________________
४२४
बृहत्कल्प-छेदसूत्रम् -३-६/२१५ ततः ‘आलोचित-प्रतिक्रान्ताः' आलोचनाप्रदानपूर्वंप्रदत्तमिथ्यादुष्कृतास्त्रन् गणान् स्थापयन्ति। तेषु च त्रिषु गणेषु कियन्तः पुरुषा भवन्ति ? इत्याह[भा.६४६१] सत्तावीस जहन्नेणं, उक्कोसेण सहस्ससो।
निग्गंथसूरा भगवंतो, सव्वग्गेणं वियाहिया॥ वृ- सप्तविंशतिपुरुषा जघन्येन भवन्ति, एकैकस्मिन् गणे नव जना भवन्ति इति भावः । उत्कर्षतः 'सहस्रशः' सहस्रसङ्ख्याः पुरुषाभवन्ति, शताग्रशोगणानामुत्कर्षतः वक्ष्यमाणत्वात् । एवं ते भगवन्तो निर्ग्रन्थसूराः ‘सर्वाग्रण' सर्वसङ्ख्यया व्याख्याताः॥ गणमङ्गीकृत्य प्रमाणमाह[भा.६४६२ सयग्गसो य उक्कोसा, जहन्नेण तओ गणा!
गणो य नवतो दुत्तो, एमेता पडिवत्तितो।। वृ-'शताग्रशः' शतसङ्ख्या गणा उत्कर्षतोऽमीषां भवन्ति, जघन्येन त्रयो गणाः । गणश्च 'नवकः' नवपुरुषमान उक्तः । एवमेताः 'प्रतिपत्तयः' प्रमाणादिविषयाः प्रकारा मन्तव्याः॥ [भा.६४६३] एग कपट्टियं कुजा, चत्तारि परिहारिए।
अनुपरिहारिंगाचेव, चउरो तेसिं ठावए॥ वृ-नवानां जनानांमध्यदेकंकल्पस्थितं गुरुकल्पं कुर्यात् । चतुरः परिहारिकान् कुर्यात् ।तेषां शेषांश्चतुरोऽनुपहारिकान् स्थापयेत् ॥ [भा.६४६४] नतेसिं जायती विग्घं, जामासा दस अट्टय।
न वेयणा न वाऽऽतंको, नेव अने उवद्दवा ।। [भा.६४६५] अट्ठारससुपुत्रेसु, होज्ज एते उवद्दवा।
ऊणिए ऊणिए यावि, गणे मेरा इमा भवे ॥ वृ-'तेषाम् एवं कल्पंप्रतिपन्नानांनजायते विघ्नः' अन्यत्र संहरणादि, यावद् मासा दशाष्टौ च, अष्टादश इत्यर्थः । न वेदना न वा आतङ्कः नैवान्ये केचनोपद्रवाः प्राणव्यपरोपणकारिण उपसर्गा। अष्टादशसुमासेषु पूर्णेषु भवेयुरपि एते उपद्रवाः उपद्रवैश्च यदि तेषामेको द्वौ त्रयो वा म्रियन्ते, अथवा तेषां कोऽपि स्थविरकल्पं जिनकल्पं वा गतो भवति, शेषास्तु तमेव कल्पमनुपालयितुकामास्तत एवमूनितेऊनितेगणेजातेइयं मर्यादा सामाचारी भवति ।इहोनिते ऊनिते इति द्विरुच्चारणं भूयोऽप्यष्टादशसुमासेषु पूर्णेषुएष एव विचिरिति ज्ञापनार्थम् ।। [भा.६४६६] एवं तु ठाविए कप्पे, उवसंपज्जति जो तहिं।
एगो दुवे अनेगा वा, अविरुद्धा भवंति ते॥ वृ-'एवम् अनन्तरोक्तनीत्या कल्पेस्थापिते सति यदिएकादयोम्रियैरन्, अन्यत्र वा गच्छेयुः, ततो यस्तत्र उपसम्पद्यते स एको वा द्वौ वाऽनेके वा भवेयुः । तत्र यावद्भि पारिहारिकगण ऊनस्तावतामुपसम्पदर्थमागतानांमध्याद् गृहीत्वा गणः पूर्यते। ये शेषास्ते पारिहारिकतपस्तुलनां कुर्वन्तस्तिष्ठन्ति । तेच पारिहारिकैः सार्द्ध तिष्ठन्तोऽविरुद्धाभवन्ति, पारिहारिकाणामकल्पनीया न भवन्तीत्युक्तं भवति । ते च तावत् तिष्ठन्ति यावदन्ये उपसम्पदर्थमुपतिष्ठन्ते । तैः पूरयित्वा पृथग् गणः क्रियते ॥ इदमेव व्याख्याति[भा.६४६७] तत्तो य ऊनए कप्पे, वसंपञ्जति जो तहिं।
____ जत्तिएहिं गणो ऊनो, तत्तिते तत्थ पक्खिवे॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org