________________
बृहत्कल्प-छेदसूत्रम् -३-५/१९५
भूयोऽप्यटन्तस्तथैव यतनां कुर्वन्ति ॥
श्रीमचूर्णिवचांसि तन्तव इह ज्ञेयास्तथा सद्गुरोराम्नायो नलकस्तुरी बुधजनोपास्त्युद्भवा चातुरी । ___ इत्येतैर्यितान साधकतमैः श्रीपञ्चमोद्देशके, जाड्यापोहपटीयसीमहमिमामच्छिद्रटीकापटीम् ॥
उद्देशकः-५ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता वृहत्कल्पसूत्रे पञ्चमोद्देशकस्य (भद्रबाहुस्वामिरविता नियुक्ति युक्तः) संघदासगणि विरचितं भाष्य एवं मलयगिरि-क्षेमकीर्तिआचार्याभ्यां विरचिता टीका परिसमाप्ता।
(उद्देशकः-६) वृ-व्याख्यातः पञ्चमोद्देशकः, सम्प्रति षष्ठ आरभ्यते, तस्येदमादिसूत्रम्
मू. (१९६) नो कप्पइ निग्गंधाण वा निग्गंथीण वा इमाइंछ अवयणाई वइत्तए । तं जहाअलियवयणे हीलियवयणे खिंसियवयणे फरुसवयणे गारत्थियवयणे विओसवियं वा पुनो उदीरित्तए॥
वृ-अथास्य सूत्रस्य कः सम्बन्धः? इत्याह[भा.६०६०] कारणे गंधपुलागं, पाउं पलविज मा हुसक्खीवा ।
इइपंचम-छट्ठाणं, थेरा संबंधमिच्छंति ॥ वृ-कारणे कदाचिदार्यिका गन्धपुलाकं पीत्वा सक्षीबा सतीमा अलिकादिवचनानि प्रलपेत्, अत इदं सूत्रमारभ्यते । 'इति एवं पञ्चम-षष्ठोद्देशकयोः सम्बधं स्थविराः' श्रीभद्रबाहुस्वामिन इच्छन्ति । अथ प्रकारान्तरेण सम्बन्धमाह[भा.६०६१] दुचरिमसुत्ते वुत्तं, वादं परिहारिओ करेमाणो।
बुद्धी परिभूय परे, सिद्धंतावेत संबंधो॥ पञ्चमोद्देशकेद्विचरिमसूत्रेइदमुक्तम्-परिहारिकः' प्रवचनवैयावृत्यमवलम्बमानो वादं कुर्वन् 'परस्य' वादिनो बुद्धिं परिभूय' पराजित्य सिद्धान्तापेतं' सूत्रोत्तीर्णमपि ब्रूयात्, परमिमानि षडप्यवचनानि मुक्त्वा । एष प्रकारान्तरेण सम्बन्धः॥अथवा[मा.६०६२] दिव्वेहि छंदिओ हं, भोगेहिं निच्छिया मए ते य ।
इति गारवेण अलियं, वइज्ज आईय संबंधो।। वृ-पञ्चमोद्देशकस्यादिसूत्रं उक्तम्-“देवः स्त्रीरूपं कृत्वा साधुं भोगैनिमन्त्रयेत्," स च तान् भुक्त्वा गुरुसकाशमागत आलोचयेत्-दिव्यैर्भोगैः ‘छन्दितः' निमन्त्रितोऽहं परं मया ते भोगा नेप्सिताः 'इति' एवं गौरवेण कश्चिदलीकं वदेत् । अत इदं षष्ठोद्देशकस्यादिसूत्रमारभ्यते । एष उद्देशकद्वयस्याप्यादिसूत्रयोः परस्परं सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य व्याख्या-"नो कप्पई"त्ति वचनव्यत्ययाद् नो कल्पन्ते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा 'इमानि' प्रत्यक्षासनानि 'षड्' इतिषटसङ्घयाकानि अवचनानि नञः कुत्सार्थत्वाद्अप्रशस्तानिवचनानि वदितु भाषितुम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org