________________
३२६
बृहत्कल्प-छेदसूत्रम् -३-५/१८३
गृह्यते, तस्य च विषाणं छित्त्वा परिष्ठाप्यते । एवं छिन्ने विषाणे स्थविराया अन्यस्या वा कल्पते ॥ [भा. ५९७०] जं तु न लब्भइ छेत्तुं तं थेरीणं दलंति सविसाणं । छायंति य से दंड, पाउंछण मट्टियाए वा ॥
वृ- यत् 'तु' पुनश्छेत्तुं न लभ्यते ततः सविषाणमपि तदासनं स्थविरसाध्वीनां साधवः प्रयच्छन्ति, तदीयं च दण्डं पादप्रोञ्छनेन धनं छादयन्ति, तेन वेष्टयित्वा स्थूलतरं कुर्वन्तीत्यर्थः; मृत्तिकया वा परिवेष्टयन्ति । निर्ग्रन्थानां सविषाणमपि कल्पते ॥ कुतः ? इत्याह
[भा. ५९७१] समणाण उ ते दोसा, न होंति तेन तु दुवे अनुन्नाया । पीढं आसनहेउं, फलगं पुन होइ सेजट्ठा ॥
वृ- श्रमणानां पुनः 'ते' पादकर्मादयो दोषा न भवन्ति ततः 'द्वे अपि' पीढ-फलके सविषाणे अप्यनुज्ञाते । तत्र पीठमासनहेतोः फलकं पुनः 'शय्यार्थ' शयननिमित्तं वर्षासु गृह्यते ।। अथ किमर्थं वर्षासु तत्रोपवेशनं शयनं वा क्रियते ? इत्याह
[भा. ५९७२] कुच्छण आय दयट्ठा, उज्झायगमरिस-वायरक्खट्ठा । पाणा सीतल दीहा, रक्खट्टा होइ फलगं तु ॥
वृ- आर्द्रायां भूमौ स्थाप्यमानाया निषद्यायाः कोथनं भवति, शीतलायां च भूमावुपविशतां धान्यं न जीर्यति ततो ग्लानत्वेन आत्मविराधना, 'दयार्थं च' जीवदयानिमित्तं वर्षासु भूमी नोपवेष्टव्यम्, “उज्झायगं "ति भूमेरार्द्रभावेन मलिनीभूतस्योपधेर्जुगुप्सनीयता स्यात्, अर्शासि वाक्षुभ्येयुः, वातो वाऽधिकतरं प्रकुप्येत्, तत एतेषां रक्षार्थं पीठकं ग्रहीतव्यम् । तथा शीतलायां भूमौ बहवः कुन्थु-पनकप्रभृतयः प्राणिनः सम्मूर्च्छयुः ततो भूमौ शयानानां तेषां विराधना भवति, दीर्घजातीया व भूमेर्निर्गत्य दशेयुः, उपलक्षणमिदम्, तेनोपधिकोधनाऽजीर्णातादयोऽपि दोषा भवन्ति, एतेषां रक्षार्थं वर्षासु फलकं गृह्यते ॥
सू. (१८४) नो कप्पइ निग्गंधीणं सवेंटगं लाउयं धारितए वा परिहरितए वा । मू. (१८५) कप्पइ निग्गंथाणं सवेंटगं लाउयं थारितए वा परिहरितए वा ।।
वृ- अस्य व्याख्या सुगमा । नवरम्- 'सवेण्टकं 'नालयुक्तं अलाबुकं तद् निर्ग्रन्थीनां न कल्पते । निर्ग्रन्यानां तु कल्पते । अत्र भाष्यम्
[ मा. ५९७३ ] ते चेव सवेंटम्मि, दोसा पादम्मि जे तु सविसाणे । अइरेग अपडिलेहा, बिइय गिलाणोसहठ्ठवणा ||
वृत एव 'सवृन्तेऽपि' सनालेऽपि अलाबुभये पात्रे दोषा मन्तव्या ये सविषाणे आसने पादकर्मादय उक्ताः । द्वितीयपदे तु धारयेऽपि । तत्राध्वनि धृतं वा तैलं वा सुखेनैवापरिगलदुह्यते, ग्लानाया वायोग्यं तत्रौषधं प्रक्षिप्तमास्ते । तच्च सवृन्तकं प्रवर्तिनी स्वयं सारयति । निर्ग्रन्थानामपि निष्कारणे न कल्पे । यदि धारयन्ति ततोऽतिरिक्तोपकरणदोषः, सवृन्तके च प्रत्युपेक्षणा न शुध्यति । द्वितयपदे ग्लानस्य योग्यभौषधं तत्र स्थापनीयमिति कृत्वा ग्रहीतव्यम् ।।
मू. (१८६) नो कप्पइ निग्गंधीणं सर्वेटियं पादकेसरियं धारितए वा परिहरित्तए वा । मू. (१८७) कप्पइ निग्गंथाणं सर्वेटियं पादकेसरियं धारित्तए वा परिहरितए वा । वृ-नो कल्पते निर्ग्रन्थीनां सवृन्तिका पादकेसरिका धारयितुं वा परिहर्तुं वा । कल्पते निर्ग्रन्थानां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org