्ति ॥
[भा. ५६९ ] कारणे सपाहुडि ठिया, वासे वि करेति एगमायोगं । सन्नाविय दिट्ठा वा, भणाइ जा सारवेमुवहिं ॥
वृ- कारणे सप्राभृतिकायां वसतौ स्थिता वर्षास्वपि समस्तस्यापि भाण्डकस्यैकमायोगं कुर्वन्ति ततो न किञ्चित् पलायते तत्र ये कैतवेन बलिकारकाः समागच्छन्ति तेषु यतनाविधिरुक्तः । सम्प्रति स्वाभाविकेष्वाह - "सन्नाविय" इत्यादि । ये शय्यातरेणान्येन वा बलिकाराः संज्ञापिता दृष्टा वा स्वयमन्यदाऽपि बलिं कुर्वाणास्तान् प्रति भणति वसतिपालः तावत् प्रतीक्षध्वं यावदुपधिं सारयामि; एवमुक्ते ते प्रतीक्षन्ते ॥
[भा. ५७०] उच्चरए कोणे वा, काऊण भणाति मा हु लेवाडे । बहु पेलणऽसारविए, तहेव जं नासती तुझं ॥
वृ- ततो वसतिपालो यदि कश्चिदस्त्यपवरकस्तत्र तदुपकरणं प्रक्षिपति, अथ नास्त्यपवरकस्तत एकस्मिन् कोणे सर्वमुपकरणं स्थलीकरोति भणति च-शनैर्बलिविधानं कुरुत, मा उपकरणं कूरसिक्थैः खरण्टयत । अथ ते बहवोऽगारा उन्मत्तकाः सहसैव प्रेर्य प्रविष्टा नैव
18 10
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org