________________
३९२
बृहत्कल्प-छेदसूत्रम् -३-६/२१३ कार्यते येन सा ग्लानेव लक्ष्यते, ततः 'एषा कृच्छ्रेण जीवति' इति ज्ञात्वा स तां मुञ्चति । अथवा शक्तीसत्यांयथाब्रह्मदत्तहिण्डयांधनुपुत्रेण वरधनुना मृतकवेषः कृतस्तथा निश्चला निरुच्छ्वासा सूक्ष्ममुच्छ्वसनं तिष्ठति येन मृतेति ज्ञात्वा तेन विसृज्यते । यदि वा यथा पुष्यभूतिराचार्यः सूक्ष्मे ध्याने कुशलः सन्ध्यानवशात् निश्चलः निरुच्छ्वासःस्थितःतथा तयाऽपि सूक्ष्मध्यानकुशलया सत्या तथा स्थातव्यं यथा समृतेत्यवगम्य मुञ्चति । एतेषांप्रयोगाणामभावे[भा.६२९१] अनुसिद्धिमनुवरंतं, गतिनं मित्त-नातगादीहिं।
एवं पिअठायंते, करेंति सुत्तम्मिजवुत्तं॥ वृ-अनुशिष्टिस्तस्य दीयते।तया यदि नोपरतस्ततस्तस्यपुरुषस्य यानि मित्राणियेचज्ञातयस्तैः आदशब्दाद् अन्यैश्च तथाविधैः स्थविरास्तं गमयन्ति' बोधयन्ति येन स तस्या मुत्कलनं करोति। एवमप्यतिष्ठति तस्मिन् यदुक्तं सूत्रे तत् कुर्वन्ति । किमुक्तं भवति ?-अर्थजातमपि दत्त्वा सा तस्मात्पुरुषामोचयितव्य। एतत् तस्याः सूत्रोक्तमवलम्बनमन्तव्यम्।गतं सेवकभार्याद्वारम्। अथावमद्वारमाह[भा.६२९२] सकुडूंबो मधुराए, निक्खिविऊणं गयम्मि कालगतो।
ओमे फिडित परंपर, आवन्ना तस्स आगमनं ।। वृ-मथुरायां नगर्यां कोऽपि वणिक् सकुटुम्बोऽपि प्रविजिषुरव्यक्तां दारिकां मित्रस्य गृहे निक्षिप्य ततः प्रव्रज्यां प्रतिपद्यान्यत्र गतः । गते च तस्मिन् स मित्रभूतः पुरुषः कालगतः। ततस्तस्य कालगमनानन्तरं 'अवमे' दुर्भिक्षे जाते सति तदीयैः पुत्रैरनाद्रियमाणा सा दारिका ततो गृहात् 'स्फिटिता' परिभ्रष्टा सती परम्परकेण दासत्वमापना । तस्य च पितुर्याथाविहारक्रम विहरतस्तस्यामेव मथुरायामागमनम् । तेन च तत् सर्वज्ञातम् । सम्प्रति तन्मोचने विधिमाह[भा.६२९३] अनुसासन कह ठवणं, भेसण वैवहार लिंगजंजत्थ ।
दूराऽऽभोग गवेसण, पंथे जयणाय जा जत्थ ।। वृ-पूर्वमनुशासनं तस्य कर्तव्यम् । ततः कथाप्रसङ्गेन कथनं स्थापत्यापुत्रादेः करणीयम् । एवमप्यतिछति यद् निष्कामता स्थापितं द्रव्यं तद् गृहीत्वा समर्पणीयम् । तस्याभावे निजकानां तस्य वा 'भेषणं भापनमुत्पादनीयम् । यदि वा राजकुले गत्वा व्यवहारः कार्यः। एवमप्यतिष्ठति यद्यत्रलिङ्गपूज्यंतत्रतत्परिगृह्यसामोचनीया। तस्यापि प्रयोगस्याभावेदूरेण-उच्छिन्नस्वामिकतया दूरदेशव्यवधानेन वा यद् निधानं तस्याभोगः कर्तव्यः । तदनन्तरं तस्य ‘गवेषणं साक्षानिरीक्षणं करणीयम् । गवेषणाय च गमने 'पथि' मार्गे यतना यथा ओघनियुक्ती उक्ता तथा कर्तव्या। याच यत्र यतना साऽपि तत्र विधेया यथासूत्रमिति द्वारगाथासङ्केपार्थः ।।
साम्प्रतमेनामेव विवरीषः प्रथमतोऽनुशासन-कथनद्वारे प्राह[भा.६२९४] निच्छिन्ना तुज्झ घरे, इसिकना मुंच होहिती धम्मो।
सेहोवट्ट विचित्तं, तेनव अन्नेण वा निहितं ।। वृ- एषा ऋषिकन्या तव गृहेऽवमादिकं समस्तमपि निस्तीर्णा अधुना व्रतग्रहणार्थमुपिष्ठते अतो मुञ्चैनाम्, तव भूयान् धर्मो भविष्यति।एतावता गतमनुशासनद्वारम् । तदनन्ता कथनमिति स्थापत्यापुत्रकथाकथनीया-यथासस्थापत्यापुत्रो व्रतं जिघृक्षुर्वासुदेवेन महतरं निष्क्रमणमहिम्ना निष्काम्य पार्श्वस्थितेन व्रतग्रहणं कारितः एवं युष्माभिरपि कर्तव्यम् ।। अथ स्थापितद्वारम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org