________________
४२५
उद्देशक : ६, मूलं-२१५, [भा. ६४६७]
वृ-'ततश्च पूर्वोक्तकारमाद् ‘ऊनके एक-द्व्यादिभि साधूभिरपूर्णे कल्पे यस्तत्रोपसम्पद्यते तत्रायं विधि-'यावद्भिः' एकादिसङ्ख्याकैः स गण ऊनः 'तावतः' तावत्सङ्ख्याकानेव साधून् 'तत्र' गणे प्रक्षिपेत्' प्रवेशयेत् ॥ [भा.६४६८] तत्तो अनूनए कप्पे, उवसंपज्जति जो तहिं ।
उवसंपज्जमाणं तु, तप्पमाणं गणं करे॥ वृ-अथ कोऽप्युपद्रवैर्न कालगतस्तत एवमन्यूनके कल्पे ये तत्रोपसम्पद्यन्ते ते यदि नव जनाः पूर्णास्ततः पृथग् गणो भवति । अथापूर्णास्ततः प्रतीक्षाप्यन्ते यावदन्ये उपसम्पदर्थमागच्छन्ति । ततस्तमुपसम्पद्यमानं साधुजनं मीलयित्वा ‘तप्रमाणं' नवपुरुषमानं गणं 'कुर्यात्' स्थापयेत् ॥ [मा.६४६९] पमाणं कप्पट्टितो तत्थ, ववहारं ववहरित्तए।
अनुपरिहारियाणं पि, पमाणं होति से विऊ ।। वृ-तेषां पारिहारिकाणां तत्र' कल्पे कचित् स्खलितादावापन्ने व्यवहारं प्रायश्चित्तं व्यवहर्तु दातुं कल्पस्थितः प्रमाणम्, यदसौ प्रायश्चित्तं ददाति तत् तैर्वोढव्यमिति भावः । एवमनुपारिहारिकाणामप्यपराधपदमापन्नानां स एव 'विद्वान्' गीतार्थ प्रायश्चित्तदाने प्रमाणम् ।। [भा.६४७०] आलोयण कप्पठिते, तवमुजाणोवमं परिवहते।
अनुपरिहारिए गोवालए, व निच्च उज्जुत्तमाउत्ते॥ वृ- ते परिहारिका-ऽनुपरिहारिका आलोचनम् उपलक्षणत्वात् वन्दनकं प्रत्याख्यानं च कल्पस्थितस्य पुरतः कुर्वन्ति । “तवमुजाणोवमं परिवहंते"त्ति यथा किल कश्चिदुद्यानिकां गत एकान्तरतिप्रसक्तः स्वच्छन्दसुखं विहरमाण आस्ते एवं तेऽपि पारिहारिका एकान्तसमाधिसिन्धुनिमग्नमनसस्तत् तपः 'उद्यानोपमम्' उद्यानिकासशं परिवहन्ति, कुर्वन्तीत्यर्थः । अनुपारिहारिकाश्च चत्वारोऽपि चतुर्णां परिहारिकाणां भिक्षादौ पर्यटतां पृष्ठतः स्थिता नित्यम् 'उद्युक्ताः' प्रयत्लवन्त 'आयुक्ताश्च' उफयुक्ता हिण्डन्ते, यथा गोपालको गवां पृष्ठतः स्थित उद्युक्त आयुक्तश्च हिण्डते॥ [भा.६४७१] पडिपुच्छं वायणं चेव, मोत्तूणं नत्थि संकहा।
आलावो अत्तनिदेसो, परिहारिस्स कारणे ।। वृतेषां च पारिहारिकादीनां नवानामपि जनानां सूत्रार्थयोः प्रतिपृच्छां वाचनां च मुक्त्वा नास्त्यन्या परस्परं सङ्कथा । पारिहारिकस्य च 'कारणे' उत्थान-निषदनाद्यशक्तिरूपे आलाप आत्मनिर्देशरूपो भवति, यथा-उत्थास्यामि, उपवेक्ष्यामि, विक्षांहिण्डिष्ये,मात्रकंप्रेक्षिष्ये इत्यादि। [भा.६४७२] बारस दसऽट्ट दस अट्ठ छच्च अद्वेव छच्च चउरोय।
उक्कोस-मज्झिम-जहन्नगा उ वासा सिसिर गिम्हे ।। - परिहारिकाणां वर्षा-शिशिर-ग्रीष्मरूपे त्रिविधे काले उत्कृष्ट-मध्यम-जघन्यानि तपांसि भवन्त । तत्र वर्षाराने उत्कृष्टं तपो द्वादशम्, शिशिरे दशममुत्कृष्टम्, ग्रीष्यमे उत्कृष्टमष्टमम्; वर्षारात्रे मध्यमं दशमम्, शिशिरेऽष्टमम्, ग्रीष्मे षष्ठम्; वर्षारात्रे जघन्यमष्टमम्, शिशिरे षष्ठम्, ग्रीष्मे चत्वारि भक्तानि, चतुर्थमित्यर्थः ।। [भा.६४७३] आयंबिल बारसमं, पत्तेयं परिहारिगा परिहरंति ।
अभिगहितएसणाए, पंचण्ह वि एगसंभोगो।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org