________________
२८२
बृहत्कल्प-छेदसूत्रम् -३.५/१४७
[भा.५७७०] एवं बारस मासे, दोसु तवो सेसए भवे छेदो।
परिहायमाण तद्दिवस तवो मूलं पडिक्कते॥ वृ-एवं द्वादशमास्यामप्यनुपशाम्यतः 'द्वयोः' आदिममासयोर्यावद् गच्छेन विसर्जितः तावत् तपः प्रायश्चित्तमेव, शेषेषु' दशसुमासेषुपञ्चरात्रिन्दिवच्छेदः यावत् सांवत्सरिकं पर्वप्राप्तं भवति। पर्युषणारात्रौ प्रतिक्रान्तानामधिकरणे उत्पन्ने एष विधिरुक्तः । “परिहायमाण तद्दिवस" त्ति पर्युषणापारणकदिनादेकैकदिवसेन परिहीयमानेन तावद् नेयं यावत् 'तद्दिवस' पर्युषणादिवस एवाधिकरणमुत्पन्नं तत्र च तपो मूलं वा भवति न च्छेदः । “पडिक्कते" त्ति अथ प्रतिक्रमणं कुर्वतामुत्पन्नं ततः सांवत्सरिके कायोत्सर्गे कृते मूलमेव केवलं भवति ।। एतदेव सुव्यक्तमाह[भा.५७७१] एवं एक्वेक्कदिने, हवेत्तु ठवणादिणे वि एमेव ।
चेइयवंदन सारे, तम्मि वि काले तिमासगुरू । वृ-भाद्रपदशुद्धपञ्चम्यां अनुदित आदित्ये यद्यधिकरणमुत्पद्यतेतः पर्युषणायामप्यनुपशान्ते संवत्सरो भवति, षष्ट्यामुत्पन्ने एकदिवसोनः संवत्सरः, सप्तम्यां दिवसद्वयोनः, एवमेकैकं दिनं हापयित्वा तावद् नेयं यावत् स्थापनादिन-पर्युषणादिवसः । तत्र चानुदिते रवौ कलहे उत्पन्ने एवमेव नोदना कर्तव्या-प्रथमस्वाध्यायप्रस्थापनं कर्तुकामैः सारणीयः, ततश्चैत्यवन्दनार्थं गन्तुकामाः सारयेयुः, तत्राप्यनुपशान्ते प्रतिक्रमणवेलायां सारयन्ति । एवं तस्मित्रपि पर्युषणाकालदिवसे त्रिषु स्वाध्यायप्रस्थापनादिषु स्थानेषु नोदितस्यानुपशान्तस्य त्रीणि मासगुरुकाणि भवन्ति ॥ [भा.५७७२] पडिकंते पुन मूलं, पडिक्कमंते व होज्ज अधिकरणं ।
संवच्छरमुस्सग्गे, कयम्मि मूलं न सेसाइं। वृ-पर्युषणादिनेसर्वेषामधिकरणानां व्यवच्छित्तिकर्तव्येति कृत्वा प्रतिक्रान्ते समाप्तेआवश्यके यदि नोपशान्तस्ततो मूलम् । “पडिक्कमंते व” त्ति अथ प्रतिक्रमणे प्रारब्धे यावत् सांवत्सरिको महाकायोत्सर्गस्तावद् अधिकरणे कृते मूलमेव केवलम्, न शेषाणि प्रायश्चित्तानि ॥ [भा.५७७३] संवच्छरंच रु8, आयरिओ रक्खए पयत्तेण।
जति नाम उवसमेजा, पव्वयरातीसरिसरोसो॥ कृ-एवमाचार्यस्तंरुष्टंसंवत्सरंप्रयत्नेन रक्षति। किमर्थम्? इत्याह-'यदि नाम' कथञ्चिदुपशाम्येत अथ संवत्सरेणापि नोपशाम्यति ततः पर्वतराजीसद्दशरोषः समन्तव्यः ।।
तस्य च वर्षादूचं को विधिः? इत्याह[भा.५७७४] अन्ने दो आयरिया, एक्ककं वरिसमेत्तमेअस्स।
तेन परं गिहि एसो, बितियपदं रायपव्वइए ।। वृ-तं वर्षादूर्ध्वं मूलाचार्यसमीपाद् निर्गतमन्यौ द्वावाचार्यो क्रमेणैकैकं वर्षमेतेनैव विधिना प्रयलेन संरक्षतः, तन्मध्याद् येनोपशमितस्तस्यैवासौ शिष्यः । ततः परं' वर्षत्रयादूर्ध्वमेष गृही क्रियते, सङ्घस्तदीयं लिङ्गमपहरतीत्यर्थः । द्वितीयपदे राजप्रव्रजितस्य लिङ्गं प्रस्तरदोषभयान लियते। एवं भिक्षोरुक्तम्॥ [भा.५७७५] एमेव गणा-ऽऽयरिए, गच्छम्मितवो उ तिनि पक्खाई।
दो पक्खा आयरिए, पुच्छा य कुमारदिर्सेतो ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org