________________
पीठिका - [भा. ५४६ ]
१३९
वृ- ते साधवो भिक्षादिनिमित्तं सर्वमात्मीयं भाण्डमादाय शून्यां वसतिं कृत्वा गताः, शय्यातरश्चागतः, दृष्टातेन शून्या वसति, पृष्टं कस्यापि पार्श्वे क्व गताः साधवः ?, गृहमानुषैरुक्तम्दृश्यते शून्या वसतिस्तस्मादवश्यमन्यत्र गताः । इदं तेषां वचः श्रुत्वा यदि प्रीतिकमुपजायते यथा-यदि 'गता गता नाम' इति तदाऽऽरोपणा चत्वारो लघुकाः । अथ तस्याप्रीतिकमुत्पद्यते यथा- 'अकृतज्ञाः' एते एनमप्युपचारं न जानन्ति यथा 'आपृच्छय गन्तव्यम्' अथवा 'अदाक्षिण्याः' निस्नेहास्ततोऽ नापृच्छया गता इति तदा चतुर्गुरुकम् । तथा द्विविधश्छेदः, तथाहि स प्रद्विष्टस्तेषामन्येषां वा साधूनां तद्रव्यस्य वसतिलक्षणस्यान्यद्रव्याणां वा भक्तपानादीनां व्यवच्छेदं कुर्यात् । "भरियभरागमनिच्छुभ "त्ति ततः स कषायितः शय्यातरो यदा ते साधवो भरितभाजनभरेणावनमन्त आगच्छन्ति तदा स्थानं न दद्यात् । तत्र यदि दिवा निष्कासयति तदा चत्वारो लघवः । तथा तैर्भरितैर्भाजनैः सहान्यां वसतिं याचमाना आगाढादिपरितापनामाप्नुवन्ति तन्निष्पन्नमपि तेषां प्रायश्चित्तं चतुर्लघु ।
तथा जनमध्ये गर्हामाप्नुवन्ति - किं यूयमकाण्डे एवं निष्कासिताः ? । ततः 'न भव्या एते' इत्यन्यत्रापि ते वसतिं न लभन्ते । अन्यत्र च वसतिभलभमाना ग्रामादौ व्रजन्ति ततो मासकल्पभेदः । तत्र च विहारक्रमे या विराधना तनिष्पन्नाऽपि तेषामारोपणा । तथाऽन्ये साधवो विहारादिनिर्गतास्तत्र समागताः, ततर चान्या वसतिर्न विद्यते, स च शय्यातरस्तेषां दोषेणान्येषामपि न ददाति, ततो विहाराद्यागता वसतेरलाभे यत्ते श्वापद-स्तेनादिभ्योऽनर्थमाप्नुवन्ति तन्निष्पन्नमपि तेषां प्रायश्चित्तम्। एवं तावत् कृतभिक्षाटनमात्राणामुक्ता दोषाः । अथ बहिरेव भुक्त्वा रात्रावागता वसतिं न लभन्ते तदाऽऽ रोपणा चतुर्गुरु, सविशेषतराश्च गर्हादयो दोषाः, विनाशश्च श्वापदादिभ्यः । अथवा स शय्यात्तरः प्रथमं सम्यग्दृष्टिर्भूतः पश्चाद् 'अनापृच्छया गताः' इति भावविपरिणामतो मिध्यात्वं यायात् ।। गतं मिथ्यात्वद्वारम् । अधुना बटुकद्वारमाह
[भा. ५४७ ] सुन्नं दद्धुं बडुगा, उभासिते ठाह जइ गया समणा । आगम पवेसऽसंखड, सागरि दिन्नं ति य दियाणं ॥
[भा. ५४८] संभिचेण व अच्छह, अलियं न करेमऽहं तु अप्पाणं । उहुंचग अहिगरणं, उभयपयोसं च निच्छूढा ।। [भा. ५४९ ] सागरिय-संजयाणं, निच्छूढा तेन अगनिमाईहिं । जं काहिंति पट्टा, उभयस्स वि ते तमावजे ॥
वृ-शून्यां वसतिं दृष्टवा ‘बटुकाः ' चाटाः सागारिकम् 'अवभाषन्ते' याचन्ते - अस्माकमुपाश्रयं प्रयच्छत । शय्यातरो ब्रूते - तत्र श्रमणास्तिष्ठन्ति । बटुकैरुक्तम्- गतास्ते । शय्यातरः प्रातर्हि तिष्ठत यूयं यदि गताः श्रमणाः । ते स्थिताः । आगताः साधवः प्रवेष्टुं प्रवृत्ता वसत बटुकैर्निवारिताःमाऽत्र प्रविशथ, वयमग्रे तिष्ठामः । ततः 'असङ्खडं' कलहः परस्परमुपजायते । बटुका ध्रुवतेवसतिरस्माकं स्वामिना दत्ता, किमत्र युष्माकम् ? । इतरेऽपि वदन्तिस्वामिनैवास्माकमपि वसतिरदायिततः साधवः शय्यातरसकाशं गच्छन्ति । स ब्रूते यूयमनापृच्छया शून्यं कृत्वा गताः, मया ज्ञातम् गता यूयं येन शून्यीकृता दृश्यते वसति, अतो मया 'द्विजानां' बटुकानां दत्ता वसति 'इति' तस्मात् 'संवृत्येन' परस्पसञ्चिन्त्या यूयं बटुकाश्चैकत्र स्थाने तिष्ठत, नाहमास्मानलीकं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International