________________
२८६
--
--
-
-
बृहत्कल्प-छेदसूत्रम् -३-५/१५१ परिहारस्थानमनुद्धातिकम् । एष सूत्रचतुष्टयार्थः ॥अथ नियुक्तिविस्तरः[भा.५७८५] संथडमसंघडे या, निव्वितिगिच्छे तहेव वितिगिच्छे ।
काले दव्वे भावे, पच्छित्ते मग्गणा होइ॥ वृ.प्रथमं सूत्रं संस्तुते निर्विचिकित्से, द्वितीयं संस्तृते विचिकित्सासमापने, तृतीयसंस्तुते निर्विचिकित्से, चतुर्थमसंस्तृते विचिकित्सासमापने मन्तव्यम् । तत्र प्रथमसूत्रे तावत् त्रिधा प्रायश्चित्तमार्गणा भवति-कालतो द्रव्यतो भावतश्च ॥तत्र कालतस्तावदाह[मा.५७८६] अनुग्गय मणसंकप्पे, गवेसणे गहण भुंजणे गुरुगा।
अह संकियम्मि भुंजति, दोहि विलहु उग्गते सुद्धो।। वृ-अनुद्गतः-नाधायुद्गतो रविरित्येवं निशङ्कितेन मनःसङ्कल्पेन यो भक्त-पानस्य गवेषणं ग्रहणं भोजनं च करोति तस्य चतुर्गुरवः 'द्वाभ्यामपि' तपः-कालाभ्यां गुरुकाः । अशङ्कितेन मनःसङ्कल्पेन भुङ्क्ते ततस्त एव चतुर्गुरुका द्वाभ्यामपि लघवः । उद्गतः सूर्य इति निसन्धिग्धे मनःसङ्कल्पे भुआनः शुद्धः।। [भा.५७८७] अत्यंगयसंकप्पे, गवेसणे गहणे भुंजणे गुरुगा।
अह संकियम्मि भुजइ, दोहि विलहऽनत्यमिए सुद्धो॥ वृ-'अस्तङ्गतोरवि' इत्येवंविधेन सङ्कल्पेन गवेषणे ग्रहणे भोजने च चतुर्गुरुकाः तपसा कालेन च गुरवः । अथ 'अस्तगतोऽनस्तङ्गतो वा' इति शङ्किते भुङ्क्ते ततश्चतुर्गुरुकाः 'द्वाभ्यामपि' तपः-कालाभ्यां लघवः । यः पुनरनस्तमितो रविरित्येवं निसन्दिग्धेन चेतसा भुङ्क्ते स शुद्धः ।।
अथ "उग्गयवित्ती" इत्यादिपदव्याख्यानमाह[मा.५७८८] उग्गयवित्ती मुत्ती, मनसंकप्पेय होंति आएसा ।
एमेव अनत्यमिए, धाए पुन संखडी पुरतो। वृ-उद्गते रवौ वृत्ति-वर्तनं यस्य स उद्गतवृत्ति।पाठान्तरेण 'उद्गतमूर्ति इति वा, उद्गते सूर्ये मूर्ति-शरीरं वृत्तिनिमित्तं बहिः सप्रचारं यस्य स उद्गतमूर्ति । मनःसङ्कल्पे चामी आदेशा भवन्ति-अनुदितमप्यादित्यं यो मनःसङ्कल्पेन उदितं मन्यते स भुञ्जानोऽपि न दोषभाग भवति, यःपुनरुदितेऽपिरवौ 'नाधाप्युदितः' इतिचेतसामन्यमानोभुङ्क्तेससदोषः। एवमेवानस्तमितेऽपि मन्तव्यम् । किमुक्तं भवति?-अस्तमितेऽपिरवौ 'नाद्याप्यस्तङ्गतः' इतिबुध्या भुआनोऽपि न प्रायश्चित्ती, अनस्तमितेऽपिच 'अस्तङ्गतः' इत्यभिप्रायेण भुआनः सदोषः । अथवा-"मनसंकप्पे अहोति आदेस"ति अनुदितमनःसङ्कल्पा-ऽस्तमितमनःसङ्कल्पयोः कतरो गुरुतरो लघुतरो देति चिन्तायांद्वावादेशौ भवतः, तौचोत्तरत्राभिध्यास्येते।अनुदितेऽस्तमिते वा कथं ग्रहणं सम्भवति? इत्याह-“घातेपुन संखडीपुरतो" त्तिध्रातंसुभिक्षमिति चैकोऽर्थः, तत्र सङ्खडी सम्भवति ।साच द्विधा-पुरःसङ्घडी पश्चात्सङ्खडी च । तत्र पूर्वाह्ने या क्रियते सा पुरःसङ्घडी, अपराले तु क्रियमाणा पश्चात्सङ्खडी । इह पुनरनुदिते रवौ पुरःसङ्घडी, पुनःशब्दग्रहणाद् अस्तमिते पश्चात्सङ्घडीति ॥ [भा.५७८९] सूरे अनुग्गतम्मिं, अनुदित उदिओ व होति संकप्पो।
एवं अस्थमियम्मि वि, एगतरे होति निस्संको॥ वृ-सूर्येऽनुद्गतेऽनुदितसङ्कल्प उदितसङ्कल्पो वा भवेत्, उपलक्षणं चैतत्, उदितेऽप्यनुदित
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only