________________
३४०
बृहत्कल्प-छेदसूत्रम् -३-५/१९४ अहगुरुगो छम्मासो, गुरुगे पक्खम्मि पडिवत्ती।। वृ-गुरुको नाम व्यवहारः ‘मासः' मासपरिमाणः, गुरुके व्यवहारे समापतिते मास एकः प्रायश्चित्तं दातव्य इति भावः । एवं गुरुतरको भवति 'चतुर्मासः चतुर्मासपरिमाणः । यथागुरुकः 'षण्मासः' षण्मासपरिमाणः । एषा 'गुरुकपक्षे गुरुकव्यवहारेत्रिविधेयथाक्रमंप्रायश्चित्तप्रतिपत्ति।। सम्प्रति लघुक-लघुस्वकव्यवहारविषयं प्रायश्चित्तपरिमाणमाह[भा.६०४२] तीसा य पन्नवीसा, वीसा विय होइ लहुयपक्खम्मि।
पन्नरस दस य पंच य, अहालहुसगम्मि सुद्धो वा ।। वृ-लघुको व्यवहारस्त्रिशदिवसपरिमाणः, एवं लघुतरकः पञ्चविंशतिदिनमानः, यथालघुको विंशतिदिनमानः, एषा लघुकव्यवहारेत्रिविधेयथाक्रमंप्रायश्चित्तप्रतिपत्ति।लघुस्वको व्यवहारः पञ्चदशदिवसप्रायश्चित्तपरिमाणः, एवं लघुस्वतरकोदशदिवसमानः, यथालघुस्वकः पञ्चदिवसानि' पञ्चदिवसप्रायश्चित्तपरिमाणः । यद्वा यथालघुस्वके व्यवहारे 'शुद्धः' न प्रायश्चित्तभाक् ॥
अथ कं व्यवहारं केन तपसा पूरयति? इति प्रतिपादनार्थमाह[भा.६०४३] गुरुगंच अट्ठमं खलु, गुरुगतरागंच होइ दसमंतु।
अहगुरुगदुवालसमं, गुरुगे पक्खम्मि पडिवत्ती॥ वृ-गुरुकं व्यवहारं मासपरिमाणमष्टमं कुर्वन् पूरयति । किमुक्तं भवति ?-गुरुकं व्यवहारं मासपरिमाणमष्टमेन वहति । तथा गुरुकतरकं चतुर्मासप्रमाणं व्यवहारं दशमं कुर्वन् पूरयति, दशमेन वहतीत्यर्थः । यथागुरुकं षण्मासप्रमाणं 'द्वादशं कुर्वन्' द्वादशेन वन् पूरयति । एषा 'गुरुकपक्षे' गुरुव्यवहारपूरणविषये तपःप्रतिपत्ति ॥ [भा.६०४४] छटुंच चउत्थं वा, आयंबिल एगठाण पुरिमटुं ।
निव्वीयं दायब्वं, अहालहुसगम्मि सुद्धो वा॥ -लघुकं व्यवहारंत्रिंशद्दिनपरिमाणंषष्ठं कुर्वन् पूरयति, लघुतरकंपञ्चविंशतिदिवसपरिमाणं व्यवहारं चतुर्थं कुर्वन्, यथालघुकं व्यवहारं विंशतिदिवसमानमाचाम्लं कुर्वन् पूरयति । एषा लघुकत्रिविधव्यवहारपूरणे तपःप्रतिपत्ति । तथा लघुस्वकव्यवहारं पञ्चदशदिवसपरिमाणमेकस्थानकंकुर्वन् पूरयति, लघुस्वतरकंव्यवहारंदशदिवसपरिमाणंपूर्वार्द्धं कुर्वन्, यथालघुस्वकव्यवहारं पञ्चदिनप्रमाणं निर्विकृतिकं कुर्वन् पूरयति । एतेषु गुरुतरादिषु व्यवहारेष्वनेनैव क्रमेण तपो दातव्यम् । यदि वा यथालखुस्वके व्यवहारे प्रस्थापितव्ये स प्रतिपन्नपरिहारतपः- प्रायश्चित्त एवमेवालोचनाप्रदानमात्रतः शुद्धः, क्रियते, कारणे यतनया प्रतिसेवनात्॥
एवं प्रस्तारं रचयित्वा सूरयो भणन्ति[भा.६०४५] जंइत्थं तुह रोयइ, इमे व गिण्हाहि अंतिमे पंच।
हत्यं व भमाडेउं, जं अक्कमते तगं वहइ॥ वृ-यद् ‘अत्र' अमीषां प्रायश्चित्तानां मध्ये तव रोचते तद् गृहाण, अमूनि वाऽन्तिमानि पञ्चरात्रिन्दिवानिगृहाण एवमुक्ते सयथालघुस्वकंप्रायश्चित्तंगृह्णाति । अथवा हस्तंभ्रामयित्वा यात् प्रायश्चित्तं गुरव आक्रामन्ति तकद् गृह्णाति ।। सूरयश्चेदं तं प्रति भणन्ति
[भा.६०४६] उभावियं पवयणं, तोवं ते तेन मा पुनो कासि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org