________________
२९८
बृहत्कल्प-छेदसूत्रम् -३-५/१५२ सर्वेऽप्राप्तभूमिकाः ।। [भा.५८३८] खेतंतो खेत्तबहिया, अप्पत्ता बाहि जोयण दुगे य ।
. चत्तारि अट्ट बारसऽजग्ग सुव विगिचणाऽऽदियणा ॥ वृ-सङ्घडीं श्रुत्वा क्षेत्रान्तः क्षेत्रबहिर्वा आगच्छेयुः। ये क्षेत्रान्तः सार्धक्रोशद्वयादागच्छन्ति ते प्राप्तभूमिकाः । ये पनः क्षेत्रबहि योजनाद् योजनद्वयात् चतुर्योजनादष्टयोजनाद् यावद् द्वादशयोजनादागच्छन्तितेऽप्राप्तभूमिकाः। एतेसर्वेऽपि सद्धड्यामतिमात्रेमुक्त्वा प्रदोषे "जग्ग"त्ति अकारप्रश्लेषाद् न जाग्रति, "सुव" ति वैरात्रिककालवेलायामपि 'स्वपन्ति' नोत्तिष्ठन्ते, "विगिचण"तिउद्गारमुद्गीर्यपरित्यन्ति, “आइयण"तितमेव आपिबन्ति प्रत्यवगिलन्त।।
एतेषु चतुर्यु पदेषु इयमारोपणा[मा.५८३९] वत्थव्व जयणपत्ता, सुद्धा पणगंच भिन्नमासोय।
तव-कालेहि विसिट्टा, अजतणमादी विउ विसिट्ठा ॥ · धृ-सङ्घयप्रलोकिनोवास्तव्या यतनया प्राप्ताश्चागन्तुकाः सवड्यां यावद्वंमुक्त्वाप्रादोषिकी पौरुषीं न कुर्वन्ति ‘मा नजरिष्यति' इति कृत्वा तत आचार्यानापृच्छय स्वपन्तः शुद्धाः। त एव यदि वैरात्रिकं स्वाध्यायं न कुर्वन्ति तदा पञ्चरात्रिन्दिवानि तपोलघूनि कालगुरूणि । अथोद्वार आगतस्तं च यदि विविञ्चन्ति ततो भिन्नमासस्तपोगुरु काललघुः । अथ तमुद्गारमापिबन्ति ततो मासलघु तपसा कालेन च गुरुकम् । येऽयतनाप्राप्ता ये च वास्तव्याः सवडिप्रलौकिनः एते द्वयेऽपि सङ्घड्यांमुक्त्वा प्रादोषिकंस्वाध्यायं न कुर्वन्ति मासलघु द्वाभ्यामपि लघुकम्। वैरात्रिकं स्वाध्यायं न कुर्वन्ति मासलघुकालगुरुकम्। उद्गारमागतं परित्यजन्ति मासलघु तपोगुरुकम् । उद्गारं प्रत्यवगिलन्ति मासगुरु तपसा कलेन च गुरुकम् ।। अत एवाह[भा.५८४०] तिसु लहुओ गुरु एगो, तीसुय गुरुओ उ चउलहू अंते ।
तिसुचउलहुगा चउगुरु, तिसुचउगुरु छलहू अंते॥ वृ-'त्रिषु स्थानेषु' प्रादोषिकस्वाध्याय-वैरात्रिकाकरणोद्गारविवेचनरूपेषु लधुको मासः, 'एकस्मिन्' चतुर्थे प्रत्यवगिलनाख्ये स्थाने मासगुरु । येऽन्यत्र गन्तुकामाः प्राप्तभूमिकाः सङ्घडिहेतोरर्द्धयोजनादागतास्तेषां प्रादोषिकस्वाध्यायाकरणादिषुत्रिषुस्थानेषु मासगुरु, अन्त्यस्थाने चतुर्लघु । येऽप्राप्तभूमिकाः सङ्घडिनिमित्तं योजनादागतास्तेषांपादोषिकादिषु त्रिषुपदेषु चतुर्लघु, अन्त्यपदे चतुर्गुरु ये तुयोजनद्वयादायातास्तेषामादिपदेषु त्रिषु चतुर्गुरु, अन्त्यपदे षडलघु ।। [भा.५८४१] तिसु छल्लहुगा छग्गुरु, तिसुछग्गुरुगा य अंतिमे छेदो।
छेदादी पारंची, बारसगा दीसुत चउक्कं ।। वृ. ये योजनचतुष्टयादागतास्तेषां त्रिष्वाद्यपदेषु षडलघु, अन्त्यपदे षड्गुरु । ये योजनाष्टकादागतास्तेषां त्रिषु षड्गुरु, अन्त्यपदे च्छेदः । ये द्वादशयोजनादागतास्ते प्रादोषिकं स्वाध्यायं न कुर्वन्तिच्छेदः, आदिशब्दावैरात्रिकमकुर्वतां मूलम्, उद्गारंविविञ्चतामनवस्थाप्यम्, प्रत्यापिवतां पाराञ्चिकम्। “बारसगादी य चउक्कं तिप्रतीपक्रमेण यानि द्वादशयोजनप्रभृतीनि स्थानानि तेषु सर्वेष्वपि प्रत्येकं प्रत्येकं प्रादोषिकादिचतुष्कं मन्तव्यम् । चतुर्वपि पदेषु तपोर्हाणि प्रायश्चित्तानि प्राग्वत् तपः-कालविशेषितानि कर्तव्यानि॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org