________________
उद्देशक: ५, मूलं- १५२, [भा. ५८४१]
अस्यैवार्थस्य सुखावबोधार्थमिमां प्रस्ताररचनामाह
[ भा. ५८४२ ] खेत्तंतो खेत्तबहिया, अप्पत्ता बाहि जोयण दुगे य । चत्तारि अट्ठ बारसऽजग्ग सुव विगिंचणाऽऽदियणा ||
वृ- इहोर्ध्वाधः क्रमेणाष्टी गृहाणि स्थापनीयानि, तिर्यक् पुनश्चत्वारि, एवं द्वात्रिंशद् गृहकाणि कर्तव्यानि । प्रथमगृहाष्टकपङ्क्त्यामधोऽध एतेऽष्टौ पुरुषविभागा लेखितव्याः ये तत्रैव गन्तुकामा यतनाप्राप्ता ये च वासत्वाय यतनाकारिण एष एकः पुरुषविभागः १ । ये तु तत्रैव गन्तुकामा एवायतनया प्राप्ता वासत्वायश्चायतनाकारिण एष द्वितीयः २ । ये तु अन्यत्र गन्तुकामास्ते क्षेत्रान्तः क्षेत्रबहिर्वा आगता भवेयुः । ये क्षेत्रान्तस्ते प्राप्तभूमिका उच्यन्ते एष तृतीयः ३ । ये तु क्षेत्र हिस्तेऽप्राप्तभूमिका उच्यन्ते, ते च योजनादागताः षष्ठः । अष्टयोजनादायाताः सप्तमः ७ । द्वादसयोजनादागता अष्टमः ८ । उपरितनतिर्यगायाचतुष्कपङ्कया उपरिक्रमेणामी चत्वारो विभागा लेखितव्याः प्रदोषेऽजागरणं १ वैरात्रिकस्वाध्यायवेलायां स्वपनम् २ उद्गारविवेचनम् ३ उद्गारप्रत्यवगिलनम् ४ ॥
२९९
आदिमचतुष्कपङ्क्त्यांयां द्वितीयगृहादमूनि प्रायश्चित्तानि क्रमेण स्थापयितव्यानि[ भा. ५८४३ ] पनग च भिन्नमासो, मासो लहुओ उ पढमतो सुद्धो । मासो तव कालगुरू, दोहि वि लहुओ अ गुरुओ य ॥
वृ- द्वितीयगृहे पञ्चकम्, तृतीयगृहे भिन्नमासः, चतुर्थे मासलघु । 'प्रथमगृहे शुद्धः, चतुर्थे तु पदे मासः तपसा कालेन च गुरुकः । यत्र चादिपदेऽपि प्रायश्चित्तं भवति तत्र द्वाभ्यामपि लघुकम्, मध्यपदयोर्द्वयोरपि यथासङ्ख्यं तपसा कालेन च गुरुकम्। ॥
[भा. ५८४४ ] लहुओ गुरुओ मासो, चउरो लहुगा य होंति गुरुगाय । छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगं च ॥
वृ- द्वितीयादिचतुर्षु गृहपङ्क्त्यः सर्वा अमुना प्रायश्चित्तेन पूरयितव्याः - द्वितीयस्यां पकौ त्रिषु गृहेषु लघुमासः, चतुर्थे गुरुमासः । तृतीयस्यां त्रिषु गुरुमासः, चतुर्थे चतुर्लघु । चतुर्थ्यां त्रिषु चतुर्लघु, चतुर्थे चतुर्गुरु । पञ्चम्यां त्रिषु चतुर्गुरु, चतुर्थे षड्लघु । षष्ठयां त्रिषु षड्लघु, चतुर्थे षड्गुरु । सप्तम्यां त्रिषु षड्गुरु, चतुर्थे छेदः । अष्टम्यां पङ्कौ चतुर्षु गृहेषु च्छेद-मूल- ऽनवस्थाप्यपाराञ्चिकानि ॥ तथा चाह
[भा. ५८४५] जह भणिय चउत्थस्स य, तह इयरस्स पढमे मुणेयव्वं । पत्ताण होइ भतणा, जे जतणा जं तु वत्थव्वे ॥
वृ- यथा पूर्वस्यां पङ्क्तौ चतुर्थे स्थाने भणितम्, गाथायां सप्तम्यर्थे षष्ठी, तथा 'इतरस्याः ' अग्रेतन्यः पङ्क्तेः प्रथमेषु त्रिषु स्थानेषु प्रायश्चित्तं ज्ञातव्यम्, अन्त्यपदे पुनस्ततोऽग्रेतनम् । यथा-यतनाप्राप्ता येऽध्वप्रपन्ना ये च वास्तव्या यतनाकारिणः तेषां चतुर्थे स्थाने मासलघुरूपं 'यत्तु' यत् पुनः प्रायश्चित्तमुक्तं तदेव तेषामेवायतनावतामाद्येषु त्रिषु स्थानेषु भवति, अन्त्यपदे तु मासगुरुकमिति । एवं प्राप्तभूमिकादिष्वपि 'भजना' प्रायश्चित्तरचना विज्ञेया । नवरम्अन्त्यपङ्क्त्यां छेद-मूला - ऽनवस्थाप्य पाराञ्चिकानि भवन्ति ॥
[भा. ५८४६ ] एएण सुत न गतं सुत्तनिवाते इमे तु आदेसा ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org