________________
उद्देशक: ५, मूलं- १४८, [भा. ५७८३ ]
२८५
भुंजमाणे अन्नेसिं वा दलमाणे राईभोयणपडिसेवणप्पत्ते आवज्जइ चाउम्मासियं परिहारट्ठाणं अनुग्घाइयं ॥
मू. (१४९) भिक्खू य उग्गयवित्तीए अनत्थमियसंकप्पे संथडिए वितिगिंछासमावन्ने असनं वा ४ पडिग्गाहिता आहारं आहारेमाणे जाव अत्रेसिं वा दलमाणे राईभोयणपडि सेवणप्पत्ते आवज्जइ चाउम्पासियं परिहारट्ठाणं अनुग्धाइयं ।।
मू. (१५०) भिक्खू य उग्गयवित्तीए अनत्यमियसंकप्पे असंथडिए निव्वितिगिंच्छे असनं वा ४ पडिगाहित्ता आहारं आहारेमाणे जाव अन्नेसिं वा दलमाणे राईभोयणपडिसेवणप्पत्ते आवज्जइ चाउम्पासियं परिहारद्वाणं अनुग्धाइयं ॥
मू. (१५१) भिक्खू य उग्गयवित्तीए अणत्थमियसंकप्पे असंथडिए वितिगिंच्छासभावत्रे असनं वा ४ पडिगाहिता आहारमाहारेमाणे जाव अन्नेसिं वा दलमाणे राईभोयणपडिसेवणप्पत्ते आवजइ चाउम्पासियं परिहारट्ठाणं अनुग्घाइयं ॥
वृ- अस्य सूत्रचतुष्टयस्य सम्बन्धमाह[मा. ५७८४]
अन्नगणं वञ्चतो, परिनिव्ववितो व तं गणं एंतो । विह संधरेतरे वा गेहे सामाए जोगोऽयं ॥
वृ- अधिकरणं कृत्वाऽनुपशान्तोऽन्यगणं व्रजन् परिनिर्वापितो वा भूयस्तमेव गणं आगच्छन् 'विहे' अध्वनि संस्तरणे इतरस्मिन् वा असंस्तरणे 'श्यामायां' रजन्यामाहारं गृह्णीयात् । एष 'योगः' सम्बन्धः ||
अनेनायातस्यास्य व्याख्या- 'भिक्षु' पूर्ववर्णितः, चशब्दाद् आचार्य उपाध्यायश्च परिगृह्यते, उद्गते आदित्ये वृत्ति-जीवनोपायो यस्य स उद्गतवृत्तिकः; पाठान्तरं वा “उग्गयमुत्तीए "त्ति, मूर्तिः शरीरम्, उद्गते रवौ प्रतिश्रयावग्रहाद् बहि प्रचारवती मूर्तिरस्य इति उद्गतमूर्तिकः, मध्यपदलोपी समासः । अनस्तमिते सूर्ये सङ्कल्पः भोजनाभिलाषो यस्य सोऽनस्तमितसङ्कल्पः । संस्तृतो नाम-समर्थस्तद्दिवसं पर्याप्तभोजी वा । “निव्वितिगिंछे" त्ति विचिकित्सा-चित्तविप्लुति सन्देह इत्येकोऽर्थः, सा निर्गता यस्मात् स निर्विचिकित्सः, उदितोऽनस्तमितो वा रविरित्येवं निश्चयवानित्यर्थः । एवंविधविशेषणयुक्तोऽशनं वा पानं वा स्वादिमं वा स्वादिमं वा प्रतिगृह्य आहारम् 'आहरन्' भुञ्जानोऽथ पश्चादेवं जानीयात् अनुद्गतः सूर्योऽस्तमितो वाः एवं विज्ञाय "से" तस्य यच्च मुखे प्रक्षिप्तं यच्च पाणावुत्पाटितं यच्च प्रतिग्रहे स्थितं तद् 'विविञ्चन् या' परिष्ठापयन् 'विशोधयन् वा' निरवयवं कुर्वन् 'नो' नैव भगवतामाज्ञामतिक्रामति । 'तद्' अशनादिकं आत्मना भुञ्जानोऽन्येषां वा ददानो रात्रिभोजनप्रतिसेवनप्राप्त आपद्यते चातुर्मासिकं परिहारस्थानमनुद्धातिकम् ।
एवमपरमपि सूत्रत्रयं मन्तव्यम् । नवरं द्वितीयसूत्रे - संस्तृतो विचिकित्सासमापन्नश्च यो भुङ्क्ते । विचिकित्सासमापन्नो नाम 'किमुदितोऽनुदितो वा रवि' अथवा 'अस्तमितोऽनस्तमितो वा ? ' इति सन्देहदोलायमानमानसः । एवं भुञ्जानस्यान्येषां वा ददानस्य चतुर्गुरुकम् । तृतीयसूत्रे"असंथडिए"त्ति 'असंस्तृतः' अध्यप्रतिपन्नः क्षपको ग्लानो वा भण्यते, सः 'निर्विचिकित्सः' 'नियमादनुद्गतोऽस्तमितो वा रवि' इत्येवं निसन्देहं जानानो यदि भुङ्क्ते तदापि चतुर्गुरुकम् । शेषं प्रथम सूत्रवत् ॥ चतुर्यसूत्रे असंस्कृतो वचिकित्सासमापन्नश्च यो भुङ्क्ते स आपद्यते चातुर्मासिकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org