________________
उद्देशकः ५, मूलं-१९२, [मा. ६०१४]
३३५ यातस्यास्यव्याख्या-नोकल्पते निर्ग्रन्थानांवानिर्ग्रन्थीनां वापरिवारसितेनालेपनजातेन 'आलेपयितुं वा' ईषल्लेपयितुं विलेपयितुंवा विशेषेण लेपयितुम्, नान्यत्रागाढेभ्योरोगातङ्केभ्य इति सूत्रार्थः॥
अथ भाष्यम्[मा.६०१५] मक्खेऊणं लिप्पइ, एस कमो होति वणतिगिच्छाए।
जइतेन तं पमाणं, मा कुण किरियं सरीरस्स ॥ वृ-परः प्राह-ननु व्रणचिकित्सायां पूर्वं व्रणो म्रक्षित्वा ततः पिण्डीप्रदानेन आलिप्यते, एष क्रमः, ततः प्रथमं म्रक्षणसूत्रमुक्त्वा पश्चादालेपनसूत्रं भणितुमुचितमिति भावः । यदि चैतत् 'ते' तव न प्रमाणं ततो मा शरीरस्य क्रियां कार्षीरिति । सूरिराह[भा.६०१६] आलेवणेण पउणइ, जो उ वणो मक्खणेण किं तत्थ ।
होहिइ वणो व मामे, आलेवो दिज्जई समणं ॥ वृ-नायमेकान्तः यद् अवश्यं व्रणे म्रक्षणमालेपनं च द्वयमपि भवति, किन्तु कुत्रचिदेकतरं कुत्राऽप्युभयम्, ततोयः किल व्रणआलेपेन प्रगुणीभवति तत्रम्रक्षणेन कार्यम्? न किञ्चिदित्यर्थः। यद्वा मा मेव्रणो भविष्यति इति कृत्वा प्रथममेवालेपः 'शमनम्' औषधं दीयते ।। किञ्च[भा.६०१७] अचाउरे उ कजे, करिति जहलाभ कत्थ परिवाडी।
अनुपुब्बि संतविभवे, जुञ्जइन उ सबजाईसु॥ वृ-'अत्यातुरे' आगाढे कार्ये यथालाभं आलेपो म्रक्षणं वा यः प्रथमं लभ्यते तेनैव चिकित्सा . कुर्वन्ति।कुत्र नाम परिपाटि क्रमोविद्यते? ।इदमेवव्यनक्ति-यः “सद्विभवः' विद्यमानविभूतिस्तत्र चिकित्सायां क्रियमाणायां आनुपूर्वी चिकित्साशास्त्रभणिता परिपाटि 'युज्यते' घटते, न पुनः सर्वजातिषु, अतः किमत्र क्रमनिरीक्षणेन ? इति॥ [भा.६०१८] सुत्तम्मि कड्डियम्मिं, आलेव ठविंति चउलहू होति।
आणाइणो य दोसा, विराधना इमेहि ठाणेहिं ।। वृ-सूत्रार्थकथनेन सूत्रे आकृष्टे सति नियुक्तिविस्तर उच्यते-यदि आलेपं रात्रौ स्थाप्यति तदा चतुर्लघु, आज्ञादयश्च दोषाः, विराधना चामीभि स्थानैर्भवति॥ [भा.६०१९] निद्धे दवे पणीए, आवजण पाण तक्कणा झरणा ।
आयंक विवच्चासे, सेसे लहुगा य गुरुगा य॥ वृ-स्निग्धेद्रवे प्रणीते आलोपे स्थापितेप्राणिनामापतनंतर्कणं क्षरणंच' तस्य द्रवादेः स्यन्दनं भवति। अत्र दोषभावना प्राग्वत् । आतङ्केच रोगे विपर्यासेन क्रियाकरणेवक्ष्यमाणंप्रायश्चित्तम्। "सेसि" ति आगाढा-ऽनागाढकारणमन्तरेण यदि परिवासयति ततः प्राशुकादौ स्थाप्यमाने चतुर्लघु, अप्राशुकादौ चतुर्गुरु ।। इदमेव व्याचष्टे[भा.६०२०] ति चिय संचयदोसा, तयाविसे लाल छिवण लिहणं वा।
अंबीभूयं बिइए, उज्झमणुज्झंति जे दोसा॥ वृत एव सञ्चयादयो दोषा मन्तव्याः, त्वग्विषः सर्प स्पृशेत्, लालाविषो वा जिह्वया लेहनं कुर्यात्, द्वितीयेच दिनेऽम्लीभूतं तदुल्झ्यते, अनुज्झतो वा ये दोषास्तान्प्राप्नोति ॥ . ___ यत एते दोषास्ततः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org