________________
पीठिका - [भा. ५३८]
१३७ बीजेषुपरीत्तेष्वनन्तरं परम्परंवा प्रतिष्ठितंगृह्णतः पञ्च रात्रिन्दिवानि लघुकानि, अनन्तेषुगुरुकाणि। अन्ये तु ब्रुवते-प्रत्येकमिश्रेऽनन्तरं परम्परं वा प्रतिष्ठितमाददानस्य लघु रात्रिन्दिवपञ्चकम्, अनन्तमिश्रेऽनन्तरंपरम्परंवाप्रतिष्ठितंगृह्णतो गुरुकमिति।तथाऽपरे प्रत्येकेसचित्तमनन्तरप्रतिष्ठितं गृहृतश्चतुर्लघवः, परम्परप्रतिष्ठितंमासलघुः तथा प्रत्येके मिश्रेऽनन्तरप्रतिष्ठितमाददानस्य लघुको मासः, परम्परप्रतिष्ठितं गृह्णतो लघु रात्रिन्दिवपञ्चकम् अनन्ते मिश्रेऽनन्तरप्रतिष्ठिते मासगुरु, परम्परप्रतिष्ठिते गुरु रात्रिन्दिवपञ्चकमिति । उक्तञ्च
पुढवी आऊ तेऊ, परित्तेचेव तह य वणकाये।
चउलहुअनंतरम्मी, सच्चित्ते परंपरे मासो॥ मीसानंतर लहुगो, लहुपनग परंपरे परित्तेसु ।
एएचेव य गुरुगा, होति अनंते पइट्ठाणे ॥इति । वृ-त्रसकायेऽनन्तरप्रतिष्ठितं गृह्णतश्चतुर्लघुकम्, परम्परप्रतिष्ठितं गृह्णतो मासलघु; "तसकाये चतुलहुगा, अनंतरपरंपरहिए लहुओ" इति वचनात् ।। एवं षड्जीवनिकायेषु प्रत्येकेऽनन्तेमिश्रेच पृथिव्यादौबीजेच प्रत्येकेऽनन्तेमिश्रेचानन्तरंपरम्परंच प्रतिष्ठितमाददानस्य प्रायश्चित्तमिति । अधुना पिहितं संहरणं चाधिकृत्य प्रायश्चित्तमाह
[भा.५३९/१]एमेव य पिहियम्मी, लहुगा दव्वम्मि चेव अपरिणए।
'एवमेव' अनेनैव प्रकारेण पिहितेऽपि प्रायश्चित्तं वक्तव्यम् । किमुक्तं भवति ?-यथा निक्षिप्ते प्रायश्चित्तुक्तमेवं येन द्रव्येण सचित्तेनाचित्तेन मिश्रेण वाऽनन्तरं परम्परकं वा पिधीयते तत्रापि द्रष्टव्यम्, नवरमचित्तेन गुरुकेण पिहिते गृह्णतश्चतुर्गुरुकम् । संहरणे-येनमात्रकेण भिक्षा दातुकामस्तत्र यदि किञ्चित्प्रक्षिप्तं वर्तते तदन्यत्र संहृत्य ददाति तच्च संहियमाणमद्याप्यपरिणतं तस्मिन्नपरिणते द्रव्ये संहते गृहृतश्चत्वारो लघुकाः । दायके-प्रगलिते नपुंसके चत्वारो गुरुकाः, पिञ्जन-कर्तन-लक्ष्णखण्डकरण-प्रमर्दनप्रवृत्तेषु प्रत्येकं मासलधु, शेषेषु दायकदोषेषु चत्वारो लघुकाः । उन्मिश्रे-सचित्तानन्तमिश्रेचतुर्तेषुप्रत्येकंमासलघु, शेषेषुदायकदोषेषु चत्वारोलघुकाः। उन्मिश्रे-सचित्तानन्तमिश्रे चतुर्गुरु, मिश्रानन्तमित्रे मासगुरु, सचित्तप्रत्येकमि चतुर्लघु, प्रत्येकमिश्रमिश्रे मासलघु ॥
[भा.५३९/२] विसुम्मीसे पनगं, अनंतबीए य पनग गुरू ।।
वृ-'विष्वगुन्मिश्रे' प्रत्येकबीजोन्मिश्रे लघु रात्रिन्दिवपञ्चकम्, अनन्तबीजोन्मिने गुरु रात्रिन्दिवपञ्चकम् । अपरिणते-द्रव्यापरिणते कायनिष्पन्नम्, ये कायाः प्रत्येकरूपा अनन्तरूपा वा अपरिणतास्तन्निष्पत्रमित्यर्थः; तत्र पृथिव्यादिष्वपरिणतेषु चतुर्लघुकम्, अनन्तेष्वपरिणतेषु चतुर्गुरु । उक्तञ्च- दव्वापरिणते चउलहु, पुढवादी चउगुरू अनंतेसु । “भावापरिणते दोण्हं तु भुंजमाणाणमेगो तत्थनिमंतए" इत्येवंरूपे लघुको मासः, “भावापरिणते लघुगो" इति वचनात्। लिप्ते-आधेषु त्रिषु भङ्गेषु चत्वारो लघुकाः, चरमभङ्गेऽनेषणायां चतुर्गुरकः । छर्दिते-आद्येषु त्रिषु भङ्गेषु प्रत्येकं चतुर्लघुकम्, चरमभङ्गेऽनाचीर्णम् ।। [भा.५४०] संजोग सइंगाले, अनंतमीसे विचउगुरू होंति ।
वीसुम्मीसे मासो, सेसे लघुका उसव्वेसु॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org