________________
३६२
बृहत्कल्प-छेदसूत्रम् -३-६/१९७ तस्य द्वौ दोषी - एकः प्राणातिपातदोषो द्वितीयो मृषावाददोष इति । 'तत्रापि च' अभ्याख्याने प्राणातिपाते वा कृतेऽपि 'एको वा' अवमरालकः 'एको वा' रानिको यदि अप्रसङ्गी भवति तदा न प्रायश्चित्तवृद्धिः । किमुक्तं भवति ? -यदि अवमरात्निकोऽभ्याख्यानं दत्त्वा न निकाचयति यो वाऽभ्याख्यातः सोऽपि न रुष्यति तदा न प्रायश्चित्तवृद्धिः । अथाभ्याख्याता भूयो भूयः समर्थयति इतरोऽपि भूयो भूयो रुष्यति तदा प्रायश्चित्तवृद्धि। एवं दर्दुरविषयः प्रस्तारो भावितः । शुनकसर्प- मूषकविषया अपि प्रस्तारा एवमेव भावनीयाः ॥
गतः प्राणातिपातप्रस्तारः । सम्प्रति मृषावादा ऽदत्तादानयोः प्रस्तारमाह
[भा. ६१४२ ] मोसम्म संडीए, मोयगगहणं अदत्तदानम्मि । आरोवणपत्थारो, तं चैव इमं तु नाणतं
वृ- मृषावादे सङ्घडीविषयं निदर्शनम् । अदत्तादाने मोदकग्रहणम् । एतयोर्द्वयोरप्यारोपणायाः प्रायश्चित्तस्य प्रस्तारः स एव मन्तव्यः । इदं तु 'नानात्वं' विशेषः ।।
[भा. ६१४३] दीन-कलुणेहि जायति, पडिसिद्धो विसति एसणं हणति । पति मुहप्पियाणिय, जोग-तिगिच्छा-निमित्ताई ।।
1
वृ- कस्यामपि सङ्घड्याम कालत्वात् प्रतिषिद्धौ साधू अन्यत्र गतौ ततो मुहूर्तान्तरे रत्नाधिकेनोक्तम्- ब्रजामः सङ्खड्याम्, इदानीं भोजनकालः सम्भाव्यते । अवमो भणति-प्रतिषिद्धोऽहं न व्रजामि । ततोऽसौ निवृत्त्याऽऽचार्यायेदमालोचयति, यथा-अयं दीन- करुणवचनैर्याचते, प्रतिषिद्धोऽपि च प्रविशति, एषणां च 'हन्ति' प्रेरयति, अथवा एष गृहं प्रविद्ये मुखप्रियाणि योग - चिकित्सा-निमित्तानि जल्पति । एवंविधमृषावादवादं वदतः प्रायश्चित्तप्रस्तारो भवति ।। [ मा. ६१४४ ] वच्चइ भणाइ आलोय निकाए पुच्छिए निसिद्धेय । साहु गिहि मिलियसव्वे, पत्थारो जाव वदमाणे ॥
[ मा. ६१४५ ] मासो लहुओ गुरुओ, चउरी लहुग य होंति गुरुगा य । छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगं च ॥ गाथाद्वयमपि गतार्थम् ॥ अथादत्तादाने मोदकग्रहणदृष्टान्तं भावयति[ भा. ६१४६ ] जा फुसति भाणमेगो, बितिओ अन्नत्थ लङ्कृते ताव | लद्धूण नीति इयरो, ते दिस्स इमं कुणति कोई ॥
वृ- एकत्र गेहे भिक्षा लब्धा, सा चावमेन गृहीता । यावद् असौ 'एकः' अवमरालिको भाजनं 'स्पृशति' सम्मार्ष्टि तावद् 'द्वितीयः' रत्नाधिकः 'अन्यत्र' सङ्घड्यां लड्डुका लब्धवान्, लब्ध्वा च निर्गच्छति । 'इतरः पुनः' अवमः 'तान्' मोदकान् ध्ष्टवा कश्चिदीष्यालुरिदं करोति ॥
किम् ? इत्यत आह
[ भा. ६१४७]
[भा. ६१४८]
वच्चइ भणाइ आलोय निकाए पुच्छिए निसिद्धे य । साहु गिहि मिलिय सव्वे, पत्थारो जाव वयमाणे ॥ मासो लहुओ गुरुओ, चउरो लहुगा य होंति गुरुगाय । छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगं च ॥
वृ- " वच्चइ "त्तिस निवृत्त्य गुरुसकाशं व्रजति । आगम्य च भणति आलोचयति-रत्नाधिकेनादत्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org