________________
३५३
उद्देशकः ६, मूलं-१९६, [भा. ६९०००)
तासिंच फरुसवयणं, आमिसपुच्छा समुप्पन्नं ॥ वृ-व्याधस्य कुटुम्बिनो।पिच "धूताः" दुहितरौ अन्योन्यं समनुरक्ते, परस्परं सख्यौ इत्यर्थः। तयोश्च परुषवचनमामिषपृच्छया समुत्पत्रम् ।। कथम्? इति चेद् उच्यते[भा.६१०१] केनाऽऽनीतं पिसियं, फरुसंपुन पुच्छिया भणति वाही ।
किं खू तुमं पिताए, आनीतं उत्तरं वोच्छं। . वृ-व्याधदुहित्रा पुद्गलमानीतम्, ततः कुटुम्बिदुहित्रा सा भणिता-केनेदं पिशितमानीतम् ? ततो 'व्याधी' व्याधदुहिता पृष्टा सती परुवचनं भणति-किं खु? त्वदीयेन पित्राऽऽनीतम् । कुटुम्बिदुहिता भणति-किंमदीयःपिता व्याधः येन पुद्गलमानयेत्? एवं लौकिकंपरुषवचनम्। अथ 'उत्तर' लोकोत्तरिकं वक्ष्ये ॥प्रतिज्ञातमेवाह[भा.६१०२] फरुसम्मि चंडरुद्दो, अवंति लाभे य सेह उत्तरिए।
आलत्ते वाहित्ते, वाचारिय पुच्छिय निसिट्टे । वृ-परुषवचने चण्डरुद्र उदाहरणम्, अवन्त्या नगर्यां शैक्षस्य लाभः तस्य सात इति तदुदाहरमस्यैव सूचा कृता। एतल्लोकोत्तरिकंपरुषवचनम्। एतच्चैतेषुस्थानेषूत्पद्यते-"आलते" इत्यादि, 'आलप्तो नाम' 'आर्य! किं तव वर्तते ?' इत्येवमाभाषितः १, व्याहृतः' 'इत एहि' इत्येवमाकारितः २, 'व्यापारितः' 'इदमिदंच कुरु' इति नियुक्तः ३, ‘पृष्टः' 'किं कृतं? किंवा न कृतम् ?' इत्यादि पर्यनुयुक्तः४, 'निसृष्टः' 'गृहाण, भुझ्व, पिब' इत्येवमादिष्टः ५। एतेषु पञ्चसु स्थानेषु परुषवचनं सम्भवति इति नियुक्तिगाथासमासार्थः ॥
अथैनां विवरीषुश्चण्डरुद्रदृष्टान्तं तावदाह[भा.६१०३] ओसरणे सवयंसो, इब्मसुतो वत्यभूसियसरीरो।
. दायण त चंडरुदे, एस पवंचेति अम्हे त्ति॥ वृ-उज्जयिन्यां नगर्यां रथयात्रोत्सवे 'ओसरणं' बहूनां साधूनामेकत्र मीलकः समजनि । तत्र सवयस्यो वस्त्रभूषितशरीरः इभ्यसुतः साधूनामन्तिके समायातो भणति-मां प्रव्राजयत । ततः साधवश्चिन्तयन्ति-एषः 'प्रपञ्चयति' विप्रतारयत्यस्मानिति । तैश्चण्डरुद्राचार्यस्य दर्शनं कृतम् "घृष्यतां कलिना कलि" इति कृत्वा ॥ [भा.६१०४] भूतिं आनय आनीते दिक्खितो कंदिउं गता मित्ता।
वत्तोसरणे पंथं, पेहा वय दंडगाऽऽउद्यो॥ वृ-ततश्चण्डरुद्रस्योपस्थितः-प्रव्राजयतमामिति। ततस्तेनोक्तम्-'मूर्ति' क्षारमानय ततस्तेन भूतावानीताया लोचं कृत्वा दीक्षितः। ततस्तदीयानिमित्राणि क्रन्दित्वा' प्रभूतं रुदित्वा स्वस्थानं गतानि । वृत्ते च समवसरणे चण्डरुद्रेण शैक्षो भणितः-पन्थानं प्रत्युपेक्षस्व येन प्रभाते व्रजामः। ततः प्रत्युपेक्षिते पथि प्माते पुरतः शैक्षः पृष्ठतश्चण्डरुद्रः “वय"त्ति व्रजति । स च शैक्षो गच्छन् स्थाणावास्फिटितः । ततश्चण्डरुद्रो रुष्टः 'दुष्टशैक्षः' इति भणन् शिरसि दण्डकेन ताडयति ।शैक्षो मिथ्यादुष्कृतं करोति भणति च-सम्यगायुक्तो गमिष्यामि । ततश्चण्डरुद्रस्तदीयोपशमेनावृत्तश्चिन्तयति-अहो ! अस्याभिनवदीक्षितस्यापि कियान् शमप्रकर्ष ? मम तु मन्दभाग्यस्य [ 2023
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org