________________
उद्देशकः ६, मूलं-२१५, [भा. ६४८०)
૪ર૭ वृ-ये स्थविरकल्पिकास्तेऽष्टादशभिर्मासैः पूर्णे 'पुनर्' भूयोऽपि गच्छं नियच्छन्ति, आगच्छन्तीत्यर्थः । एषा तेषां 'यथास्थिति' यथाकल्पः ।। अथ षड्विधायां कल्पस्थितौ का कुत्रावतरति? इत्याह[भा.६४८१] तइय-चउत्था कप्पा, समोयरंति तु बियम्मि कप्पम्मि।
पंचम-छट्ठठितीसुं, हेडिल्लाणं समोयारो ।। वृ-'तृतीय-चतुर्थी निर्विशमनाक-निर्विष्टकायिकाख्यौ कल्पी द्वितीये छेदोपस्थापनीयनाम्नि कल्पेसमवतरतः ।तथा सामायिक-च्छेदोपस्थापनीय-निर्विशमानक-निर्विष्टकायिकाख्याआद्याश्चतसःस्थितयोऽधस्तन्यउच्यन्ते,तासांप्रत्येकं पञ्चम-षष्ठस्थित्योः' जिनकल्प-स्थविर-कल्पस्थिति-रूपयोः समवतारोभवति ॥गतं निर्विशमानक-निर्विष्टकायिककल्पस्थितिद्वयम्।अथ जिनकल्पस्थितिमाह[मा.६४८२] निज्जुत्ति-मासकप्पेसु वनितो जो कमो उ जिनकप्पे ।
सुय-संघयणादीओ, सो चेव गमो निरवसेसो॥ वृ-नियुक्ति-पञ्चकल्पस्तस्यां मासकल्पप्रकृते च यः क्रमः 'जिनकल्पे' 'जिनकल्पविषयः श्रुतसंहननादिको वर्णितः स एव गमो निरवशेषोऽत्र मन्तव्यः॥स्थानाशून्यार्थं पुनरिदमुच्यते[भा.६४८३] गच्छम्मिय निम्माया, धीरा जाहे य मुनियपरमत्था।
अग्गह जोग अभिग्गहे, उ बिंति जिनकप्पियचरितं॥ वृ- यदा गच्छे प्रव्रज्या-शिक्षापदादिक्रमेण 'निर्माताः' निष्पन्नाः, धीराः' औत्पत्तिक्यादिबुद्धिमन्तःपरीषहोपसर्गरक्षोभ्यावा, 'मुणितपरमार्था' 'अभ्युद्यतविहारेण विहर्तुमवसरः साम्प्रतमस्माकम्' इत्येवमवगतार्था, तथा ययोः पिण्डैषणयोः असंसृष्टा-संसृष्टाख्ययोरग्रहस्ते परिहर्तव्ये, यास्तु उपरितन्यः पञ्चैषणास्तासाम् ‘अभिग्रहः' "एता एव ग्रहीतव्याः' इत्येवंरूपः, तत्राप्येकदैकतरस्यां योगः' व्यापारः परिभोग इत्यर्थः । एवंभावितमतयोयदा भवन्ति तदा जिनकल्पिकचारित्रम् 'उपयान्ति प्रतिपद्यन्ते॥ [भा.६४८४] धितिबलिया तवसूरा, निति य गच्छातो ते पुरिससीहा।
बल-वरियसंघयणा, उवसग्गसहा अभीरूय ॥ -धृति-वज्रकुड्यवदभेद्यं चित्तप्रणिधानं तया बलिकाः-बलवन्तः, तथा तपः-चतुर्थादिकं पण्मासिकान्तं तत्र शूराः-समर्था, एवंविधाः पुरुषसिंहास्ते गच्छाद् निर्गच्छन्ति । बलं-शारीरं वीर्य-जीवप्रभवं तद्धेतुः संहननम्-अस्थिनिचयात्मकं येषां ते तथा । बल-वीर्यग्रहणं च चतुर्भङ्गीज्ञापनार्थम्, साचेयम्-धृतिमान् नामैको न संहननवान्, संहननवान् नामैको न धृतिमा, एको धृतिमानपि संहननवानपि, एकोन धृतिमान न संहननवान् । अत्र तृतीयभङ्गेनाधिकारः। उपसर्गा-दिव्यादयस्तेषां सहाः-सम्यगध्यासितारः, तथा 'अभीरवः' परीषहेभ्यो न बिभ्यति ॥
गता जिनल्पस्थितिः, सम्प्रति स्थविरकल्पस्थितिमाह[भा.६४८५] संजमकरणुजोवा, निफ्फातग नाण-दसण-चरित्ते।
दीहाउ वुड्दवासो, वसहीदोसेहि य विमुक्का॥ वृ-संयमः-पञ्चाश्रविरमणादिरूपः पृथिव्यादिरक्षारूपोवा सप्तदशविधः,तं कुर्वन्ति-यथावत् पालयन्तीति संयमकरणाः,नन्द्यादिदर्शनात् कर्तरिअनप्रत्ययः, उद्योतकाः-तपसाप्रवचनस्योज्यालकाः, ततः संयमकरणाश्च ते उद्योतकाश्चेति विशेषणसमासः । यद्वा सूत्रा-ऽर्थपौरुषीकरणेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org