________________
पीठिका - {भा. ५५२]
१४१ प्रद्वेषगमनतो दशेत् ततो मरणम् । अथवा निष्काशने जनसम्मिलनतः स सर्पो लोकेन मार्येत । अथैतद्दोषभीता नसंसर्प निष्काशयन्ति ततस्तस्मिन् व्याले तिष्ठति आत्मविराधना, तेन भक्षणात्। एते च व्याले दोषाः । अथ निष्केतने तानाह-"तिरितीए" इत्यादि । यदि तिर्यकस्त्री प्रसूता निष्काश्यते ततः सा यथा व्यालस्तथैव नियमत इतस्ततो गच्छन्ती हरितकायादीन् व्यापादयेत्, बालकानां च तत्सम्बन्धिनां तां विना तया चानीयमानानां मरणसम्भवः । अथैवं दोषभयात् सा न निष्काश्यते तदा सा तिष्ठन्ती यदा तदा वा साधूनामनर्थं कुर्यात्, तत आत्मविराधना । अथ प्रसूता मानुषी निष्काश्यतेतथा (तदा) 'एतेषामियम्' इतिप्रवचनोड्डाहः।साऽपिच निष्काश्यमाना कायान् विराधयेत्।लोको वा ब्रूयात्-निरनुकम्पा एते य बालसहितामिमां निष्काशयन्ति । सा वा निष्काश्यमाना प्रद्वेषतः साधूनामालं दद्यात् चेटरूपं वा मारयेत् ॥ [भा.५५३] छड्डेउं वजइ गया, उज्झमनुज्झंति होति दोसाउ।
एवंता सुनाए, बाले ठविते इमे दोसा ।। वृ-अथवा सातत्रप्रसूतासतीतंचेटरूपंत्यक्त्वा गच्छेत्ततस्तं यदि उज्झन्ति परित्यजन्ति तदा निरनुकम्पतादोषः । अथ नोन्झन्ति तदा उड्डाहः । एवमेते तावत् शून्यायां वसतौ दोषाः । बाले स्थाप्यमाने पुनरिमे ।। [भा.५५४]बलि धम्मकहा किड्डा, पमजणाऽऽवरिसणा य पाहुडिया।
खंधार अगनि भंगे, मालव-तेना य नाती य ।। वृ- बलिद्वारं धर्मकथाद्वार क्रीडाद्वारं प्रमार्जनद्वारम् आवर्षणद्वारं प्राभृतिकाद्वारं स्कन्धावारद्वारम् अग्निद्वारंभङ्गद्वारं मालवद्वारस्तेनद्वारंज्ञातिद्वारंच एतैरिर्बाले रक्षके स्थाप्यमाने दोषा वक्तव्याः ।। तत्र प्रथमं बलिद्नवारमधिकृत्य दोषानाह[भा.५५५] साभाविय तन्त्रीसाए आगया भंडगं अवहरंति।
नीनेमि त्ति व बाहिं, जा पविसइ ता हरंतऽन्ने ।। वृ- साधवः कदाचनापि कारणवशतः सप्राभृतिकायां शय्यायां स्थिताः, सम्राभृतिका नाम सार्वजनिका यत्राऽऽगत्य बलि प्रक्षिप्यते, तत्र ये बलिकारकास्ते द्विधा तत्र समागच्छेयुः, तद्यथा-स्वभावेन वा उपकरणं वा हरिष्यामि' इति कैतवेन वा। तत्रये बलिकरकाः स्वाभाविका नोपकरणहरणप्रवृत्तास्ते 'तत्रिश्रया' बलिनिश्रयाऽऽगताः सन्तो बलिं कुर्वन्तो बालमेकाकिनं
ट्वा सञ्जातहरणबुद्धयो भाण्डकमपहरन्ति । अथवा बलिना प्रक्षिप्यमाणेनोपकरणं लेपयुक्तं क्रियते ततः स बालो वक्ति-बहिर्नयाम्युपकरणं येन न लेपयुक्तं क्रियते, ततः स बालो यावद् बहिर्निर्गतः प्रविशति तावदत्रान्तरेऽपहरन्युपकरणमन्ये ॥
स्वभावत इति गतम् । कैतवमधिकृत्याह[भा.५५६] एमेव कइयवा ते, निच्छूढं तं हरंति से उवहिं।
बाहिं च तुमं अच्छसु, अवणेहुचहिं व जा कुणिमो ।। वृ-'एवमेव' अनेनैव प्रकारेण कैतवात् 'ते' समागता उपधिमहपहरेयुः, तथाहि-केचन धूर्ता उपधिं हर्तुकामाः कैतवात् समागत्य क्षुल्लकंब्रुवते-क्षुल्लक ! एष बलिः समागच्छति ततस्त्वं बहिर्निर्गच्छ, एवंतंबहिनिष्काश्य से तस्योपधिमपहरन्ति ।अथवेदंवदन्ति-वयंबलिं करिष्यामः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org