________________
उद्देशक: ५, मूलं - १५४, [ भा. ५९११]
३१३
गच्छति चिन्तयति च तिष्ठतु तावत् पश्चात् परिणतं परिभोक्ष्ये; एवं मायां कुर्वतः स्थण्डिलादर्वाक् परिणतमपि न कल्पते ॥ अथ मध्यमभङ्गद्वये भजनामाह
[ भा. ५९१२]
थोवं बहुम्मि पडियं, उसिणे सीतोदगं न उज्झती । हंदि हुजाव विगिचति, भावेजति ताव तं तेनं ।।
यृ - बहुके पूर्वगृहीते स्तोकं पतितमित्यत्र यदि उष्णे बहुनि शीतोदकं स्तोकं पतितं तदा नोज्झन्ति । कुतः ? इत्याह- 'हन्दि ' इत्युपप्रदर्शने, यावद् विविनक्ति तावत् 'तत्' स्तोकं शीतोदकं 'तेन' बहुकेनोष्णेन 'भाव्यते' परिणतं क्रियते, ततः परिभोक्तव्यं तदिति भावः ॥
[ भा. ५९१३ ] जं पुन दुहतो उसिणं, सममतिरेगं व तक्खणा चैव । मज्झिल्लभंगएसुं, चिरं पिचिट्ठे बहुं छूढं ॥
वृ- यत् पुनर्द्विधाऽप्युष्णम्-उष्णे उष्णं पतितमित्यर्थः तत् परिणामतः परस्परं 'समं' तुल्यं भवेद् 'अतिरिक्तं वा' द्वयोरेकतरमधिकतरं तत्रापि तत्क्षणादेव सचित्तभावो नापगच्छतीति वाक्यशेषः । यौ तु मध्यमौ द्वौ भङ्गौ 'उष्णे शीतं पतितम्, शीते वा उष्णं पतितम्' इति लक्षणी तयोः स्तोके बहु प्रक्षिप्तं चिरमपि सचित्तं तिष्ठेत्, ततस्तदपि क्षिप्रं चिरेण वा विवेचनीयम् ॥
अथोदकस्यैव परिणमनलक्षणमाह
[भा. ५९१४] वन्न - रस-गंध-फासा, जह दव्वे जम्मि उक्कडा होंति । तह तह चिरं न चिट्ठइ, असुभेसु सुभेसु कालेणं ॥
वृ- यस्मिन् द्रव्ये यथा यथा वर्ण- गन्ध-रस-स्पर्शा उत्कटा उत्कटतरा भवन्ति तथा तथा तेन द्रव्येण सह मिश्रितमुदकं चिरं न तिष्ठति, क्षिप्रं क्षिप्रतरं परिणमतीति भावः । किमविशेषेण ? न इत्याह-येऽशुभा वर्णादय उत्कटास्तेष्वेव क्षिप्रं परिणमति, ये तु शुबा वर्णादयस्तेषूत्कटेषु कालेन परिणमति, चिरादित्यर्थः ॥ अत्रेदं निदर्शनम्
[भा. ५९१५]
जो चंदने कडुरसो, संसठ्ठजले य दूसणा जा तु । सा खलु दगस्स सत्यं, फासो उ उवग्गहं कुणति ॥
वृ- इह तण्डुलोदकं चन्दनेन क्वापि मिश्रितं तत्र च चन्दनस्य यः कटुको रसः स तण्डुलोदकस्य शस्त्र परं यस्तदीय: स्पर्श शीतलः स जलस्योपग्रहं करोतीति कृत्वा चिरेण तत् परिणमति । एवं संसृष्टजलस्थापि या 'दूषणा' अम्लरसता सा उदकस्य शस्त्रं स्पर्शस्तु शीतलत्वादुपग्रहकारी अतश्चिरेण परिणमति ॥
[भा. ५९१६ ] घयकिट्ट - विस्सगंधा, दगसत्यं मधरु- सीतलं न घतं । कालंतरमुप्पन्ना, अंबिलया चाउलोदरस ॥
- घृतस्य सबन्धी यः किट्टो यश्च विस्र गन्धः तावुदकस्य शस्त्रम्, यत् तु रसेन मधुरं स्पर्शेन च शीतलं घृतं तद् उपग्रहं करोतीति शस्त्र न भवति, अतश्चिरात् परिणमति । तथा कुक्कुसै:अतिगुलिकैस्तण्डुलोदकस्याम्लता या कालान्तरेणोत्पन्ना साऽप्युदकस्य शस्त्र भवति ।। अव्युकंते जति चाउलोदए छुडमते जलं अन्नं ।
[भा. ५९१७]
दोत्रिवि चिरपरिणामा, भवंति एमेव सेसा वि ।।
घृ- 'अव्युत्क्रान्ते' अपरिणते तण्डुलोदके यद् 'अन्यद्' अपरं सचित्तं जलं प्रक्षिप्यते ततो द्वे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org