________________
३३२
बृहत्कल्प-छेदसूत्रम् -३-५/१९१
आहारो एगंगिओ, चउव्विहो जं वऽतीइ तर्हि ॥
वृ-परिवासितस्याहारस्य 'मार्गणा' विचारणा कर्तव्या । तत्र शिष्यः प्राह वयं तावदेतदेव न जानीमः को नामाहारः ? को वाऽनाहारः ? इति । सूरिराह- 'एकाङ्गिकः' शुद्ध एव यः क्षुधां शमयति स आहारो मन्तव्यः । स चाशनादिकश्चतुर्विधः, यद्वा तत्राहारेऽन्यद् लवणादिकं 'आतियाति' प्रविशति तदप्याहारो मन्तव्यः ॥ अथैकाङ्गिकं चतुर्विधमाहारं व्याचष्टेकूरो नासेइ छुहं, एगंगी तक उदग-मञ्जाई । खाइमे फल- मंसाई, साइमे महु-फाणियाईणि ।।
[भा. ५९९९]
वृ- अशने कूरः 'एकाङ्गिकः' शुद्ध एव क्षुधं नाशयति । पाने तक्रोदक-मद्यादिकमेकाङ्गिकमपि तृषं नाशयति आहारकार्यं च करोति । खादिमे फल-मासादिकं स्वादिमे मधु-फाणितादीनि केवलान्यप्याहारकार्यं कुर्वन्ति ॥ "जं वऽईइ तहिं " ति पदं व्याख्याति
बा (६०००) जंपुन खुहापसमणे, असमत्येगंगि होइ लोणाई । तंपि य होताSSहारो, आहारजुयं व विजुतं वा ।।
वृ-यत् पुनरेकाङ्गिकं क्षुधाप्रशमनेऽसमर्थं परमाहारे उपयुज्यते तदप्याहारेण संयुक्तमसंयुक्तं वा आहारो भवति । तच्च लवणादिकम् । तत्राशने लवण-हिङ्गु-जीरकादिकमुपयुज्यते ॥ उदए कप्पूराई, फलि सुत्ताईण सिंगबेर गुले ।
[ भा. ६००१]
न य तानि कविति खुहं, उवगारित्ता उ आहारो ।।
वृ- उदके कर्पूरादिकमुपयुज्यते, आम्रादिफलेषु सुत्तादीनि द्रव्याणि, 'शृङ्गबेरे च' शुण्ठयां गुल उपयुज्यते । न चैतानि कर्पूरादीनि क्षुधां क्षपयन्ति, परमुपकारित्वादाहार उच्यते । शेषः 'सर्वोऽप्यनाहारः ॥
[ भा. ६००२] अहवा जं भुक्खत्तो, कद्दमउवमाइ पक्खिवइ कोट्ठे । सव्वो सो आहारो, ओसहमाई पुनो भइतो ॥
वृ- अथवा बुभुक्षया आर्त यत् कर्दमोपभया मृदादिकं कोष्ठे प्रक्षिपति । कर्दमोपमा नाम"अपि कर्दमपिण्डानां कुर्यात् कुक्षिं निरन्तरम् ।" स सर्वोऽप्यार उच्यते । औषधादिकं पुनः 'भक्तं' विकल्पितम्, किञ्चिदाहारः किञ्चिच्चानाहार इत्यर्थः । तत्र शर्करादिकमौषधमाहारः, सर्पदष्टादेर्मृत्तिकादिकमौषधमनाहारः ॥ [भा. ६००३]
जं वा भुक्तस्स उ, संकसमाणस्स देइ अस्सातं । सव्वी सो आहारो, अकामऽनिट्टं चऽनाहारो ॥
वृ- यद् वा द्रव्यं बुभुक्षार्तस्य 'सङ्कषत ः ' ग्रसमानस्य कवलप्रक्षेपं कुर्वते इत्यर्थः 'आस्वादं ' रसनाह्लादकं स्वादं प्रयच्छति स सर्व आहारः । यत् पुनः 'अकामम्' अम्हवहरामीत्येवमनभिलषणीयम् 'अनिष्टं च ' जिह्वाया अरुच्यम् ईध्शं सर्वमनाहारो भण्यते ॥
तच्चानाहारिममिदम्
[भा. ६००४] अनहारो मोय छल्ली, मूलं च फलं च होतऽणाहारो । सेस तय-भूइ-तोयं बिंदुम्मि व चउगुरू आणा ।।
वृ- 'मोकं' कायिकी 'छल्ली' निम्बादित्वग् 'मूलंच' पञ्चमूलादिकं 'फलंच' आमलक - हरीतक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org