________________
उद्देश : ६, मूलं - २१३, [भा. ६२९४ ]
"सेहोवट्ट” इत्यादि । शैक्षः कश्चिदुपस्थितः तस्य यद् 'विचित्रं बहुवधमर्थजातं क्वापिस्थापितमस्ति, यदि वा गच्छान्तरे यः कोऽपि शैक्ष उपस्थितः तस्य हस्ते यद् द्रव्यमवतिष्ठते तद् गृहीत्वा तस्मै दीयते । अथवा 'तेनैव' पित्रा 'अन्येन वा' साधुना निष्क्रामता यद् द्रव्यजातं कचित् पूर्वं 'निहितं' स्थापितमस्ति तद् आनीय तस्मै दीयते । तदभावे को विधिः ? इत्याह
[ मा. ६२९५ ] नीयल्लगाण तस्स व, भेसण ता राउले सतं वा वि । अविरिक्का मो अम्हे, कहं व लज्जा न तुज्झं ति ॥
वृ- 'निजकानाम्' आत्मीयानां स्वजनानां भेषणं कर्तव्यम्, यथा-वयं 'अविरिक्ताः' अविभक्तरिक्था वर्तामह ततो मोचयत मदीयां दुहितरम्, कथं वा युष्माकं न लज्जा अभूत् यद् एवं मदीया पुत्रिका दासत्वमापन्नाऽद्यापि धृता वर्तते ? । अथवा येन गृहीता वर्तते तस्य भेषणं विधेयम्, यथा-यदि मोचयसि तर्हि मोचय, अन्यथा भवतस्तं शापं दास्यामि येन न त्वं नेदं वा तव कुटुम्बकमिति । एवं भेषणेऽपि कृते यदि न मुञ्चति यदि वा ते स्वजना न किमपि प्रयच्छन्ति तदा स्वयं राजकुले गत्वा निजकैः सह व्यवहारः करणीयः, व्यवहारं च कृत्वा भाग आत्मीयो गृहीत्वा तस्मै दातव्यः । यद्वा स एव राजकुले व्यवहारेणाकृष्यते, तत्र च गत्वा वक्तव्यम्, यथा-इयमृषिकन्या व्रतं जिघृक्षु केनापि कपटेन धृताऽनेन वर्तते, यूयं च धर्मव्यापारनिषन्नाः, ततो यथा इयं धर्ममाचरति यथा चामीषामृषीणां समाधिरुपजायते तथा यतध्वमिति ॥ ततः
[ भा. ६२९६ ] नीयल्लएहि तेन च, सद्धिं ववहार कातु मोदनता । जं अंचितं व लिंगं, तेन गवेसित्तु मोदेइ ॥
३९३
बृ एवं निजकैस्तेन वा सार्द्धं व्यवहारं कृत्वा तस्या मोचना कर्तव्या । अस्यापि प्रकारस्याभावे यद् यत्र लिङ्गमर्चितं तत् परिगृह्णाति । ततः 'तेन अर्चितलिङ्गेन तल्लिङ्गधारिणां मध्ये य महान्तस्तत्पार्थ्याद् गवेषयित्वा तां मोचयन्ति ॥ अथ “दूराऽऽभोगे" त्यादिव्याख्यानार्थमाह[ भा. ६२९७] पुट्ठा व अपुट्ठा वा, चुतसामिणिहिं कहिंति ओहादी । घेत्तूण जावद, पुनरवि सारक्खणा जतणा ॥
वृ- यदि वा 'अवध्यादयः' अवधिज्ञानिनः, 'च्युतस्वामिनिधिम्' उच्छिन्नस्वामिकं निधिं कथयन्ति, तदानीं तेषां तत्कथनस्योचितत्वात् । ततः 'यावदर्थं' यावता प्रयोजनं तावद् गृहीत्वा पुनरपि तस्य निधेः संरक्षणं कर्तव्यम् । प्रत्यागच्छता च यतना विधेया, सा चाग्रे स्वयमेव वक्ष्यते । [ भा. ६२९८ ] सोऊण अट्ठजायं, अहं पडिजग्गती उ आयरिओ ।
संघाडगं च देती, पडिजग्गति नं गिलाणं पि ॥
वृ- निधिग्रहणाय मार्गे गच्छन्तं तम् 'अर्थजातं' साधुं श्रुत्वा साम्भोगकोऽसाम्भोगको वाऽऽचार्योऽर्थं 'प्रतिजागर्ति' उत्पादयति । यदि पुनः तस्य द्वितीयसङ्घाटको न विद्यते ततः सङ्घाटकमपि ददाति । अथ कथमपि स ग्लानो जायते ततस्तं ग्लानमपि सन्तं प्रतिजागर्ति न तूपेक्षते, जिनाज्ञाविराधनप्रसक्तेः । यदुक्तमनन्तरं "यतना प्रत्यागच्छता कर्तव्या" तामाह[भा. ६२९९ ] काउं निसीहियं अट्ठजातमावेदणं गुरुहत्थे । दाऊण पडिक्कमते, मा पेहंता मिया पासे ।।
वृ-यत्रान्यगणे स प्राघूर्णिक आयाति तत्र नैषेधिकीं कृत्वा 'मः क्षमाश्रमणेभ्यः' इत्यादि कृत्वा चमध्ये प्रविशति, प्रविश्य च यद् अर्थजातं तद् गुरुभ्य आवेदयति, आवेद्य च तदर्थजातं गुरुहस्ते
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International