________________
३९४
बृहत्कल्प-छेदसूत्रम् -३-६/२१३ दत्त्वा प्रतिक्रामति । कस्मान्न स्वपार्श्व एव स्थापयति ? इति चेद् अत आह-मा 'प्रेक्षमाणाः' निरीक्षमाणा मृगा इव मृगा अगीतार्थाः क्षुल्लकादयः पश्येयुः, गुरुहस्ते च स्थितं न निरीक्षन्ते, अस्मद्गुरूणां समर्पितमिति विरूपसङ्कल्पाप्रवृत्तेः॥
सम्प्रति “जयणाय जा जत्थे" तितद्वयाख्यानार्थमाह[भा.६३००] सनी व सावतो वा, केवतितो दिज्ज अट्ठजायस्स।
पुबुप्पन्न निहाणे, कारणजाते गहण सुद्धो।। वृ-यत्र 'संज्ञी' सिद्धपुत्रः श्रावको वा वर्तते तत्र गत्वा तस्मै स्वरूपं निवेदनीयं प्रज्ञापना च । कर्तव्या । ततो यत् तस्य पूर्वोत्पन्नं प्रकटं निधानं तन्मध्यादसौ सिद्धपुत्रादि प्रज्ञापितः सन् तस्य 'अर्थजातस्य' द्रव्यार्थिनः साधोः कियतोऽपि भागान् दद्यात् । अस्य प्रकारस्याभावे यद् निधानं दूरमवगाढं वर्तते तदपि तेन सिद्धपुत्रादिना उत्खन्य दीयमानमधिकृते कारणजाते गृह्णानोऽपि शुद्धः, भगवदाज्ञया वर्तनात्।।गतमवमद्वारम् । इदानीमापत्राद्वारमाह[भा.६३०१] थोवं पि धरेमाणी, कत्थइ दासत्तमेइ अदलंती।
परदेसे विय लब्मति, वाणियधम्मे ममेसत्ती॥ कृस्तोकमपिऋणशेषंधारयन्ती क्वचिद्देशेकाऽपि स्त्रीतद्ऋणमददतीकालक्रमेणऋणवृद्धया दासत्वम् ‘एति' प्रतिपद्यते । तस्याएवंदासत्वमापन्नायाः स्वदेशे दीक्षान दातव्या ।अथ कदाचित् परदेशे गता सती अज्ञातस्वरूपा अशिवादिकारणतो वा दीक्षिता भवति तत्र वणिजा परदेशे वाणिज्यार्थंगतेन ईष्टा भवेत् तत्रायकिल न्यायः-परदेशेऽपिवणिज आत्मीयं लभ्यं लभन्ते। तत एवं वणिग्धर्मे व्यवस्थिते सति स एवं ब्रूयात्-ममैषा दासी इति न मुञ्चाम्यमुमिति॥
तत्र यत् कर्तव्यं तप्रतिपादनार्थं द्वारगाथामाह- . [भा.६३०२] नाहं विदेसयाऽऽहरणमादि विज्जा य मंत जोए य ।
निमित्ते य राय धम्मे, पासंड गणे धणे चेव ॥ वृ-या तव् दासत्वमापन्ना वर्तते न साऽहं किन्तु अहमन्यस्मिन् विदेशे जाता, त्वंतु सध्क्षतया विप्रलब्धोऽसि ।अध साप्रभूतजनविदिता वर्तते तत एवं न वक्तव्यं किन्तुस्थापत्यापुत्राधाहरणं कथनीयम्, यद्यपि कदाचित् तच्छ्रवणतः प्रतिबुद्धोमुत्कलयति ।आदिशब्दाद् गुटिकाप्रयोगतः स्वरभेदादि कर्तव्यमिति परिग्रहः । एतेषांप्रयोगाणामभावे विद्या मन्त्री योगो वा ते प्रयोक्तव्या यैः परिगृहीतः सन् मुत्कलयति । तेषामप्यभावे 'निमित्तेन' अतीता-ऽनागतविषयेम राजा उपलक्षणमेतद् अन्यो वा नगरप्रधान आवर्जनीयो येन तत्प्रभावात् स प्रेर्यते । धर्मो वा कथनीयो राजादीनां येन ते आवृत्ताः सन्तस्तं प्रेरयन्ति । एतस्यापि प्रयोगस्याभावे पाषण्डान् सहायान् कुर्यात् । यद्वा यः ‘गणः' सारस्वतादिको बलवांस्तंसहायं कुर्यात् । तदभावे दूराऽऽभोगादिना . प्रकारेण धनुमुत्पाद्य तेन मोचयेत् । एष द्वारगाथास पार्थः।। साम्प्रतमेनामेव गायां विवरीषुराह[भा.६३०३] सारिक्खएण जंपसि, जाया अन्नत्थ ते वि आमंति।
बहुजनविण्णायम्मिं, थावच्चसुतादिआहरणं ।। वृ-यदि बहुजनविदिता सान भवति, यथा-इयं तद्देशजाता इति; तत एवं ब्रूयात्-अहमन्यत्र विदेशे जाता, त्वं तु साद्दक्ष्येण विप्रलब्ध एवमसमञ्जसं जल्पसि । एवमुक्ते तेऽपि तत्रत्याः 'आमम्' एवमेतद् यथेयं वदतीति साक्षिणो जायन्ते । अथ तद्देशजाततया सा बहुजनविज्ञाता For Private & Personal Use Only
www.jainelibrary.org
Jain Education International