________________
उद्देशक : ५, मूलं-१८५, [भा. ५९७३]
३२७ सवृन्तिका पादकेसरिका धारयुतं वा परिहर्तुं वा ॥अथ केयं सवृन्ता पादकेसरिका ? इत्याह[भा.५९७४ लाउयपमाणदंडे, पडिलेहणिया उ अग्गए बद्धा।
सा केसरिया भन्नइ, सनालए पायपेहट्ठ॥ वृ-यत्राभिनवसङ्कटमुखे अलाबुनि हस्तो न माति तस्यालाबुनो यद् उन्नत्वं तत्प्रमाणो दण्डः क्रियते, तस्याग्रभागेबद्धा या प्रत्युपेक्षणिका सापादकेसरिकासवृन्ताभण्यते।साचकारणगृहीतस्य सनालस्य पात्रस्य प्रत्युपेक्षणार्थं गृह्यते । तां यदि निर्ग्रन्थ्यो गृह्णन्ति तदा चतुर्गुरु, सैव च प्रतिसेवनादिका विराधना । निर्ग्रन्थानामप्युत्सर्गतो न कल्पते। द्वितीयपदे सनालमलाबुकंतया प्रत्युपेक्ष्य ततो मुखं क्रियते॥
मू. (१८८) नो कप्पइ निग्गंधीणं दारुदंडयं पायपुंछणंधारित्तए वा परिहरित्तए वा। मू. (१८९) कप्पइ निग्गंथाणं दारुदंडयं जाव परिहरित्तए वा।
वृ-अस्य व्याख्या-यत्र दारुमयस्य दण्डस्याग्रभागे ऊर्णिका दशिका बध्यन्ते तद् दारुदण्डकं पादप्रोज्छनमुच्यते। तद् निर्ग्रन्थीनां न कल्पते, निर्ग्रन्थानांतुकल्पते॥अत्र भाष्यम्[भा.५९७५] तेचेव दारुदंडे, पाउंछणगम्मिजे सनालम्मि।
दुण्हवि कारणगहणे, चप्पडए दंडए कुञा ।। वृ-ये सनाले पात्रेदोषा उक्तास्त एव दारुदण्डकेऽपि पादप्रोञ्छनके भवन्ति । द्वयोरपि च' सनालपात्र-दारुदण्डकयोः कारणे निर्ग्रन्थीनामपि ग्रहणं भवति । तत्रच ग्रहणे कृते चप्पडकान्' चतुष्पलान् दण्डकान कुर्यात् ॥
मू. (१९०)नो कप्पइ निग्गंथाण वा निग्गंधीण वा अन्नमन्नस्स मोयं आइयत्तए वा आइमित्तए वा, नन्नत्य गाढाऽगाढेसु रोगायंकेसु।
वृ-अस्य सम्बन्धमाह[मा.५९७६] बंभवयपालणट्ठा, गतोऽहिगारो तु एगपक्खम्मि।
तस्सेव पालणट्ठा, मोयाऽऽरंभो दुपक्खे वी॥ पृ. ब्रह्मव्रतपालनार्थमेकस्मिन्-संयतीलक्षणे पक्षे पूर्वसूत्रेषु योऽधिकारः स गतः, समर्थित इत्यर्थः । सम्प्रति तु 'तस्यैव' ब्रह्मव्रतस्य पालनार्थं 'द्विपक्षेऽपि' संयत संयतीपक्षद्वयविषये मोकसूत्रारम्भः क्रियते।।अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानांवा निर्ग्रन्थीनां वा अन्योन्यस्य' परस्परस्य मोकमापातुं वा आचमितुंवा। किं सर्वथैव ? न इत्याह-गाढा:-अहिविषविसूचिकादयः अगाढाश्च-ज्वरादयो रोगातङ्कास्तेभ्योऽन्यत्रन कल्पते, तेषुतुकल्पत इत्यर्थः। एष सूत्रार्थः ।।सम्प्रति नियुक्तिविस्तरः[मा.५९७७] मोएण अन्नमनस्स आयमणे चउगुरुंच आणाई।
मिच्छत्ते उड्डाहो, विराधना भावसंबंधो॥ वृ-'अन्योन्यस्य' संयतः मोकेन संयती वा संयतानां मोकेन निशाकल्प इकति कृत्वा रात्री यद्यामचति तदा चतुर्गुरु, आज्ञादयश्च दोषाः, मिथ्यात्वं च भवेद् न यथावादी तथाकारीति कृत्वा । यद्वा कश्चिदभिनवधर्मात निरीक्ष्य मिथ्यात्वं गच्छेत्-अहो! अमीसमलाइति।उड्डाहश्च भोगिनी-घाटिकादिज्ञापने भवति । विराधा च संयमस्यात्मनो वा भवति । तत्र संयमविराधना
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org