________________
उद्देशक : ५, मूलं-१४७, [भा. ५७६४]
२८१ सर्वेऽपि समुद्दिशन्ति । तस्य पुनस्तृतीयं मासगुरु । भूयोऽपि प्रतिक्रमणवेलायां भणन्ति-आर्य ! साधवो न प्रतिक्रामन्ति, उपशमं कुरु । स वष्टोत्तरं प्रत्याह-'नुः' इति वितर्के, सम्भावयाम्यहम्निरतीचाराःश्रमणास्तेन न प्रतिक्रामन्ति। एवमुक्तेसर्वेऽपिप्रतिक्रामन्ति । तस्य पुनश्चतुर्गुरुकम्। एवं प्रभातकाले अधिकरणे उत्पन्ने विधिरुक्तः ।। [भा.५७६५] अन्नम्मि वि कालम्मिं, पढंत हिंडंत मंडली वासे ।
तित्रि व दोन्नि व मासा, होति पडिक्कंते गुरुगा उ ।। वृ.अथान्यस्मिन् कालेऽधिकरणमुत्पन्नम् । कदा? इत्याह-'पठतां' हीना-ऽधिकादिपठने भिक्षां हिण्डमानानां मण्डल्यांवा समुद्दिशतामावश्यकेवा। तत्र यदि द्वितीयवेलायामधिकरणमुत्पन्न तदा चतुर्थवेलायामनुपशान्तस्य त्रयो गुरुमासाः, तृतीयवेलायामुत्पत्रेऽनुपशान्तस्य द्वौ गुरुमासौ, एवं विभाषा कर्तव्या अथ 'प्रतिक्रान्ते' प्रतिक्रमणे कृतेऽपि नोपशान्तस्ततश्चतुर्गुरुकाः।। [भा.५७६६] एवं दिवसे दिवसे, चाउकालं तु सारणा तस्स।
जति वारे न सारेती, गुरुगो गुरुगो तती वारे॥ वृ-एवमनुपशान्तस्य दिवसे दिवसे 'चतुष्कालं' स्वाध्यायप्रस्थापनादिसमयरूपं तस्य सारणा कर्तव्या । 'यति' यावतो वारान् आचार्यो न सारयति 'तति' तावतो वारान् मासगुरुकाणि भवन्ति ।। [भा.५७६७] एवं तुअगीतत्थे, गीतत्थे सारिए गुरू सुद्धो।
जति तं गरून सारे, आवत्ती होइ दोण्हं पि ।। वृ-एवं दिने दिने सारणाविधिरगीतार्थस्य कर्तव्यः । यस्तुगीतार्थस यद्येकंदिनं स्वाध्यायभिक्षाभक्तार्थना-ऽऽवश्यकलक्षणेषु चतुर्युस्थानेषु सारितः तदा परतस्तमसारयन्नपि गुरु शुद्धः । यदि पुनः ‘तम्' अगीतार्थ गीतार्थं वा गुरुन सारयति ततः 'द्वयोरपि' आचार्यस्यानुपशाम्यतश्च प्रायश्चित्तस्यापत्ति।अन्ये ब्रुवते-अगीतार्थस्यानुपशाम्यतोऽपि नास्ति प्रायश्चित्तम्, यस्तु गुरुरगीतार्थं न नोदयति तस्य प्रायश्चित्तम् ।। [भा.५७६८] गच्छो य दोनि मासे, पक्खे पक्खे इमं परिहवेति।
भत्तट्टण सज्झायं, वंदन लावं ततो परेणं ।। वृ-एवमनुपशाम्यन्तं तं गच्छो द्वौ मासौ सारयति, इदं पुनः पक्षे पक्षे परिहापयति । तद्यथाअनुपशान्तस्य पक्षे गते गच्छस्तेन सार्द्ध भक्तार्थनं न करोति, न गृह्णाति वा न वा किमपि तस्य ददातीत्यर्थः । द्वितीये पक्षे गते स्वाध्यायं तेन समंन करोति ।तृतीये पक्षे गते वन्दनं न करोति न वा प्रतीच्छति । चतुर्थोऽपि पक्षो यदा गतो भवति ततः परमालापमपि तेन सार्द्ध वर्जयन्ति । [भा.५७६९] आयरिय चउरो मासे, संभुंजति चउरो देइ सज्झायं ।
वंदन लावं चउरो, तेन परं मूल निच्छुहणा॥ वृ-आचार्य पुनश्चतुरोमासान् सर्वैरपिप्रकारेस्तेन समंसम्भुङ्केततः परं चतुरोमासान् भक्तार्थनं वर्जयति स्वाध्यायं तु ददाति । ततश्चतुरो मासान् स्वाध्यायं परिहत्य वन्दना-ऽऽलापौ ददाति । ततः परं वर्षे पूर्फे सांवत्सरिके प्रतिक्रान्ते उपशान्तस्य मूलम्, अनुपशान्तस्य तुगणाद् निष्काशनं कर्तव्यम्॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org