SearchBrowseAboutContactDonate
Page Preview
Page 1394
Loading...
Download File
Download File
Page Text
________________ ३४३ उद्देशक : ५, मूलं-१९५, [भा. ६०५५] [भा.६०५५] हिजो अह सक्खीवा, आसि ण्हं संखवाइभज्जा वा। भग्गा व नाए सुविही, दुद्दिट्ट कुलम्मि गरहा य ।। वृ-'ह्यः कल्ये अन्यस्मिन् दिने, 'अथ' इति उपदर्शने, इयं सक्षीबा' मद्यमदयुक्ता आसीत्। "हं" इति वाक्यालङ्कारे । एवं गन्धपुलाकं मुक्तवतीं संयती जना उपहसन्ति । वायुकायशब्द चश्रुत्वा ब्रवीरन्-अहो! इयं शङ्खवादकस्य भार्यापूर्वमासीत्; यद्वा भग्नाऽनयाइत्थं वायुकायेनाश्रान्तं पूरयन्त्या "सुविही" अङ्गणमण्डपिका एवं प्रपञ्चयेयुः। "दुद्दिल कुलम्मिगरिहाय" त्तिदुईष्टधर्माणो अमी, कुलगृहं चैताभिरात्मीयं मलिनीकृतम्, एवं गर्हा भवति । ततश्च प्रतिगमनादयो दोषाः॥ यत एवमतः[भा.६०५६] जहिं एरिसो आहारो, तहिंगमने पुव्ववत्रिया दोसा। गहणंच अनाभोए, ओमे तहकारणेण गया। वृ-यत्र विषये 'ईशः' पुलाक आहारो लभ्यते तत्र निर्ग्रन्थीभिर्नैव गन्तव्यम् । यदि गच्छन्ति तदा त एव पूर्ववर्णिता दोषाः अथावमा-ऽशिवादिभि कारणैर्गता भवेयुः, तत्र चानाभोगेन पुलाकभक्तस्य ग्रहणं भवेत् ।। ततः किम् ? इत्याह[भा.६०५७] गहियमनाभोएणं, वाइग वजं तु सेस वा भुंजे। मिच्छप्पियं तु भुत्तुं, जा गंधो तान हिंडती ॥ वृ- यदि अनाभोगेन पुलाकं गृहीतं भवति तदा “वाइगं" विकटं तद् वर्जयित्वा शेषं 'वा' विभाषया भुञ्जीरन् । किमुक्तं भवति? -यदि तदपर्याप्तमन्यच्च भक्त लभ्यते तदान भुञ्जते किन्तु तत् परिष्ठाप्यान्यद् भक्तं गृह्णन्ति; अथ पर्याप्तं तदा भुञ्जते, मुक्त्वा च तेनैव भक्तान पर्युषयन्ति; विकटं तु सर्वथैव न भोक्तव्यम् । भिक्षुप्रियं नाम-पलाण्डु त पुनर्भुक्त्वा यावत् तदीयो गन्ध आगच्छति तावद् न हिण्डन्ते ॥ [भा.६०५८] कारणगमने वितहिं, पुव्वं घेत्तूण पच्छतं चेव । हिण्डन पिल्लण बिइए, ओमे तह पाहुणट्ठा वा ॥ वृ. अवमादिकारणैर्गतानामपि मद्य-पलाण्डु-लशुनान्येकान्तेन प्रतिषिद्धानि । अथ पूर्वमनाभोगादिना गृहीत् ततस्तद् गृहीत्वा पश्चात् तदेव भुक्त्वा तेनैव भक्तार्थेन तद्दिवसमासते न भूयो भिक्षामटन्ते । द्वितीयपदे द्वितीयमपि वारं भिक्षार्थं प्रविशेत् । अवमं दुर्भिक्षं तत्र पर्याप्तं न लभ्यते प्राघुणिका वा संयत्यः समायातास्ततो भूयोऽपि भिक्षाहिण्डनं कुर्वाणानामियं यतना"पिल्लण"त्ति धान्यपुलाके आहारिते यदि वायुकाय आगच्छेत् तत्रैकं पुनः पार्श्व प्रेर्य वायुकार्य निसृजन्ति।उपलक्षणमिदम्, तेन यदा संज्ञासम्भवस्तदायदिअन्यासांसंयतीनामासन्ना वसतिस्तदा तत्र गन्तव्यम् । तदभावे भावितायाः श्राद्धिकायाः पुरोहडादौ व्युत्सर्जनीयम् ।। [भा.६०५९] एसेव गमो नियमा, तिविह पुलागम्मि होइ समणाणं । नवरं पुन नाणत्तं, होइ गिलाणस्स वइयाए । वृ-एष एव 'गमः' प्रकारो नियमात् त्रिविधेऽपि पुलाके श्रमणानामपि भवति ।न वरं पुनरत्र नानात्वम्-ग्लानस्य दुग्धादिकमानेतुंजिकायांसाधवोगच्छेयुः, तत्रच गताः संस्तरन्तआत्मयोग्यं रंसपुकं न गृह्णन्ति, अथ न संस्तरन्ति ततः क्षीरादिकं भुक्त्वा न भूयो भिक्षामटन्ति । कारणे तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy