________________
बृहत्कल्प-छेदसूत्रम् - १
वृ- संयोजना द्विविधा - अन्तर्बहिश्च; तत्रान्तः संयोजनायां चत्वारो लघवः, बहिसंयोजनायां चत्वारो गुरुकाः । अन्ये त्वन्तर्बहिर्वा संयोजनायां चत्वारो गुरुका इति प्रतिपन्त्राः | प्रमाणातिरिक्तमाहारयति चत्वारो लघवः । “सइंगाले "त्ति साङ्गारे आहार्यमाणे चत्वारो गुरुकाः । सधूमे चतुर्लघु । निष्कारणे चतुर्लघु । सचित्तानन्तमिश्रे चतुर्गुरुकम् एतच्च प्रागेव स्वस्थानेऽभिहितम् । तथा 'विष्वगुन्मिश्रे पृथिवीकायादिभि प्रत्येकैर्मिश्रैरुन्मिश्रे लघुको मासः, अनन्तैरुन्मिश्रे गुरुकः । "सेसे लहुगा उ सव्वेसु " 'शेषेषु सर्वेष्वपि' ग्रहणैषणाभेदेषु ग्रासैषणाभेदेषु च चत्वारो लघुकाः, ते च तथैव योजिताः ॥ गतः पिण्डकल्पिकः । सम्प्रति शय्याकल्पिकमाह
१३८
[भा. ५४१] दुविहा हवंति सेज्जा, दव्वे भावे य दव्व खायाती । साहूहि परिग्गहिया, ते चैव उ भावओ सेज्जा ।।
वृ- द्विविधा भवन्ति शय्याः- द्रव्यतो भावतश्च । तत्र द्रव्यतः 'खातादयः' खातमुच्छ्रितं खातोच्छ्रितं च । एता द्रव्यशय्याः साधुभिः परिगृहीता भावतः शय्या भवन्ति ॥
[ भा. ५४२ ] रक्खण गहणे तु तहा, सेज्जाकप्पो उ होइ दुविहो उ । सुन्ने बाल गिलाणे, अव्वत्ताऽऽ रोवणा भणिया ||
वृ-शय्यायां कल्पते इति शय्याकल्पः शय्याकल्पिक इत्यर्थः । सद्विविधः तस्या भावशय्याया रक्षणे ग्रहणे च । तत्र रक्षणे प्रोच्यते वसतिनिर्यमतस्तावद् रक्षयितव्या, यदि पुनर्भिक्षादिप्रयोजनतो गच्छन्तः शून्यां वसतिं कुर्वन्ति वालं ग्लानमव्यंक्तं वा वसतिपालं स्थापयन्ति तदा 'आरोपणा' प्रायश्चत्तं भणिता ॥ तामेवोपदर्शयति
[भा.५४३] पढमम्मिय चउलहुया, सेसेसुं मासियं मुनेयव्वं । दोहि गुरू इक्केणं, चउथपए दोहि वी लहुयं ॥
वृ- प्रथममिह गाथाक्रमप्रामाण्यात् शून्यमुच्यते । यदि शून्यां वसतिं वसतिं कुर्वन्ति तदाऽऽरोपणा चत्वारो लघुका द्वाभ्यां गुरवः, तद्यथा - तपोगुरुकाः कालगुरुकाश्च । अथ बालं स्थापयन्ति तदा मासलघु तपोगुरु काललघु । ग्लानं स्थापयन्ति मासलघु तपोलघु कालगुरु । 'चतुर्थपदे' अव्यक्तस्थापनलक्षणे मासलघु द्वाभ्यामपि लघुकम्, तद्यथा-तपसा कालेन च ॥ उक्ताऽऽ रोपणा । साम्प्रतमेतेष्वेव दोषा वक्तव्याः, तत्र प्रथमं तावच्छून्ये दोषानाह[भा. ५४४] मिच्छत्त बडुग चारण, भडाण मरणं तिरिक्ख-मनुयाणं । आसवाल निक्केणेय सुन्ने भवे दोसा ।।
वृ- शून्यायां वसतौ कृतायां कदाचित् शय्यातरस्य मिध्यात्वगमनम्, बटुक प्रवेशः, चारणप्रवेशः, भटप्रवेशः, तिरश्चां मनुष्याणां वा तत्र मरणम्, 'आदेशाः' प्राधूर्णकास्तठप्रवेशः, व्यालप्रवेशः । एते शून्ये उपाश्रये कृते दोषा भवन्ति । तथा 'निकेतने' प्रसूतायाः स्त्रियास्तिरक्ष्या वा निष्कासने दोषाः ॥ तत्र प्रथमं मिथ्यात्वद्वारमाह
[भा. ५४५] सोच्चा पत्तिमपत्तिय, अकयन्नु अदक्खिणा दुविह छेदो ! भरियभागमनिच्छुभ, गरिहा न लभंति वऽन्नत्थ ॥ -
[ भा. ५४६ ] भेदो य मासकप्पे, जदलंभे विहारादि पावते अन्नं । बहिभुत्त निसागमने, गरिहविनासा य सविसेसा ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org