________________
बृहत्कल्प - छेदसूत्रम् - ३-६/१९६ चिरप्रव्रजितस्याप्येवंविधः परमकोटिमुपगतः क्रोधः; इति परिभावयतः क्षपक श्रेणिमधिरूढस्य केवलज्ञानमुत्पेदे ॥ एवं चण्डरुद्रस्य 'दुष्टशैक्षः' इत्यादिभणनमिव परुषवचनं मन्तव्यम् । अथ 'आलप्तादिषु पदेषु परुषं भवति' इति यदुक्तं तस्य व्याख्यानमाह
[ भा. ६१०५ ] तुसिनीए हुंकारे, किं ति व किं चडगरं करेसि त्ति । किं निव्वुतिं न देसी, केवतियंवा वि रडसि त्ति ।।
३५४
वृ- आचार्यादिभिरालप्तो व्याहृतो व्यापारितः पृष्टो निसृष्टो वा तूष्णीको भवति, हुङ्कारं वा करोति, 'किम् ?' इति वा भणति, 'किं वा चटकरं करोषि ?' इति ब्रवीति, 'किं निर्वृतिं न ददासि ?' इति ब्रूते, 'कियद्वा रटिष्यसि ?' इति भणति । एते सर्वेऽपिं परुषवचनप्रकाराः ।। अथैतेष्वेव प्रायश्चित्तमाह
[मा.६१०६] मासो लहुओ गुरुओ, चउरो मासा हवंति लहु-गुरुगा ।
छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगं च ॥
वृ- लहुको मासो गुरुको मासश्चत्वारो मासा लघवस्वत्वारो मासा गुरवः षण्मासा लघवः षण्मासा गुरवः छेद मूलं तथा 'द्विकम्' अनवस्थाप्यं पाराञ्चिकं चेति ॥
एतदेव प्रायश्चित्तं चारणिकया गाधाद्वयेन दर्शयति
[ मा. ६१०७] आयरिएणाऽऽलत्तो, आयरितो चेव तुसिणितो लहुओ । रडसि त्ति छग्गुरुतं, वाहिते गुरुगादि छेदंतं ॥
वृ- आचार्येण आलप्त आचार्य एव तूष्णीको भवति मासलघु । अथ हुङ्कारादिकं रटसीति पर्यन्तं करोति तदा षड्गुरुकान्तम् । तद्यथा-हुङ्कारं करोति मासगुरु, 'किम्' इति भाषते न 'मस्तकेन वन्दे' इति ब्रवीति चतुर्लघु, 'किं चटकतरं करोषि ?' इति ब्रुवाणस्य चतुर्गुरु, 'किं निर्वृतिं न ददासि ? ' इति भाषमाणस्य षड्लघु, 'कियन्तं वा कालं रटसि ?' इति ब्रुवतः षड्गुरु । व्याहृतस्य तूष्णीकतादिषु पदेषु मासगुरुकादारब्धं छेदान्तं ज्ञेयम् ॥
[ भा. ६१०८] लहुगाई वावारिते, मूलंतं चतुगुरुगाइ पुच्छिए नवमं । नीस छसु पतेसू, छल्लहुगादी तु चरिमंतं ॥
- व्यापारितस्य चतुर्लघुकादारब्धं मूलान्तम् । पृष्टस्य चतुर्गुरुकादारब्धं 'नवमम्' अनवस्थाप्यम् । 'निसृष्टस्य 'इदं गृहाण, भुङ्क्ष्व' इत्यायुक्तस्य 'षट्स्वपि' तूष्णीकादिपदेषु षड्लघुकादारब्धं चरमं पाराञ्चिकं तदन्तं ज्ञातव्यम् ॥ एवमाचार्येणाचार्यस्यालप्तादिपदेषु शोधिरुक्ता । अथाऽऽचार्येणैवालप्तादीनामुपाध्यायप्रभृतीनां शोधिं दर्शयितुमाह
[भा. ६१०९ ]
एवमुवज्झाएणं, भिक्खू धेरेण खुड्डएणं च ।
आलत्ताइपएहिं, इक्किक्कपयं तु हासिज्जा ।।
वृ- 'एवम्' आचार्यवदुपाध्यायेन भिक्षुणा स्थविरेण क्षुल्लकेन च समं आलप्तादिपदैः प्रत्येकं तूष्मीकतादिप्रकारषट्के यथाक्रममेकैकं प्रायश्चित्तपदं हासयेत् । तद्यथा - आचार्य उपाध्यायमनुरूपेणाभिलापेनालपति ततो यदि उपाध्यायस्तूष्णीक आस्ते तदा गुरुभिन्नमासः, हुक्कारं करोति मासलघु, एवं यावत् 'किमेतावन्मात्रमारटसि ?' इति भणतः षड्लघु । व्याहृतस्यैतेष्वेव तूष्णीकादिषु पदेषु लघुमासादारब्धं षड्गुरुकान्तम्, व्यापारितस्य गुरुमासादिकं छेदान्तम्, पृष्टस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org