________________
उद्देशक: ५, मूलं - १९३, [भा. ६०२६]
३३७
वृ- तद्दिवसानीतेनापि यदि प्रक्षयति तदा लघुमासः आज्ञादयश्च दोषाः, विराधना च संयमस्य भवति । तथाहि प्रक्षिते गात्रे धूलिर्लगति, 'सरजस्को वा' सचित्तरजोरूपो वातेनोद्धूतो लगति, तेन चीवराणि मलिनीक्रियन्ते तेषां धावने संयमविराधना, स्नेहगन्धेन वा त्रसप्राणिनो लगन्ति तेषां विराधना भवेत् ॥
[ भा. ६०२७] धुवणा-ऽधुवणे दोसा, निसिभत्तं उप्पिलावणं चेव । बउसत्त समुइ तलिया, उव्वट्टणमाइ पलिमंथो ॥
वृ- स्नेहेन मिलनीकृतानां चीवराणां गात्राणां वा धावना -ऽधावनयोरुभयोरपिदोषाः, तथाहियदि न धाव्यन्ते तदा निशिभक्तम्, अथ धाव्यन्ते ततः प्राणिनामुत्लावना भवेत्, उपकरणशरीरयोर्वकुशत्वं च भवति । "समुइ"त्ति स एव हेवाको लगति । प्रक्षिते च गात्रे पादयोर्मा धूली लगिष्यतीति कृत्वा तलिकाः पिनह्यति, तत्र गर्वोनिर्मार्दवतेत्यादयो दोषाः । यावच्च गात्रस्योद्वर्तनादिकं करोति तावत् सूत्रार्थपरिमन्थो भवति ॥
[ भा. ६०२८ ] तद्दिवसमक्खणेण उ, दिट्ठा दोसा जहा उ मक्खिज्जा । अद्धाणेणुव्वाए, वाय अरुग कच्छु जयणाए ।
वृ- तद्दिवसम्रक्षणेन जनिता एते दोषा ध्ष्टाः । द्वितीयपदे यथा प्रक्षयेत् तथाऽभिधीयतेअध्वगमनेनातीव 'उद्वातः परिश्रान्तः, वातेन वा कटी गृहीता, 'अरु' व्रणं तद्वा शरीरे जातम्, 'कच्छुः' पामा तया वा कोऽपि गृहीतस्ततो यतनया प्रक्षयेदपि ।। तामेवाह
[भा. ६०२९] सनाईकयकज्जो, दुविउं मक्खेउ अच्छए अंतो । परिपीय गोमयाई, उव्वट्टण धोव्वणा जयणा ॥
वृ-संज्ञागमनम् आदिशब्दाद् भिक्षागमनादिकं च कार्यं कृतं येन स संज्ञादिकृतकार्य, सर्वाणि बहिर्गमनकार्याणि समाप्येत्यर्थः । स यावन्मात्रं गात्रं प्रक्षणीयं तावन्मात्रमेव धावित्वा प्रक्षाल्य ततो प्रक्षयति । प्रक्षयित्वा च प्रतिश्रयस्यान्तः तावदास्ते यावत् तेन गात्रेण तत् तैलादिकं प्रक्षणं परिपीतं भवति । ततो गोमयादिना तस्योद्वर्तनं कृत्वा यतनया यथा प्राणिनां प्लवना न भवति तथा धावनं कार्यम् ॥
[मा.६०३०] जह कारणे तद्दिवसं, तु कप्पई तह भवेज इयरं पि । आयरियवाहि वसभेहि पुच्छिए विज्ज संदेसो ॥
वृ-यथा कारणे तद्दिवसानीतं म्रक्षणं कल्पते तथा 'इतरदपि' परिवासितं प्रक्षणं कारणे कल्पते । कथम् ? इति चेद् अत आह- आचार्यस्य कोऽपि व्याधिरुत्पन्नः, ततो वृषभैर्वैद्यः पूर्वोक्तेन विधिना प्रष्टव्यः । तेन च पृष्टेन 'सन्देशः' उपदेशो दत्तो भवेत्, यथा-शतपाकादीनि तैलानि यदि भवन्ति ततश्चिकित्सा क्रियते ।। ततः किं कर्तव्यम् ? इत्याह
[भा. ६०३१]
सयपाग सहस्सं वा, सयसहस्सं व हंस-मरुतेल्लं । दूराओ वि य असई, परिवासिज्जा जयं धीरे ॥
वृ- शतपाकं नाम तैलं तद् उच्यते यद् औषधानां शतेन पच्यते, यद्वा एकेनाप्यौषधेन शतवाराः पक्वम् । एवं सहस्रपाकं शतसहस्रपाकं च मन्तव्यम्। हंसपाकं नाम हंसेन-औषध-सम्भारमृतेन
2022
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org