________________
२९४
बृहत्कल्प-छेदसूत्रम् -३-५/१५१ वृ-ग्लानासंस्तृतस्याप्येवमेव प्रायश्चित्तम् । नवरम्-तत्र "भिनेणं" तिभित्रमासात्प्रस्थापना कर्तव्या ।प्रथमंवारं पञ्चमासलघुके, द्वितीयंषन्नासलघुके, तृतीयं छेदे, चतुर्थं वारं मूले तिष्ठति। अत एवाह-'चतुर्भिग्रहणैः' अभीक्ष्णसेवारूपै ‘स्वपदं' मूलं भिक्षु प्राप्नोति । उपाध्यायस्य लधुमासादारब्धंचतुर्विध्राररैनवस्थाप्ये, आचार्यस्य द्विमासलघुकादारब्धंचतुर्भिवरिः पाराचिके पर्यवस्यति । शिष्यः पृच्छति-कस्यैतत् प्रायश्चित्तम् ? सूरिराह-यद् उक्त यच्च वक्ष्यमाणम् एतत् सर्वमगीतार्थस्य सूत भवति, प्रस्तुतसूत्रोक्तंप्रायश्चित्तमित्यर्थः । सहि कार्यभकार्यवा यतनामयतनां वा न जानाति अतस्तस्य प्रायश्चित्तम् ।। गतो ग्लानासंस्तृतः । अथाध्वासंस्तृतमाह[भा.५८२२] अद्धाणासंघडिए, पवेस मज्झे तहेव उत्तिन्ने।
मज्झम्मि दसगवुड्डी, पवेस उत्तिनिपणएणं ॥ - 'अध्वनि' मार्गे योऽसंस्तृतः स त्रिविधः । तद्यथा-अध्वनः प्रवेशे मध्ये उत्तारे च । तत्र प्रथमंमध्ये भाव्यते-भिक्षोः संलेखनादिषुषट्सु स्थानेषुदशरात्रिन्दिवमाती कृत्वा प्रायश्चित्तवृद्धिः कर्तव्या, उपाध्यायस्य पञ्चदशरात्रिन्दिवादिकम्, आचार्यस्य विंशतिरात्रिन्दिवादिकंप्रायश्चित्तम्। भावे एतदेव प्रतिलोमं वक्तव्यम् । अथ प्रवेशे उत्तरणे च भण्यते-“पवेस उत्तिन्न पणएणं" ति प्रवेशे तथा उत्तरणमुत्तीर्णं तत्र च पञ्चकेन स्थापना क्रियते, संलेखनादिषुषट्सु पदेषु पञ्चरात्रिन्दिवान्यादी कृत्वामासलघुकंयावद् नेतव्यमिति भावः । तथाउभयोरपिअष्टभिवारमूलं प्राप्नोति, उपाध्यायस्य दशरात्रिन्दिवादिकमष्टमवारायामनवस्थाप्यम्, आचार्यस्य पञ्चदशरात्रिन्दिदिकं पाराञ्चिकान्तम् । बावेएतदेव प्रतिलोमंप्रायश्चित्तम्। शिष्यः पृच्छति-अधावसंस्तृतोमध्ये क्षिप्रमेव स्वपदं प्रापितः प्रवेशे उत्तरणे च चिरेण तदेतत् कथम्? अत्रोच्यते-अध्वनः प्रवेशे भयमुत्पद्यते 'कथमध्वानं निस्तरिष्यामि ?' उत्तरणेऽपि बुभुक्षा तृषादिभिरत्यन्तं क्लान्तः, अत एवौ चिरेण स्वपदंप्रापितो, अध्वमध्ये पुनर्जितभयोनातिक्लान्तश्चअतःशीघ्रं स्वपदंप्रापितः । अत्रैकैकस्मिन् पदे आज्ञादयो रात्रिभोजनदोषाश्च । अगीतार्थस्य चैतन्मन्तव्यम्, न गीतार्थस्य ।।
कुतः? इति चेद् उच्यते[भा.५८२३] उग्गयमनुग्गते वा, गीतत्यो कारणे नऽतिक्कमति।
- दूताऽऽहिंड विहारी, ते विय होती सपडिवक्खा ।। वृ-गीतार्थ अध्वप्रवेशादौ कारणे उत्पन्ने उद्गतेऽनुद्गते सूर्ये यतनयाऽरक्तोऽष्टो मुनानो भगवतामाज्ञा धर्म वा नातिकामति ।तेचाध्वप्रतिपत्रास्त्रिविधाः-द्रवन्तआहिण्डका विहारिणश्च। तत्र द्रवन्तः-ग्रामानुग्रामं गच्छन्तः, आहिण्डकाः-सततपरिभ्रमणशीलाः, विहारिणः-मासंमासेन विहरन्तः । तेऽपि प्रत्येकं सप्रतिपक्षाः ।। तद्यथा[भा.५८२४] दूइज्जता दुविधा, निक्कारणिगा तहेव कारणिगा।
असिवादी कारणिता, चक्के थूभाईता इतरे। द्रवन्तो द्विविधाः-निष्कारणिकाः कारणिकाश्च। तत्राशिवा-ऽवमदर्य-राजद्विष्टादिभिकारणैः, उपधेर्पस्य वा निमित्तं, गच्छस्यवा बहुगुणतरमिति कृतवा, आचार्यादीनां वा आगाढे कारणे ये द्रवन्ति ते कारणिकाः ।ये पुनरुत्तरापथे धर्मचक्रं मथुरायांदेवनिर्मितस्तूपआदिशब्दात् कोशायां जीवन्तस्वामिप्रतिमा तीर्थकृतां वा जन्मादिभूमय एवमादिदर्शनार्थं द्रवन्तो निष्कारणिकाः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org