________________
उद्देशक : ५, मूलं-१९४, [भा.६०३५]
[भा.६०३५]पाया व दंता व सिया उधोया, वा-बुद्धिहेतुंव पनीयभत्तं ।
तंवातिगंवा मइ-सत्तहेउं, सभाजयट्ठा सिचयं व सुकं । वृ-पादौ वा दन्ता वा प्रवचनजुगुप्सापरिहारार्थं धौताः स्यु' भवेयुः । 'प्रणीतभक्तं वा घृतदुग्धादिकं “वा-बुद्धिहेतुंवत्तिवाग्घेतोर्बुद्धिहेतोश्चभुक्तंभवेत्, “घृतेन वर्घतमेघा" इत्यादिवचनत्। 'वातिकं नाम विकटं तद्वा मतिहेतोः सत्त्वहेतो; सेवितं भवेत् । मतिनाम-परवाडुपन्यस्तस्य साधनस्यापूर्वप्रवदूषमोहात्मको ज्ञानविशेषः, सत्त्वं-प्रभूत-प्रभूततरभाषणे प्रवर्द्धमान आन्तर उत्साहविशेषः । सभाजनार्थं वा सुक्लं 'सिचयं वस्त्रं प्रावृतं भवेत्, “जिता वस्त्रवता सभा" इति वचनात्॥ [मा.६०३६] थेरा पुन जाणंती, आगमओ अहव अन्नओ सुच्चा।
परिसाए मज्झम्मिं, पट्ठवणा होइ पच्छित्ते॥ वृ एवमादिकं तेन प्रतिसेवितं स्थविराः' सूरयः पुनरागमतोजानीयुः, अथवा अन्यतः श्रुत्वा, ततस्तस्य भूयः समागतस्य पर्षन्मध्ये प्रायश्चित्तस्य प्रस्थापना कर्तव्या भवति ॥इदमेव व्याचष्टे[भा.६०३७] नव-दस-चउदस-ओही-मननाणी केवलीय आउमिउं ।
सोचेवऽन्नो उ भवे, तदनुचरो वा वि उवगोव॥ वृ- ये स्थविरा नवपूर्विणो दशपूर्विणश्चतुर्दशपूर्विणोऽवधिज्ञानिनो मनःपर्यायज्ञानिनः केवलज्ञानिनो वा ते 'आगम्य' अतिशयेन ज्ञात्वा प्रायश्चित्तं दधु । अन्यो नाम ‘स एव' परिहारिकस्तन्मुखादालोचनाद्वारेण श्रुत्वा, यद्वाये तस्य-परिहारिकस्यानुचराः-सहायाःप्रेषितास्तैः कथितम्: 'उवको नाम' अन्यः कोऽपितिर्यगापतितो मिलितः, तेषां गच्छसत्को न भवतीत्यर्थः, तेन वा कथितम्, यथा-एतेनामुकंपादधावनादिकं प्रतिसेवितम् । ततः[मा.६०३८] तेसिं पञ्चयहेउं, जे पेसविया सुयं वतं जेहिं ।
भयहेउ सेसगाण य, इमा उ आरोवणारयणा ।। वृ-ये तेन सार्द्धं प्रेषितायैर्वाऽप्रेषितैरपि प्रतिसेवनं श्रुतं 'तेषाम् उभयेषामप्यपरिणामकानां प्रत्ययहेतोः 'शेषाणांच' अतिपरिणामिकानां भयोत्पादनहेतोरियम् 'आरोपणारचना' व्यवहारप्रस्थापना सूरिभिः कर्तव्या ।। [भा.६०३९] गुरुओ गुरुअतराओ, अहागुरूओ यहोइ ववहारो।
लहुओ लहुयतराओ, अहालहू होइ ववहारो॥ [भा.६०४०] लहुसो लहुसतराओ, अहालहूसो अहोइ ववहारो।
एतेसिं पच्छित्तं, वुच्छामि अहानुपुव्वीए॥ वृ-व्यवहारस्त्रिविधः, तद्यथा-गुरुको लघुको लघुस्वकश्च।तत्रयोगुरुकः स त्रिविधः, तद्यथागुरुको गुरुतरको यथागुरुकश्च । लघुकोऽपि त्रिविधः, तद्यथा-लघुर्लघुतरो यथालघुश्च । लधुस्वकोऽपि त्रिविधः, तद्यथा-लघुस्वको लघुस्वतरको यथालघुस्वकश्च । एतेषां व्यवहाराणां 'यथानुपूर्व्या' यथोक्तपरिपाट्या प्रायश्चित्तं वक्ष्यामि । किमुक्तं भवति ?-एतेषु व्यवहारेषु समुपस्थितेषु यथापरिपाट्या प्रायश्चित्तपरिमाणमभिधास्ये॥यथाप्रतिज्ञातमेव करोति__ [भा.६०४१] गुरुगो य होइ मासो, गुरुगतरागो भवे चउम्मासो।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org