________________
३३३
उद्देशकः ५, मूलं-१९१, [भा. ६००४] बिभीतकादिकम्, एतत् सर्वमनाहारो भवतीति चूर्णि । निशीथचूर्णी तु-"या निम्बादीनां 'छल्ली' त्वग्यच्च तेषामेव निम्बोलिकादिकं फलं यच्च तेषामेव मूलम्, एवमादिकं सर्वमप्यनाहारः" इति व्याख्यातम् । “सेसं" ति शेषम्' आहारः। तस्याहारस्य परिवासितस्य यदि तिलतुषत्वग्मात्रमप्याहरति, सक्तुकादीनां शुष्कचूर्णानामेकस्यामङ्गुयावती मूतिमात्रा लगति तावन्मात्रमपि यदि अश्नाति, तोयस्य-पानस्य बिन्दुमात्रमपि यद्यापिबति तदा चतुर्गुरु, आज्ञाच तीर्थकृतां कोपिता भवति ॥ एते चापरे दोषाः[भा.६००५] मिच्छत्ता-ऽसंचइए, विराधना सत्तु पाणजाईओ।
सम्मुच्छणा य तक्कण, दवे य दोसा इमे होति ।। दृ-अशनादि परिवास्यमानं सृष्ट्वा शैक्षोऽन्यो वा मिथ्यात्वं गच्छेत्, उड्डाहं वा कुर्यात्-अहो! अमी असञ्चयिकाः । परिवासिते तु संयमा-ऽऽत्मविराधना भवति । सक्तुकादिषु धार्यमाणेषु ऊरणिकादयः प्राणजातयः सम्मूर्च्छन्ति, पूपलिकादिषु लालादिसम्मूर्च्छनाच भवति, उन्दरो वा तत्र 'तर्कणम्' अभिलाषं कुर्वन् पार्श्वतः परिभ्रमनं माराजारादिना भक्ष्यते, एवमादिका संयमविराधना । आत्मविराधना तु तत्राशनादौ लालाविषः सर्वो लालां मुञ्चेत्, त्वग्विषो वा जिघ्रनिश्वासेन विषीकुर्यात्, उन्दरो वा लालां मुञ्चेत्। द्रवेचाहारे एते वक्ष्यमाणादोषा भवन्ति। अथ "मिच्छत्तमसंचइय" ति पदं व्याख्याति[भा.६००६] सेह गिहिणा व दिटे, मिचछत्तं कहमसंचया समणा।
संचयमिणं करेंती, अन्नत्थ विनून एमेव ॥ वृ-शैक्षेण गृहिणा वा केनापि तत्राशनादौ परिवासिते हेटे मिथ्यात्वे भवेत्-एवंविधं सञ्चयं ये कुर्वन्तिकथं तेश्रमणा असञ्चया भवन्ति? । यथा “सर्वस्माद्रात्रिभोजनाविरमणम्" इत्यभिग्रह गृहीत्वा लुम्पन्ति तथा 'नून् मिति वतिर्कयाम्यहम्-“अन्यत्रापि" प्राणिवधादावेवमेव समाचरन्ति।।
अथ 'द्रवे दोषा अमी भवन्ति' इति पदं व्याचष्टे[भा.६००७] निद्धे दवे पणीए, आवजण पान तक्कणा झरणा।।
आहारे दिट्ठ दोसा, कप्पइ तम्हा अनाहारो॥ वृ-इह वक्ष्यमाणे अभ्यङ्गनसूत्रे भणितं यद् घृतादिकं तैल-वसावर्जितं अद्रवं भवति तदेव स्निग्धमुच्यते । यत् तु सौवीरद्रवादिकं अलेपकृतं यच्च दुग्ध-तैल-वसा-द्रवघृतादिकं लेपकृतं तदुभयमपि द्रवमित्युच्यते॥तथा चाह[भा.६००८] सुत्तभणियं तु निद्धं, तं चियअदवं सिया अतिल्ल-वसं।
सोवीरग-दुद्धाई, दवं अलेवाड लेवाडं ॥ वृ-व्याख्याता ॥प्रणीतंनाम-गूढस्नेहंघृतपूरादिकंआर्द्रखाद्यकम्, यद्वा बहि स्नेहेन प्रक्षितं मण्डकादि अपरं वा स्नेहावगाढं कुसणादि प्रणीतमुच्यते । तथा चाह[भा.६९०९] गूढसिनेहं उल्लं, तु खजगं मक्खियं वजं बाहि ।
नेहागाढं कुसणं, तु एवमाई पणीयं तु॥ वृ-गतार्था॥एवंविधेस्निग्धेद्रवे प्रणीतेच रात्री स्थापिते कीटिकादयः प्राणजातीया आपद्यन्ते, पतन्तीत्यर्थः, तत्र गृहकोलिकादितर्कणपरम्परा वक्तव्या । "झरणा य" ति स्यन्दमाने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org