SearchBrowseAboutContactDonate
Page Preview
Page 1365
Loading...
Download File
Download File
Page Text
________________ ३१४ वृहत्कल्प-छेदसूत्रम् -३-५/१५४ अप्युदकेचिरपरिणामे भवतः। शेषाण्यपि' यानि संसृष्टपानक-फलपानकादीनितेष्वपि सचित्तोदकं यदि प्रक्षिप्यते ततः एवमेव' तान्यपि चिरात् परिणमन्तीति । अथ द्वितीयपदमाह[भा.५९१८] थंडिल्लस्स अलंभे, अद्धाणोम असिवे गिलाणे वा। सुद्धा अविविचंता, आउट्टिय गिण्हमाणा वा ।। वृ-स्थण्डिलस्यालाभेऽपरिणतपानकमपरिष्ठापयन्तोऽपि शुद्धाः । अध्वा-ऽवमा-ऽशिवग्लानत्वेषु वा कारणेषु पानकस्य दुर्लभतायाम् 'अविविञ्चन्तः' अपरिष्ठापयन्तः ‘आकुट्टिकया वा' जानन्तोऽपि गृहन्तः शुद्धाः ॥ मू. (१५५)निग्गंधीएरातोवावियालेवा उच्चारंवा पावणंवा विगिंचमाणीएवा विसोहेमाणीए वा अन्नयो पसुजातीए वा परिखजातीए वा अन्नयरं इंदियजायं परामुसेजा, तं च निग्गंधी साइजेजा, हत्थकम्मपडिसेवणप्पत्ता आवजइ मासियं अनुगघाइयं ॥ म. (१५६)निग्गंधीएरातोवावियालेवा उच्चारंवापासवणंवा विगिंचमाणीएवा विसोहेमाणीए वा अन्नयरे पसुजातीए वा पक्खिजातीए वा अनयरंसि सोयंसि ओगाहिज्जा, तं च निग्गंथी साइजेजा, मेहुणपडिसेवणप्पत्ता आवजइ चाउम्मासियं अनुग्घाइयं ।। वृ-अस्य सूत्रद्वयस्य सम्बन्धमाह[भा.५९१९] पढमिल्लुग-ततियाणं, चरितो अत्थो वताण रक्खट्ठा। मेहुणरक्खट्ठा पुन, इंदिय सोए य दो सुत्ता॥ -'प्रथम-तृतीययोतयोः' प्राणातिपाता-ऽदत्तादानविरतिलक्षणयोरक्षणार्थ तीर्थकरानुज्ञातशीतोदकपरिभोगे तयोर्भङ्गो मा भूदिति कृत्वा पूर्वसूत्रस्यार्थ चरितः' गतः, भणित इत्यर्थः । सम्प्रति तु मैथुनव्रतरक्षणार्थमिन्द्रियविषय-श्रोतोविषये द्वे सूत्रे आरभ्येते ॥ अनेन सम्बन्धेनायातस्यास्यव्याख्या-निर्ग्रन्थ्याः रात्रौवा विकाले वाउच्चारंवाप्रश्रवणंवा विविञ्चन्त्य वाविशोधयन्त्या वा अन्यतरः पशुजातीयो वा' वानरादिकः 'पक्षिजातीयो वा' मयूरादिकोऽन्यतरदिन्द्रियजातं 'परामशेत्' स्पृशेत्, सा च निर्ग्रन्थी तं च स्पर्श 'स्वादयेत्' 'सुन्दरोऽस्य स्पर्श' इत्यनुमन्येत, हस्तकर्मप्रतिसेवनप्राप्ता आपद्यते मासिकमनुद्धातिकं स्थानम् । इह निर्ग्रन्थीनां परिहारतपो न भवतीति कृत्वा “परिहारट्ठाणं"ति पदंन पठनीयम्॥एवं द्वितीयसूत्रमपि व्याख्येयम् । नवरम्अन्यतरस्मिन् 'श्रोतसि' योन्यादौ वानरादिरवगाहेत, साच मैथुनप्रतिसेवनप्राप्ता यदि स्वादयेत् ततश्चतुर्गुरुकमिति सूत्रार्थः ॥अथ भाष्यविस्तरः[भा.५९२०] वानर छगला हरिणा, सुणगादीया य पसुगणा होति। बरहिण चासा हंसा, कुक्कुडग-सुगादिणो पक्खी।। कृवानराः छगलाहरिणाःशुनकादयश्चपशुगणामन्तव्याः।बर्हिणश्चाषाहंसाः कुक्कुटशुकादयश्च पक्षिण उच्यन्ते॥ [भा.५९२१] जहियं तु अनाययणा, पासवणुच्चार तहि पडिक्कुटुं। लहुगो य होइ मासो, आणादि सती कुलघरे वा ॥ वृ- यत्रैते पशुजातीयाः पक्षिजातीयाश्च प्राणिनः सम्भवन्ति तद् अनायतनमुच्यते, तत्रन निर्ग्रन्थीनामवस्थानं प्रश्रवणोच्चारपरिष्ठापनंच पतिक्रुष्टम्।यदि कुर्वन्ति तदा लघुमासः,आज्ञादयश्च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy