________________
उद्देशक : ६, मूलं-१९७, [भा. ६१३६] अवमः प्राह-'द्वितीयमपि'मृषावादव्रतं 'ते' तव नास्ति॥एवंभणतस्तस्येयं प्रायश्चित्तरचना[भा.६१३७] वञ्चति भणाति आलोय निकाए पुच्छिते निसिद्धे य।
साहु गिहि मिलिय सव्वे, पत्थारो जाव वयमाणे॥ [भा.६१३८] मासो लहुओ गुरुओ, चउरो लहुगा य होति गुरुगा य ।
छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगंच।। वृ-स एवमुक्त्वा ततो निवृत्त्याऽऽचार्यसकाशं व्रजति मासलघु । आगत्य भणति यथा-तेन दुर्दुरोमारितः,एवंभणतो मासगुरु ।योऽसावभ्याख्यातः स गुरुणांसकाशमागतः,आचार्यैश्चोक्तम्"आलोय"त्ति आर्य! सम्यगालोचय, किं सत्यं भवता दुर्दुरो मारितः?; स प्राह-न मारयामि, एवमुक्तेऽभ्याख्यानदातुश्चतुर्लघु। “निकाए"ति इतरोनिकाचयति रात्निकस्तुभूयोऽपितावदेव भणति तदा चतुर्गुरु ।अवमरालिको भणति-यदिन प्रत्ययस्ततस्तत्रगृहस्थाः सन्ति ते पृच्छयन्ताम्, ततो वृषभागत्वा पृच्छन्ति, पृष्टेच सतिषड्लघु।गृहस्थाः पृष्टाः सन्तः “निसिद्धं" निषेधं कुर्वन्तिनास्माभिर्द१रव्यपरोपणं कुर्वन् दृष्ट इति षड्गुरु । “साहु"त्ति ते साधवः समता आलोचयन्ति नापद्रावित इति तदा छेदः । “गिहि"ति अथासावभ्याख्यानदाता भणति-'गृहस्थाः' असंयता यत् प्रतिभासते तद् अलीकं सत्यं वा ब्रुवते, एवंभणतो मूलम् । अथासौ भणति-"मिलिय"त्ति गृहस्थाश्च यूयं चैकत्र मिलिता अहं पुनरेक इतिब्रुवतोऽनवस्थाप्यम् । सर्वेऽपि यूयं प्रवचनस्य बाह्या इतिभणतः पाराञ्चिकम् । एवमुत्तरोत्तरंवदतः पाराञ्चिकं यावत्प्रायश्चित्तप्रस्तारोभवति।।
अथेदमेव भावयति[भा.६१३९] किं आगओ सि नाहं अडामि पाणवहकारिणा सद्धिं ।
सम्मं आलोय त्तिय, जा तिन्नितमेव वियडेति ॥ वृ-रालिकं विना स एकाकी समायातो गुरुभिरुक्तः-किमेकाकी त्वमागतोऽसि? । स प्राहनाहं प्राणवधकारिणा सार्द्धमटामि । एवमुक्ते रात्निक आगतो गुरुभिरुक्तः-सम्यगालोचय, कोऽपि प्राणी त्वया व्यपरोपितः ? न वा? इति । स प्राह-न व्यपरोपितः । एवं त्रीन् वारान् यावदालोचाप्यते ।यदि त्रिष्वपि वारेषुतदेव विकटयति' आलोचयति तदा परिस्फुटमेव कथ्यते। [मा.६१४०]तुमए किर हुरओ, हओ त्ति सो विय भणातिन मए त्ति।
तेन परंतुपसंगो, धावति एक्के व बितिए वा ॥ वृ-किल इति द्वितीयस्य साधोमुखादस्माभिः श्रुतम्-त्वया द१रः 'हतः' विनाशितः। स प्राहनमया हत इति । 'ततः परम्' एवंभणनानन्तरं प्रसङ्गः प्रायश्चित्तवृद्धिरूपः 'एकस्मिन् रालिके 'द्वितीये वा' अवमरालिके धावति । किमुक्तं भवति ?-यदि तेन रालिकेन सत्यनैव दर्दुरो व्यपरोपितः ततोयदि सम्यगालोचय' इतिभण्यमानो भूयो भूयोनिद्भुते तदातस्य प्रायश्चित्तवृद्धिः। अथ तेन न व्यपरोपितः ततः 'इतरस्य' अभ्याख्यानं निकाचयतः प्रायश्चित्तं वर्द्धते ।।
इदमेव भावयति[भा.६१४१] एक्कस्स मुसावादो, काउं निण्हाइणो दुवे दोसा।
___ तत्थ वि य अप्पसंगी, भवति य एक्को व एको वा॥ वृ- 'एकस्य' अभ्याख्यानदातुरेक एव मृषावादलक्षमो दोषः । यस्तु द१रवधं कृत्वा निद्भुते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org