________________
१४४
बृहत्कल्प-छेदसूत्रम् -१विश्वासं गच्छति, विश्वस्तस्यचोपधिमपहरेत्।अथवा वदेत्-तवाऽऽनयननिमित्तमहं तैः प्रेषितः एवमुक्ते स बालः पलायते, इतरे तूपधिमपहरन्ति ॥ [भा.५६४] एते पदे न रक्खति, बाल गिलाणे तहेव अव्वत्ते।
निद्दा-कहापमत्ते, वत्ते विय जे भवे भिक्खू ।। वृ- ‘एतानि' बलिप्रभृतीनि ‘पदानि' स्थानानि बालो न रक्षति, स्वाभाविकेषु कैतवेषु वैतेषु स्थानेषु बालो विपरतार्यते इति भावः । तथा ग्लानः 'अव्यक्तो वा' अगीतार्थो यद्वा 'व्यक्तः' गीतार्थोऽपि च यो भवेद् भिक्षुर्निद्रा-कथाप्रमत्तः सोऽप्येतानि पदानि न रक्षति । कथास्तरङ्गवत्यादयो द्रष्टव्याः॥ग्लानद्वारमव्यक्तद्वारं चाधिकृत्यैतदेव विशेषत आह[भा.५६५] एमेव गिलाणे वी, सयकिड्ड-कहा-पलायणे मोत्तुं।
___ अव्वत्तो उ अगीतो, रक्खणकप्पे परोक्खो उ॥ कृ'एवमेव' अनेनैव प्रकारेणग्लानेऽपि दोषा वक्तव्याः, नवरंस्वयंक्रीडा-कथा-पलायनानि मुक्त्वा । इयमत्र भावना-ये बाले दोषास्तेग्लानेऽपि, नवरं यस्तस्यात्मसमुत्थोदोषःस्वयंक्रीडात्मकः कथादोषोभयेन पलायनदोषश्वसन भवति, किन्तु स वारयितुमसमर्थ, नवातंकोऽपिगणयति, ग्लानत्वात् । अन्यच्च स क्षुधा पिपासयाऽन्यया वा वेदनया परिताप्यमानः सन् कूजेत्, ततो लोको ब्रूयात्-अहो ! निरनुकम्पाः साधवो यदमुंत्यक्त्वा हिण्डन्ते; अपथ्यंवा लोकानीतमकल्पिक स प्रतिसेवेतेति । तथा अव्यक्तो नाम 'अगीतः' अगीतार्थ स रक्षणकल्पे परोक्षः । किमुक्तं भवति?-सः स्वाभाविकेकैतवेवाकथमुपकरणंरक्षणीयम्?' इतिनजानाति, नवा ‘स्वाभाविकेषु ग्लानत्वादिषु केन प्रकारेणात्मा निस्तारयितव्यः ?, कथं वा उपकरणम् ?' अतः प्रागुक्तं "ग्लानोऽव्यक्तश्चैतानि पदानि न रक्षति" । योऽपि च व्यक्तः सोऽपि यदि निद्रालुर्भवति तरङ्गवत्यादिकथाकथनव्यसनी वा तदा न रक्षति, प्रमादबहुलत्वात्।। [भा.५६६] तम्हा खलु अब्बाले, अगिलाणे वत्तमप्पमत्ते य ।
कप्पइय वसहिपालो, धिइमं तह वीरियसमत्थो॥ वृ- यस्माद् बालादीनामेते दोषास्तस्माद् यः खल्वबालोऽग्लानो व्यक्तो निद्राकथादिभिरप्रमत्तः, पुनः कथम्भूतः ? इत्याह-'धृतिमान्' यस्तृषा क्षुधा वा परितापितोऽपि न शून्यांवसतिं कृत्वा भक्तपानाय गच्छतिसइतिभावः, 'वीर्यसम्पन्नः' बलवान्, यः स्तेनानापततो निरोद्धं समर्थ अग्न्यादिसम्भवे तूपधिमात्मानं च निस्तारयति ईद्दशः कल्पते वसतिपालः ।।
अथ कियन्त ईशा वसतिपालाःस्थापयितव्याः? तत आह[भा.५६७]सति लंभम्मि अनियया, पनगंजा ताव होति अच्छित्ती।
जहनेण गुरू चिट्ठइ, तस्संदिट्ठी विमा जयणा ।। वृ. सति भैक्षस्य लाभे अनियता वसतिपालाः स्थापयितव्याः । अयमत्र भावः-यत्रैकः सङ्घाटको भैक्षस्य प्रचुरस्य लाभतोऽन्येषां त्रयाणां चतुर्णा चात्मनश्च पर्याप्तमानयति तत्र यावद्भिस्तिष्ठद्भिर्गच्छस्य पर्याप्त भवति तावन्तस्तिष्ठन्ति; अथवा आचार्यादयः पञ्च तिष्ठन्ति यैर्गच्छः समस्तोऽपि सङ्ग हीतो वर्तते; अथवा यो ज्ञायते 'एष सूत्रा-ऽर्थग्रहण-धारणासमर्थोऽव्यवच्छित्तिं करिष्यति' सआचार्यस्य सहायस्तिष्ठति।अथैवमपिननिस्तरन्तिततो जघन्यतो
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org