________________
३४२
बृहत्कल्प-छेदसूत्रम् -३-५/१९५ निस्सारं व पवयणं, दटुं तरसेविणिं बिति ।। वृ-इहपुलाकमसारमुच्यते, तत आहारितानि सन्ति वल्लादीनि यतोऽसाराणि ततः पुलाकानि भण्यन्ते। संयमाद्वा' संयममङ्गीकृत्य यतः क्षीरादीनिनिसारांसाध्वीं कुर्वन्तिततस्तान्यपिपुलाकानि प्रवचनं वा निसारं यतः 'तत्सेविनी' तेषां-विकटादीनां सेवनशीलां संयती ष्ट्वा जना ब्रुवते ततस्तानि पुलाकानि उच्यन्ते ॥ एषु दोषानाह[भा.६०५१] आणाइणो य दोसा, विराधना मजगंध मय खिंसा।
निरोहेण व गेलनं, पडिगमणाईणि लज्जाए॥ वृ-एषां त्रयाणामपि पुलाकानां ग्रहणे आज्ञादयो दोषाः, विराधना च संयमा-ऽऽत्मविषया भवति । तथा गन्धपुलाके पीते सति मद्यगन्धमाघ्राय मदविह्वलां वा तां दृष्टवा लोकः खिसां कुर्यात् । धान्यपुलाके पुनराहारिते वायुकायः प्रभूतो निर्गच्छति, ततो यदि भिक्षार्थं प्रविष्टा तस्य निरोधं करोति तदा ग्लानत्वं भवेत्, अथ वायुकायं करोति तत उड्डाहो भवेत, उड्डाहिता च लज्जयाप्रतिगमनादीनि कुर्यात्। एवंरसपुलाकेऽपि क्षीरादौपीतेभिक्षांप्रविष्टा यदि संज्ञामागच्छन्ती निरुणद्धि ततो ग्लानत्वम्, अथन निरुणद्धि ततो व्युत्सृजन्ती केनापि दृष्टा लज्जयाप्रतिगमनादीनि कुर्यात्॥किञ्च[भा.६०५२] वसहीए वि गरहिया, किमु इत्थी बहुजणम्मि सक्खीवा ।
लाहुकं पिल्लणया, लज्जानासो पसंगो य॥ वृ-'स्त्र' निर्ग्रन्थी 'सक्षीबा' मद्यमदयुक्ता वसतावपिवसन्तीगर्हिता किंपुनर्बहुजने पर्यटन्ती? तथाहि-तां मदविह्वलां आपतन्ती प्रपतन्ती आलमालानि च प्रलपन्तीं दृष्ट्वा लोकः प्रवचनस्य "लाहुर्क" लाघवं कुर्यात्-अहो ! मत्तवालपाखण्डमिदमित्यादि । मदेन चाचेतना सञाता सती प्रार्थनीया सा भवति । तत उद्भ्रामकादयस्तस्याः ‘प्रेरणां' प्रतिसेवनां कुर्यु । मदवशेन च यदपि तदपि प्रलपन्त्या लज्जानाशो भवेत् । ततश्च प्रतिसेवनादावपि प्रसङ्गः स्यात् ।। [भा.६०५३] घुन्नइ गई सदिट्ठी, जहा य रत्ता सि लोयण-कवोला।
अरहइ एस पुताई, निसेवई सम्झए गेहे ॥ वृ-तां तथामदभावितां हटवा लोको ब्रूयात्-यथाऽसा गति ‘सष्टि दृष्टियुक्ता घूर्णते, यथा चास्या लोचन-कपोला रक्ता दृश्यन्ते तथा नूनमहत्येषा 'पुताकी' देशीवचनत्वाद् उद्भ्रामिका ईशी विडम्बनामनुभवितुम्या सध्वजगेहानि' कल्पपालगृहाणि निषेवते॥त्रिविधेऽपिपुलाके यथायोगममी दोषाः[भा.६०५४] छक्कायाण विराधन, वाउभय-निसग्गओ अवन्नो य।
उम्झावणमुझंती, सइ असइ दवम्मि उड्डाहो ॥ वृ-मदविह्वला पन्नामपि कायानांविराधनां कुर्यात्।धान्यपुलाकेन क्षीरेण वाभुक्तेन वायुकाय उभयं च-संज्ञा-कायिकीरूपं समागछेत्, ततो भिक्षां हिण्डमाना यदि तेषां निसर्ग करोति ततः प्रवचनस्यावर्मोभवेत्, परावग्रहे वाव्युत्सृष्टं पुरीषादिकमवग्रहस्वामिनस्तस्याः पाउिज्झापयन्ति स्वयमेव वा ते गृहस्था उज्झन्ति । “सइ असइ दवम्मि उड्डाहु"त्ति अस्ति द्रवं परंकलुषं स्तोकंवा नास्ति वा मूलत एव द्रवं तत उभयथाऽपि प्रवचनस्योड्डाहो भवेत् ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org