________________
१४२
बृहत्कल्प-छेदसूत्रम् -१ततो यावद्वयं बलिं कुर्मस्तावत् त्वंबहिस्तिष्ठ, मा कूरेण खरण्टयिष्यते (ष्यसे), एवंतं निष्काश्य तस्योपधिमपहरन्ति।यदि वातेएवंब्रूयुः-यावद्वयं बलिं कुर्मस्तावदभ्यन्तरादात्मीयमुपधिमुपनय, सच बालस्तत्कार्यमजानन् एकवारंच सर्वमुपकरणं नेतुमशक्नुवन् स्तोकं गृहीत्वा निर्गत्य बहिः स्थापयित्वा यावदन्यस्य प्रविशति तावत् तदुपकरणमभ्यन्तरस्थितं धूर्तेरपहियते॥
तदेवं बलिद्वारं गतम् । अधुना धर्मकथाद्वारमाह[भा.५५७] कतिएण सभावेणव, कहापमत्ते हरंति से अन्ने।
किड्डा सयं वरिंखा, पासति व तहेव किड्डदुगं ।। वृ-केचनपुरुषाः धर्मंश्रणुमः' इति कैतवेन वा स्वभावेन वासमागच्छेयुः। तत्र स्वभावत आगतानां बालमेकाकिनं दृष्ट्वा हरणबुद्धिरुपजायते। इतरेतुप्रथमत एव हरणबुधैव समागतास्ते क्षुल्लकं ब्रुक्ते-कथय धर्मकथामस्माकमिति; ततः स कथां कथयितुं प्रवृत्तः प्रबन्धेन च कथयति, कथाप्रमत्ते केचिदग्रत उपविष्टाः श्रण्वन्ति, अन्ये तस्योपकरणमपहरन्ति । गतं धर्मकथाद्वारम् । क्रीडाद्वारमाह-"किड्डा" इत्यादि । क्रीडायामपि द्विकं वक्तव्यम् । किमुक्तं भवति ?क्रीडानिमित्तमपि केचन स्वभावतआगच्छेयुः कैतवेन वा । स्वभावतोऽप्यागतानांबालमेकाकिनं दृष्ट्वा हरणबुद्धिरुल्लसति, तत्र स स्वयं बालः क्रीडति गोलादिना । अथ कदाचित् स क्षुल्लको
यात्-न वर्ततेऽस्माकंक्रीडा; ततस्तेवदन्ति-यद्येवं तर्हि रिक्षाः कुरु, कःकियन्तोवारा रिकति? एवंलबालो रिङ्खाः करोति; अथब्रूते-न कल्पन्ते संयतानां रिया अपि कर्तुमिति; ततस्ते वदन्तियद्येवमस्मान् क्रीडतः पश्य, ततः स कौतुकेन क्रीडतः पश्यति; एवं स्वयं क्रीडया रिवाभिर्वा पश्यन् वा क्रीडाप्रमत्त उपजायते; ततस्तथैवान्ये तेन सह क्रीडन्ति, अन्ये हरन्त्युपकरणमिति ।। सम्प्रति प्रमार्जनद्वारमावर्षणद्वारं च युगपदाह
[भा.५५८/१]जो चेव बलीए गमो, पमज्जणाऽऽवरिसणे वि सो चेव।
वृ-य एव बलिद्वारे गम उक्तः स एव प्रमार्जने आवर्षणे च द्रष्टव्यः 1 किमुक्तं भवति?. प्रमार्जननिमित्तमावर्षणनिमित्तं वा केचित् स्वभावेन अपरे कैतवेन समागच्छन्ति, समागत्य च बलिद्वारोक्तेन प्रकारेणोपकरणमपहरन्तीति ।। इदानीं प्राभृतिकाद्वारमाह
[भा.५५८/२]पाहुडियं वा गेण्हसु, परिसाडणियं व जा कुणिमो ।
वृ-'प्राभृतिका' भिक्षाऽपि भण्यतेअर्चनिकाऽपि।तत्रोभयमप्यधिकृत्य दोषानाह-कैतवेन स्वभावेन वाकेचन ब्रूयुः-क्षुल्लक ! भिक्षां गृहाण, अथवा द्वारे निर्गच्छ यावद्वयं परिशाटनिकाम्' अर्चनिकां कुर्मः । एवमुक्तः स यावद् भिक्षामाददाति बहिर्वा निर्गच्छति तावत् तस्योपकरणं हरन्तीति ।। गतं प्राभृतिकाद्वारम् । अधुना स्कन्धावारद्वारमग्निद्वारं चाह[भा.५५९] खंधारभया नासति, एस व एइत्ति कइयवे नस्स।
अगनिभया व पलायति, नस्ससु अगन व एति ति ।। वृ-कोऽपि स्वभावतः स्कन्धवाराभयानश्यति ब्रूते च-एष सराजकः स्कन्धावारः समागच्छति, स च तथा स्वभावतो नश्यन् बालमेकाकिनं द्दष्टवाऽपहरेत् । अपरः कैतवेन ब्रूतेएव क्षुल्लक ! स्कन्धावारः समायाति तस्माल्लघु पलायस्व पलायस्व, ततः स बालो नश्यति; इतरे उपधिमपहरन्ति । अग्निभयादपि कोऽपि स्वभावतः पलायते, स च पलायमानो वक्ति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org