________________
२९३
उद्देशक : ५, मूलं-१५१, [भा. ५८१७]
तवऽसंथड मीससा, मासादारोवणा इणमो।। वृ-असंस्तृतो नाम षष्ठा-ऽष्टमादिना तपसा क्लान्तो १ ग्लानत्वेन वाऽसमर्थो २ दीर्घाध्वनि वा गच्छन् पर्याप्तं न लभते ३, एष त्रिविधोऽसंस्तृतः । 'विहे तिविहो" ति 'विहे" अध्वनि योऽसंस्तृतः स त्रिविधः, तद्यथा-अध्वप्रवेशेऽध्वमध्येऽध्वोत्तारे च । तत्र तपोऽसंस्तृतस्य निर्विचिकित्सस्य मासादिका इयमारोपणा भवति। "मीसस्स"त्ति मिश्रो नाम-विचिकित्सासमापन्नस्तस्यापि मासादिरारोपणाकर्तव्या । साचोत्तरत्राभिधास्यते । इहापि पूर्वक्रमेणषोडश लताः कर्तव्याः, कालनिष्पन्नंचप्रायश्चित्तं प्राग्वत्॥द्रव्य-भावप्रायश्चित्तयोस्त्वयं विशेषः-तपोऽसंस्तृतो विकृष्टतपःक्लान्तः पारणकेऽनुद्गतेऽस्तमिते वा उदिता-ऽनस्तमितुध्या भक्त-पानीये भुञानो यदाऽनुद्गतमस्तमितं वा जानाति ततः परं मुआनास्येद् प्रायश्चित्तम्[भा.५८१८] एक-दुग-तिन्नि मासा, चउमासा पंचमास छम्मासा।
सव्वे विहोति लहुगा, एगुत्तरवड्डिया जेणं ॥ कृ-संलेखनाशेषं यदि ज्ञातेभुङ्क्तेतत एकमासिकम् ।पञ्चकवलान् समुद्दिशति द्विमासिकम्। दश लम्बनान् समुद्दिशति त्रैमासिकम् । पञ्चदश कवलान् भुआनस्य चतुरमासिकम् । विंशतिं भुञानस्य पञ्चमासिकम् । अथपञ्च कवला विशुद्धभावेन समुद्दिष्टाः शेषान् पञ्चविंशतिकवलान् ज्ञाते भुङ्क्ते ततः पाण्मासिकम् । एतानि सर्वाण्यपि लघुकानि प्रायश्चित्तानि भवन्ति । कुतः? इत्याह-येन कारणेनैकोत्तरवृद्धया द्विव्यादिरूपया अमूनि वर्द्धितानि ॥ इदमेव व्यनक्ति[भा.५८१९] दुविहा य होइ वुट्टी, सट्टाणे चेव होइ परठाणे ।
- सट्ठाणम्मिउगुरुगा, परठाणे लहुग गुरुगा वा॥ वृ-द्विविधा च भवति वृद्धिः । तद्यथा-स्सस्थानवृद्धि परस्थानवृद्धिश्च। स्वस्थानवृद्धिर्नियमाद् गुरुका भवति, तथाहि-यदामासलघुकाद्मासमेव स्वस्थानंसङ्कामतितदा नियमामासगुरुकमेव, एवं द्विमासलघुका द्विमासगुरुकम्, यावत्षण्मासलघुकात्षण्मासगुरुकम्।परस्थानवृद्धिस्तु विसशसङ्कायाका वृद्धि, यथा-मासाद् द्वौ मासौद, द्वाभ्यां मासाभ्यां त्रयो मासाः, एवं यावत् पञ्चमासात् षण्मासाः। एषापरस्थानवृद्धिलघुकावागुरुका वा भवेत्। तत्र लघुकस्थानादारब्धा लघुका गुरुकस्थानादारब्धा गुरुका भवति । अत्र च मासलघुकादारव्या अतः सर्वाण्यपि लघूनि द्रष्टव्यानि ।। [भा.५८२०] भिक्खुस्स ततियगहमे, सट्ठाणं होइ दव्वनिफनं ।
भावम्मि उ पडिलोमं, गणि-आयरिय विएमेव ।। कृ-भिक्षोर्द्धितीयवारंवैमासिकाद्वारब्धंछेदेतिष्ठति, तृतीयवरंग्रहणे त्रैमासिकादारब्धं स्वस्थानं' मूलं यावद् नेयम्। एवं द्रव्यनिष्पन्नप्रायश्चित्तमुक्तम्। भावनिष्पन्नं पुनरेतदेव प्रतिलोमं मन्तव्यम्। गणिन आचार्यस्यापि द्रव्य-भावयोरुभयोरप्येवमेव प्रायश्चित्तम् । नवरम्- उपाध्यायस्य द्वैमासिकादारब्धं त्रिभिवारैरनवस्थाप्ये, आचार्यस्य त्रैमासिकादारब्धं त्रिभिवारैः पाराञ्चिके पर्यवस्यति ।गतस्तपोऽसंस्तृतः। अथ ग्लानासंस्तृतमाह[भा.५८२१] एमेव य गेलने, पट्टवणा नवरि तत्थ भिन्नेणं।
चउहि गहमेहि सपदं, कास अगीतत्य सुत्तं तु॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org