________________
३३८
बृहत्कल्प-छेदसूत्रम् -३-५/१९३ यत् तैलंपच्यते।मरुतैलं-मरुदेशे पर्वतादुत्पद्यते।एवंविधानि दुर्लभद्रव्याणिप्रथमंतददैवसिकानि मार्गणीयानि । अथदिने दिने न लभ्यन्ते ततः पञ्चकपरिहाण्या चतुर्गुरुप्राप्त दूरादप्यानीय 'धीरः' गीतार्थो यतनया' अल्पसागारिके स्थाने मदनचीरेवेष्टयित्वा परिवासयेत्॥इदमेव सुव्यक्तमाह[भा.६०३२] एयाणि मक्खणट्ठा, पियणट्ठा एव पतिदिनालंभे।
पणहानीए जइउं, चउगुरुपत्तो अदोसाओ॥ वृ. "एतानि' शतपाकादीनि तैलानि म्रक्षणार्थं पानार्थं वा प्रतिदिं यदि न लभ्यन्ते ततः पञ्चकपरिहाण्यायतित्वा चतुर्गुरुकंयदाप्राप्तो भवति तदापरिवासयन्नपि अदोषः' न प्रायश्चित्तभाक् । सर्वथैवालाभे गुरूणां हेतोरात्मनाऽपि यतनया पचन्ति॥
मू. (१९४) परिहारकप्पट्ठिए भिक्खू बहिया थेराण वेयावडियाए गच्छेज्जा, से य आहच्च अइक्कमिजा, तं च थेरा जाणिज्जा अप्पणो आगमेणं अन्नेसिं वा अंतिए सुचा, ततो पच्छा तस्स अहालहुसए नाम ववहारे पट्टवेयव्ये सिया।।
खु-अस्य सम्बन्धमाह[भा.६०३३] निक्कारणपडिसेवी, अजयणकारी व कारणे साहू।
अदुवा चिअत्तकिच्चे, परिहारं पाउणे जोगो॥ वृ-निष्कारणे गात्रम्रक्षणादिकं प्रतिसेवितुंशीलमस्येति निष्कारणप्रतिसेवी सः, तथा कारणे वायो 'अयतनाकारी' पूर्वोक्तयतनां विना गात्रम्रक्षणविधायी साधुः, अथवा यः ‘त्यकुतकृत्यः' नीरुग्भूतोऽपि तदेव म्रक्षणादिकमुपजीवति स परिहारतपः प्राप्नुयादिति 'योगः' सम्बन्धः । अनेनसम्बन्धेनायातस्यास्य व्याख्या-परिहारकल्पस्थितोभिक्षु बहिः' अन्यत्रनगरादौ स्थविराणाम् आचार्याणामादेशेन वैयावृत्यार्थगच्छेत् । किमुक्तं भवति? -अन्यस्मिन् गच्छे केषाञ्चिदाचार्याणां वादी नास्तिकादिक उपस्थितः, तेषां च नास्ति वादलब्धिसम्पन्नः, ततस्ते येषामाचार्याणां स परिहारिकस्तेषामन्तिके सङ्घाटकंप्रेषयन्ति, सच सङ्घाटकोब्रूते-वादिनंकमपिमुत्कलयत । एवमुक्ते ते आचार्या परिहारिकं परवादिनिग्रहक्षमं मत्वा तत्र प्रेषयन्ति । ततस्तदादेशादसौ परिहारतपो वहमान एव तत्र गच्छेत् । इदं च महत् प्रवचनस्य वैयावृत्यं यद् अग्लान्या परवादिनिग्रहणम्, ततस्तदर्थंगतः 'सः' परिहारिकः “आहछ" कदाचिद् 'अतिक्रामेत् पादधावनादिकंप्रतिसेवेत, 'तद्य प्रतिसेवनं 'स्थविराः' मौलाचार्याआत्मनः 'आगमेन' अवध्याधतिशयज्ञानेनान्येषांवाऽन्तिके श्रुत्वा जानीयुः । 'ततः पश्चात्' तत्परिज्ञानान्तरं 'तस्य' परिहारिकस्य 'यथालघुस्वको नाम' स्तोकप्रायश्चित्तरूपो व्यवहारःप्रस्थापयितव्यः स्यादिति सूत्रार्थः ॥ अथ भाष्यम्[भा.६०३४] परिहारिओ य गच्छे, आसन्ने गच्छ वाइणा कज्ज ।
आगमनं तहि गमनं, कारण पडिसेवणा वाए॥ वृ-परिहारिकः क्वापिगच्छे विद्यते, कचिच्चासनेऽन्यगच्छेवादिनाकारयमुत्पन्नम्, ततः 'तत्र' गच्छे आगमनम्' अन्यगच्छात् सङ्घाटक आगतः, तेन च वादी प्रेष्यताम्' इत्युक्ते गुरोरादेशात् परिहारतपोवहमानस्यैवतस्य तत्र गमनम्, तत्र गतेन तेन परवादी राजसभासमक्षं निष्पिष्टप्रश्नव्याकरणः कृतः, ततः प्रवचनस्य महती प्रभावना समजनि, तेन च वादस्य कारणेऽमूनि प्रतिसेवितानि भवेयुः॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org