________________
४२६
बृहत्कल्प-छेदसूत्रम् -३-६/२१५ कृपरिहारिका उत्कर्षतो द्वादशंतपः कृत्वा आचाम्लेन पारयन्ति तेच परिहारिकाश्चत्वारोऽपि 'प्रत्येकं पृथक् पृथक्परिहरन्ति,नपरस्परं समुद्देशनादिसम्भोगं कुर्वन्तीत्यर्थः । तेच परिहारिका अभिगृहीतया पञ्चानामुपरितनीनामन्यतरैषणया भक्त-पानं गृह्णन्ति येतु चत्वारोऽनुपारिहारिका एकच कल्पस्थितस्तेषां पञ्चनामप्येक एव सम्भोगः, ते च प्रतिदिवसमाचाम्लं कुर्वन्ति । यस्तु कल्पस्थितः स स्वयं न हिण्डते, तस्य योग्यं भक्त-पानमनुपारिहारिका आनयन्ति॥ [भा.६४७४] परिहारिओ विछम्मासे अनुपरिहारिओ विछम्मासा।
कप्पद्वितो विछम्मासे एते अट्ठारस उमासा॥ वृ-परिहारिकाः प्रथमतः षण्मासान् प्रस्तुतंतपोवहन्ति, ततोऽनुपरिहारिका अपिषण्मासान् वहन्ति, इतरेतु तेषामनुपारिहारिकत्वं प्रतिपद्यन्ते।तैरपि व्यूढे सति कल्पस्थितः षण्मासान्वहति, ततः शेषाणामेकः कल्पस्थितो भवतिएकः पुनरनुपरिहारिकत्वंप्रतिपद्यते। एवमेतेऽष्टादश मासा भवन्ति। [भा.६४७५] अनुपरिहारिगा चेव, जेय ते परिहारिगा।
- अनमन्नेसु ठाणेसु, अविरुद्धा भवंति ते॥ दृ-अनुपरिहारिकाश्चैव येचते परिहारिकास्तेऽन्यान्येषुस्थानेषु कालभेदेन परस्परमेकैकस्य वैयावृत्यं कुर्वन्तोऽविरुद्धा एव भवन्ति ।। ततश्च[मा.६४७६] गएहिं छहि मासेहिं, निविट्ठा भवंति ते।
ततो पच्छा ववहारं, पट्ठवंति अनुपरिहारिया । वृते परिहारिकाः षड्भिसिर्गतैस्तपसि व्यूढे सति निर्विष्टाः' निर्विष्टकायिका भवन्ति । ततः पश्चादनुपरिहारिकाः 'व्यवहारं परिहारतपसः समाचारं 'प्रस्थापयन्ति' कर्तुं प्रारभन्ते। [भा.६४७७] गएहिं छहिअ मासेहिं, निविट्ठा भवंति ते।
वहइ कप्पद्वितो पच्छा, परिहारंतहाविहं ।।। वृ-तेऽपि षड्भिर्मासैतिनिर्विष्टा भवन्ति । पश्चात् कल्पस्थितोऽपि तथाविधं परिहारं तावत एव मासान् वहति ॥ एवं च[मा.६४७८] अट्ठारसहिं मासेहिं, कप्पो होति समानितो।
मूलढवणाए समं छम्मासा तु अनूनगा। वृ-अष्टादशभिर्मासैरयं कल्पः समापितो भवति । कथम्? इत्याह-"मूलढवणा" इत्यादि। मूलस्थापना नाम-यत् परिहारिकाः प्रथमत इदं तपः प्रतिपद्यन्ते, तस्यां षण्मासा अन्यूनास्तपो भवति, एवमनुपारिहारिकाणां कल्पस्थितस्य च मूलस्थापनया 'समं तुल्यं तपः प्रत्येकं ज्ञेयम, षष्मासान् यावदित्यर्थः । एवं त्रिभि षटकैरष्टादश मासा भवन्ति ।। ते च द्विधा-जिनकल्पिकाः स्थविरकल्पिकाश्च । उभयेषामपि व्याख्यानमाह[भा.६४७९] एवं समानिए कप्पे, जे तेसिं जिनकप्पिया।
तमेव कप्पं ऊना वि, पालए जावजीवियं ।।। वृ- "एवम्' अनन्तरोक्तविधिनाऽष्टादशभिर्मासैः कल्पे समापिते सति ये तेषां मध्याद् जिनकल्पिकास्ते तमेव कल्पमूना अप्यष्टादिसङ्ख्याका अपि यावजीवं पालयति॥ [भा.६४८०] अट्ठारसेहिं पुन्नेहि, मासेहिं थेरकप्पिया।
पुनो गच्छं नियच्छंति, एसा तेसिं अहाठिती ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org