________________
बृहत्कल्प - छेदसूत्रम् - ३-६/१९७
- इह प्रायश्चित्तं द्विधा - उद्धातमनुद्धातं च । उद्धातं- लघुकम्, तच लघुमासादि । अनुद्धातिकंगुरुकम्, तच्च गुरुमासादि । तदुभयमपि द्विधा-मिश्रं चशब्दाद् अमिश्रं च । मिश्रं नाम-लघुमासादिकं तपः-कालयोरेकतरेण द्वाभ्यां वा गुरुकम्, गुरुमासादिकं वा तपस कालेन वा द्वाभ्यां वा लघुकम्। अमिश्रं तु लघुमासादिकं तपः कालाभ्यां द्वाभ्यामपि लघुकम्, गुरुमासादिकं वा द्वाभ्यामपि गुरुकंम् । उभयमपि च तपः- कालविशेषरहितं पुनरपि द्विधा - प्रसङ्गि अप्रसङ्गि च । प्रसङ्गि नाम - यद् अभीक्ष्णप्रतिसेवारूपेण शङ्का भोजिका-घाटिकादिपरम्परारूपेण वा प्रसङ्गेन युक्तम्, तद्विपरीतमप्रसङ्गि । भूयोऽप्येतदेकैकं द्विधा-आपत्तिप्रायश्चित्तं दानप्रायश्चित्तं च । एतत् सर्वमपि प्रायश्चित्तं 'द्विपक्षेऽपि' श्रमणपक्षे श्रमणीपक्षे च वस्तु प्रतीत्य मन्तव्यम् । वस्तु नाम आचार्यादीकं प्रवर्तिनीप्रभृतिकं च ततो यस्य वस्तुनो यत् प्रायश्चित्तं योग्यं तत् तस्य भवतीति भावः । एष प्रायश्चित्तप्रस्तार उच्यते ॥ “सम्मं अपडिपूरेमाणे "त्ति पदं व्याचष्टे
[ भा. ६१३२] जारिसएणऽभिसत्तो, स चाधिकारी न तस्स ठाणस्स । सम्मं अपूरयंतो, पच्चंगिरमप्पणी कुणति ॥
३६०
वृ- 'याध्शेन' दर्दुरमारणादिनाऽभ्याख्यानेन 'सः' साधुः 'अभिशप्तः' अभ्याख्यातः स तस्यस्थानस्य 'नाधिकारी' न योग्यः अप्रमत्तत्वात्; अतोऽभ्याख्यानं दत्त्वा सम्यग् 'अप्रतिपूरयन्' अनिर्वाहयन् आत्मनः प्रत्यङ्गिरां करोति, तं दोषमात्मनो लगयतीत्यर्थः ।। कृता विषमपदव्याख्या भाष्यकृता । सम्प्रति निर्युक्तिविस्तरः
[भा. ६१३३]
-
छ चेव य पत्थारा, पाणवह मुसे अदत्तदाने य । अविरति अपुरिसवाते, दासावातं च वतमाणे ॥
वृ- षडेव प्रस्ताराः भवन्ति तद्यथा-प्राणवधवादं मृषावादवादं अदत्तादानवादमविरतिकावादमपरुषवादं दासवादं च वदति इति । तत्र प्राणवधवादे प्रस्तारं तावदभिधित्सुराहदहुर सुणए सप्पे, मूसग पाणातिवादुदाहरणा
[ मा. ६१३४]
एतेसिं पत्थारं वोच्छामि अहानुपुव्वीए । वृ-प्राणातिपाते एतानि 'उदाहरणानि' निदर्शनानि भवन्ति दर्दुरः शुनकः सर्पो मूषकश्चेति । 'एतेषाम् ' एतद्विषमयमित्यर्थः 'प्रस्तारं ' प्रायश्चित्तरचनाविशेषं यथानुपूर्व्या वक्ष्यामि ॥ तत्र दर्दुरविषयं तावदाह
[भा. ६१३५]
ओमो चोदितो, दुपहियादीसु संपसारेति ।
अहमवि नं चोदिस्सं न य लब्भति तारिसं छेड्डुं ॥
वृ- ‘अवमः' अवमरात्निको रात्निकेन दुःप्रत्युपेक्षितादिषु स्खलितेषु भूयोभूयो नोद्यमानः 'सम्प्रसारयति' मनसि पर्यालोचयति अहमपि "णं" एनं रालिकं नोदयिष्यामि । एवं पर्यालोच्य प्रयत्नेन गवेषयन्नपि ताध्शं छिद्रं रानिकस्य न लभते ॥
[भा. ६१३६ ]
अत्रेण घातिए दहुरम्मि दट्टु चलणं कर्त ओमो । उद्दवितो एस तुमे, नमित्ति बितियं पि ते नत्थी ॥
वृ- अन्यदा च भिक्षादिपर्यटने अन्येन केनापि दर्दुरे घातिते रानिकेन च तस्योपरि 'चलनं ' पाद कृतं दृष्टवाऽवमो ब्रवीति- एष दर्दुरस्त्वयाऽपद्रावितः । रालिको वक्ति-त मयाऽपद्रावितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org