________________
३४१
उद्देशक : ५, मूलं-१९४, [भा. ६०४६]
अइपरिणएसु अन्नं, बेइ वहतो तगं एयं ॥ वृत्वयापरवादिनंनिगृह्णता प्रवचनमुद्भावितं तेन स्तोकंतेप्रायश्चित्तंदत्तम्, मापुनर्भूयोऽप्येवं कार्षीः । अथातिपरिणता अपरिणताश्च चिन्तयेयु:-'एष तावद् एतावन्मात्रेण मुक्तः' इति ततो यदि तस्य 'अन्यद्' अपरं प्राचीनं तपोऽपूर्णं तदा तदेव वहमानोऽतिपरिणामिकादीनां पुरतो गुरून् भणति-एतत् प्रायश्चित्तं युष्माभिर्दत्तं वहामीति ॥
मू. (१९५) निग्गंथीए य गाहावइकुलं पिंडवायपडियाए अनुप्पविठ्ठाए अन्नयरे पुलागभत्ते पडिग्गाहिए सिया, साय संथरिजा, कप्पइ से तदिवसं तेनेय भत्तद्वेणं पञ्जोसवित्तए, नो से कप्पइ दुच्चं पि गाहावइकुलं पिंडवायपडियाए पविसित्तए; सा य नो संथरेज्जा, वं से कप्पइ दुचं पि गाहावइकुलं पिंडवायपडियाए पविसित्तए।।
वृ-अस्य सम्बन्धमाह[भा.६०४७] उत्तरियपच्चयट्ठा, सुत्तमिणं मा हु हुन्ज बहिभावो ।
जससारखणमुभए, सुत्तारंभो उ वइणीए । वृ- लोकोत्तरिकाणाम्-अपरिणामक-ऽतिपरिणामकानां प्रत्ययार्थं सूत्रमिदमनन्तरमुक्तम्, मा तेषां बहिर्भावो भवेदिति कृत्वा । अयं तु व्रतिनीविषयः प्रस्तुतसूत्रस्यारम्भः 'उभये' लोके लोकोत्तरेच यशःसंरक्षणार्थं क्रियते॥अनेन सम्बन्धेनायातस्यास्यव्याख्या-निर्ग्रन्थ्यागृहपतिकुलं पिण्डपातप्रतिज्ञयाऽनुप्रविष्टया अन्यतरद्' धान्य-गन्ध-रसपुलाकानां वल्ल-विकट-दुग्धादिरूपाणामेकतरं पुलाकभक्तंप्रतिगृहीतं स्यात्, साच तेनैव भुक्तेन ‘संस्तरेत्' दुर्भिक्षाद्यभावानिहित, ततः कल्पते तस्यास्तद्दिवसं तेनैव भक्तार्थेन 'पर्युषितुं' निर्वाहयितुम् । नो “से" तस्याः कल्पते द्वितीयमपि वारं गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रवेष्टुम् । अथसान संस्तरेत् ततः कल्पते तस्या द्वितीयमपि वारं गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रवेष्टुमिति सूत्रार्थ ।।
अथ नियुक्ति-भाष्यविस्तरः[भा.६०४८] तिविहं होइ पुलागं, धन्ने गंधे य रसपुलाए य ।
चउगुरुगाऽऽयरियाई, समणीणुद्दद्दरग्गहणे ॥ वृ-त्रिविधंपुलाकंभवति, तद्यथा-धान्यपुलाकंगन्धपुलाकंरसपुलाकंचेति । एतत्सूत्रमाचार्यः प्रवर्तिन्या न कथयति चतुर्गुरु, आदिशब्दात् प्रवर्तिनी निर्ग्रन्थीनां न कथयति चतुर्गुरु, निर्ग्रन्थ्यो न प्रतिशृण्वन्ति मासलधु । श्रमणीनामपि ऊर्ध्वदरे-सुभिक्षे पुलाकं गृह्णतीनां चतुर्गुरु ।।
अथ त्रीण्यपिधान्यपुलाकादीनि व्याचष्टे[भा.६०४९] निप्फावाई धन्ना, गंधे वाइग-पलंडु-लसुणाई।
खीरंतु रसपुलाओ, चिंचिणिःदखारसाईया ।। वृ-निष्पावाः-वल्लास्तदादीनि धान्यानि धान्यपुलाकम् । तथा वाइगं-विकटं पलाण्डु-लशुने च-प्रतीते तदादीनि यान्युत्कटगन्धानि द्रव्याणि तद् गन्धपुलाकम् । यत् पुनः क्षीरं यो वा चिञ्चिणिकायाः-अम्लिकाया रसो द्राक्षारसो वा आदिशब्दाद् अपरमपि यद् भुक्तमतिसारयति तत् सर्वमपि रसपुलाकम् ॥अथ किमर्थमेतानि पुलाकान्युच्यन्ते? इत्याह
[भा.६०५०] आहारिया असारा, करेंति वा संजमाउ निस्सारं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org