SearchBrowseAboutContactDonate
Page Preview
Page 1334
Loading...
Download File
Download File
Page Text
________________ ___२८३ उद्देशक : ५, मूलं-१४७, [भा. ५७७५] वृ-एवमेवगणिन आचार्यस्य चमन्तव्यम्।नवरम्-उपाध्यायस्यानुपशाम्यतो गच्छे वसतस्त्रीन् पक्षान् तपः प्रायश्चित्तम्, परतश्छेदः; आचार्यस्यानुपशाम्यो द्वौ पक्षौ तपः, परतश्छेदः । शिष्यः पृच्छति-किं सध्शापराधे विषमं प्रायश्चित्तं प्रयच्छथ राग-द्वेषिणो यूयम् ? । आचार्य प्राहकुमारदृष्टान्तोऽत्रभवति, सचोत्तरत्राभिधास्यते॥येते उपाध्यायस्य त्रयः पक्षास्ते दिवसीकृताः पञ्चचत्वारिंशद्दिवसा भवन्ति, ततः[भा.५७७६] पणयाल दिना गणिणो, चउहा काऊण साहिएक्कारा । भत्तट्ठण सन्झाए, वंदन लावे यहावेति॥ वृ-गणिनः सम्बन्धिनः पञ्चचत्वारिंशद् दिवसाश्चतुर्धा क्रियन्ते, चतुर्भागेच साधिकाः-सपादा एकादश दिवसा भवन्ति । तत्र गच्छ उपाध्यायेन सममेकादश दिनानि भक्तार्थनं करोति, एवं स्वाध्याय-वन्दना-ऽऽलापानपि प्रत्येकमेकादश दिनानि यथाक्रमं करोति, परतस्तु परिहापवति। पञ्चचत्वारिंशदिवसानन्तरंचोपाध्यायस्य दशकच्छेदः ।आचार्यस्तथैवोपाध्यायमपि चतुर्भिश्चतुभिसिर्भक्तार्थनादीनि परिहापयन् संवत्सरं सारयति ।। आचार्यस्य द्वौ पक्षौ दिवसीकृतौ त्रिंशद् दिवसा भवन्ति, ततः[भा.५७७७) तीस दिने आयरिए, अद्धह दिने यहावणा तत्थ । गच्छेण चउपदेहि तु, निच्छूढे लग्गती छेदो॥ वृ-त्रिंशदिवसाश्चतुर्भागेन विभक्ता अर्धाष्टमा दिवसा भवन्ति । तत्र गच्छ आचार्येण सहाष्टिमानि दिनानि भक्तार्थनं करोति, एवं स्वाध्याय-वन्दना-ऽऽलापानपि यथाक्रममर्धाष्टमैर्दिवसैःप्रत्येकं हापयति । ततः परं गच्छेन चतुर्भिरपि-भक्तार्थनादिभिः पदैनिष्काशित आचार्य पञ्चदशके च्छेद लगति । ततः[भा.५७७८] संकेतो अन्नगणं, सगणेण य वजितो चतुपदेहिं। आयरिओ पुन नवरिं, वंदन-लावेहि नं सारे । वृ- स्वगणेन भक्तार्थनादिभिश्चतुर्भिः पदैर्यदा वर्जितस्तदा अन्यगणं सङ्क्रान्तः । स पुनरन्यगणस्याचार्य 'नवरं' केवलं वन्दना-ऽऽलापाभ्यां द्वाभ्यां पदाभ्यां सम्भुञ्जानः सारयति यावद् वर्षम् ॥ [भा.५७७९] सज्झायमाइएहि, दिने दिने सारणा परगणे वि । नवरं पुन नाणत्तं, तवो गुरुस्सेतरे छेदो॥ वृ-परगणेऽपि सङ्क्रान्तस्याचार्यस्य स्वाध्यायादिभि पदैर्दिने दिने सारणा क्रियते । नवरं परगणे सङ्क्रान्त्येदं 'नानात्वं' विशेषः-अन्यगणसत्कस्य गुरोरसारयतस्तपः प्रायश्चित्तम्, 'इतरस्य पुनः अधिकरणकारिणआचार्यस्यानुपशाम्यतश्छेदः ॥अत्रपरः प्राह-रागद्वेषिणे यूयम्, आचार्य शीघ्रं छेदं प्रापयथ, उपाध्यायं बहुतरेण कालेन, भिटुंततोऽपि चिरतरेण, एवं हि भिक्षूपाध्याययोर्भवतां रागः आचार्ये द्वेषः । अत्र सूरि प्रागुटिष्टं कुमारदृष्टान्तमाह[भा.५७८०] सरिसावराधेदंडो, जुवरन्नो भोगहरण-बंधादी। मज्झिम बंध-वहादी, अवत्ति कन्नादि खिंसा वा ॥ वृ- एगस्स रन्नो तिन्नि पुत्ता-जेडो मज्झिमो कनिट्ठो य । तेहि य तिहि वि सामच्छियं- पितरं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy