________________
उद्देशकः ५, मूलं-१५१, [भा. ५८२५] [भा.५८२५] उवदेस अनुवदेसा, दुविहा आहिंडगा मुणेयव्वा ।
विहरंता वि य दुविधा, गच्छगता निग्गता चेव ॥ इ-आहिण्डकाअपि द्विधा उपदेशाहिण्डकाअनुपदेशाहिण्डकाश्च । तत्रये सूत्रा-ऽर्यगृहीत्वा भविष्यदाचार्या गुरूणामुपदेशेन विषया-ऽऽवार-भाषोपम्भनिमित्तमाहिण्डन्तेतेउपदेशाहिण्डकाः, ये तु कौतुकेन देशदर्शनं कुर्वन्ति तेऽनुपदेशाहिण्डकाः । विहरन्तोऽपि द्विविधाः-गच्छगता गच्छनिर्गताश्च । तत्र 'गच्छगताः' गच्छवासिनः ऋतुबद्धे मासं मासेन विहरन्ति । गच्छनिर्गता द्विविधाः-विधिनिर्गता अविधिनिर्गताश्च । विधिनिर्गताश्चतुर्धा-जिनकल्पिकाः प्रतिमाप्रतिपन्ना यथालन्दिकाः शुद्धपारिहारिकाश्चेति । अविधिनिरगताः सारणादिभिस्त्याजिता एकाकीभूताः।
एतेषां भेदानामिभेऽनुदिता-ऽस्तमितयोः प्रायश्चित्ते लगन्ति[भा.५८२६] निक्कारणिगाऽनुवदेसिगा य लग्गंतऽनुदिय अत्थमिते ।
गच्छा विनिग्गता विहु, लग्गे जति ते करेजेवं ।। कृनिष्कारणिकाद्रवन्तोअनुपदेशाहिण्डकाअविधिनिर्गताश्चानुदितेऽस्तमितेवायदि गृह्णन्ति मुझते वा ततः पूर्वोक्तप्रायश्चित्ते लगन्ति । ये तु कारणिका द्रवन्त उपदेशाहिण्डका गच्छगताश्च ते कारणे यतनया गृह्णाना भुञानाश्च शुद्धाः । ये तु गच्छनिर्गता जिनकल्पिकादयस्तेऽपि यद्येवमनुदितेऽस्तमिते वा ग्रहणं कुर्युस्ततो लगन्ति परं ते नियमात् तदानी न गृह्णन्ति, त्रिकालविषयज्ञानसम्पन्नत्वात् ॥ [भा.५८२७] अहवा तेसिं ततियं, अप्पत्तो अनुदितो भवे सूरो।
पत्तोतु पच्छिमं पोरिसिं च अत्थंगतो होति ।। कृ-अथवाशब्दःप्रकारान्तरवाची । 'तषां जिनकल्पिकादीनांतृतीयांपौरुषीमप्राप्तः सूर्योऽनुदितो भण्यते, पश्चिमां चपौरु, प्राप्तोऽस्तङ्गत उच्यते । अत एव भक्तं पन्थाश्च तेषां तृतीयपौरुष्यामेव भवति नान्यथा ॥ गतमसंस्तृतनिर्विचिकित्ससूत्रम् । अथासंस्तृतविचिकित्ससूत्रं व्याचष्टे[भा.५८२८] वितिगिच्छ अब्मसंथड, सत्थो उपहावितो भवे तुरियं ।
अनुकंपयाए कोई, भत्तेण निमंतणं कुज्जा ॥ वृ-अभ्रसंस्तृत-हिमानीसम्पातादिभिर्दश्यमाने सूर्ये विचिकित्सा भवति।तेच साधवः सार्थेन अध्वानं प्रतिपन्नाः,अन्तरा चाऽभिमुखोऽपरः सार्थ आगतः, द्वावप्येकस्थाने आवासितौ, अभिमुखागन्तुकसार्थिकश्च कोऽप्यनुकम्पया साधूनां भक्तेन निमन्त्रणं कुर्यात्, यस्मिंश्च सार्थे साधवःसचलितः अतःसूर्योदयवेलायामुदितोऽनुदित इतिशङ्कया गृह्णीयुः।इहापित्रिविधेऽसंस्तुते तथैवाष्टी लताः । नवरम्-असंस्तृते निर्विचिकित्से तपःप्रायश्चितान्युभयगुरुकाणि, असंस्तृते विचिकित्से पुनरुभयलघूनि, शेषं सर्वमपि प्राग्वत् ।।
मू. (१५२) इह खलु निग्गंथस्स वा निग्गंथीए वारातो वा वियालेवा सपाणे सभोयणे उग्गाले आगच्छेज्जा, तं विगिंचमाणे वा विसोहेमाणे वा नो अइक्कमइ । तं उग्गिलिता पच्चोगिलमाणे राईभोयणपडिसेवणप्पते आवञ्जइ चाउम्मासियं परिहारहाणं अनुग्घाइयं ।।
वृ-अस्य सम्बन्धमाह[भा.५८२९] निसिभोयणं तु पगतं, असंथरंतो बहुंच भोत्तूणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org