________________
३८४
बृहत्कल्प-छेदसूत्रम् -३-६/२०६।
इति दायकेन निषिद्धं 'अलब्धपूर्व वा कयाऽपि पूर्वं तत्र न लब्धं तत्र तद् लब्ध्वा दीप्तचित्ता भवतीति वाक्यशेषः, यद्वा सामान्येनोत्कृष्ट आहार उत्कृष्ट उपधिरुत्कृष्टा वा वसतिर्लब्धा अक्षतयोनिका चा 'दुहिता' काचीदश्वरपुत्रिका लब्धा तत्रेयं यतना॥ [भा.६२५४) पगयम्मि पन्नवेत्ता, विजाति विप्सोधि कम्ममादी वा ।
खुड्डीय बहुविहे आनियम्मिओभावणा पउणा ॥ वृ. 'प्रकृते' विशिष्टतरे भक्त-क्षीर-कम्बल-रलादिकेऽवमतरायाः सम्पादयितव्ये तथाविधं श्रावकमितरं वा प्रज्ञाप्य, तदभावे कस्यापि महर्द्धिकस्य विद्यां आदिशब्दामन्त्र-चूर्णादीन्यावत् 'कर्मादि' कार्मणमपि प्रयुज्य, आदिशब्दः स्वगतानेकभेदसूचकः, ततः क्षुल्लिकतराया गुणतः शतभाग-सहस्रभागादिना हीनाया विशिष्टमाहारादिकं सम्पादयन्ति । ततो विद्यादिप्रयोगजनितपापविशुद्धये 'विशोधि' प्रायश्चित्तं ग्राह्यम् । एवं क्षुल्लिकया 'बहुविधे' क्षीरादिके आनीते सति तस्या अपभ्राजना क्रियते तःप्रगुणा भवति ॥ [भा.६२५५] अद्दिसह कहणं, आउट्टा अभिणवो य पासादो।
कयमित्ते य विवाहे, सिद्धाइसुता कतितवेणं ।। वृ-यस्तया श्राद्धोन दृष्टः-अष्टपूर्वस्तस्यादृष्टस्य श्राद्धस्य कथनं प्रज्ञापना, उपलक्षणमेतद्, अन्यस्य महर्द्धिकस्य विद्यादिप्रयोगतोऽभिमुखीकरणम्, ततस्ते आवृत्ताः सन्तस्तस्या लब्ध्यभिमानिन्याः समीपमागत्य ब्रुवते-वयमेतया क्षुल्लिकया प्रज्ञापितास्ततः 'अभिनव एव' कृतमात्र एव युष्माकेष प्रासादो दत्त इति । तथा कैतवेन सिद्धादिसुताः' सिद्धपुत्रादिदुहितरः कृतमात्र एव विवाहे उत्पादनीयाः । इयमत्र भावना-सिद्धपुत्रादीनां प्रज्ञापनां कृत्वा तद्दुहितरः कृतमात्रविवाहा एव व्रतार्थं तत्समक्षमुपस्थापनीयाः येन तस्या अपभ्राजना जायते । ततः प्रगुणीभूतायां तस्यां यदि तासां न तात्विकी व्रतश्रद्धा तदा शकुनादिवैगुण्यमुद्भाव्य मुच्यन्ते।
म. (२०७) जस्खाइडिं निग्गंथिं निग्गंधे गिण्हमाणे वा नाइक्कमइ ॥ वृ-अस्य सम्बन्धमाह[भा.६२५६] पोग्गल असुभसमुदयो, एस अनागंतुगो व दोण्हं पि ।
जक्खावेसेणं पुन, नियमा आगंतुको होइ॥ - 'द्वयोः' क्षिप्तचित्ता-दीप्तचित्तयोः एषः' पीडाहेतुत्वेनान्तरमुद्दिष्टोऽशुभपुद्गलसमुदयः 'अनागन्तुकः' स्वशरीरसम्भवीप्रतिपादितः । यक्षावेशेन पुनर्यो यतिपीडाहेतुरशुभपुद्गलसमुदयः स नियमादागन्तुको भवति । ततोऽनागन्तुकाशुभपुद्गलसमुदयप्रतिपादनानन्तरमागन्तु. काशुभपुद्गलसमुदयप्रतिपादनार्थमेष सूत्रारम्भः ।। प्रकारान्तरेण सम्बन्धमाह[मा.६२५७] अहवा भय-सोगजुया, चिंतद्दन्ना व अतिहरिसिता वा।
आविस्सति जक्खेहि, अयमन्त्रो होइ संबंधो॥ वृ-'अथवा' इति प्रकारान्तरोपदर्शने । भय-शोकयुक्ता वा चिन्तार्दिता वा, एतेन क्षिप्तचित्ता उक्ता; अतिहर्षिता वा या परवशा, अनेन दीप्तचित्ताऽभिहिता; एषा द्विविधाऽपि यक्षः परवशहृदयतया आविश्यते' आलिङ्गयते।ततः क्षिप्त-दीप्तचित्तासूत्रानन्तरंयक्षाविष्टासूत्रमित्ययमन्यो भवति सम्बन्धः । अनेन सम्बन्धेनायातस्यास्या व्याख्या-सा च प्राग्वत् । सम्प्रति यतो यक्षाविष्टा भवति तत् प्रतिपादनार्थमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org