________________
२८०
बृहत्कल्प-छेदसूत्रम् -३-५/१४७
एवं हि स्वगणे भवतां रागः परगणे द्वेषः । गुरुराह-इदं छेदनानात्वं कुर्वन्तो वयं न राग-द्वेषिणः । तथा चात्र दृष्टान्तः- एगस्स गिहिणो चउरो भज्जाओ । तातो य तेन सरिसे अवराहे पंतावित्ता 'मम गिहा ओ नीह' ति निच्छूढा । तत्थेगा कम्हिइ परघरम्मि गया । बिइया कुलधरं । तईया 'भत्तुणो एगसरीरो वयंसो ' त्ति तस्स घरं गया । चउत्थी निच्छुभंती बारसाहाए लग्गा हम्ममाणी विन गच्छइ, भणई य-कतो वच्चामि ? नत्थि मे अन्नो गइविसओ, जड़ वि मारेसि तहावि तुमं चेव गई सरणं ति तत्थेव ठिया ॥
इदमेवाह-“पंतावण” इत्यादि । केनापि गृहिणा चतसृणां भार्याणां 'प्रान्तापनं' कुट्टनं कृत्वा गृहाद् निष्काशनं कृतम् । तत्रैका परगृहं द्वितीया कुलगृहं तृतीया 'घाटिकः' मित्रं तद्ध हंता, चतुर्थी तु न कापि गता । तओ तुद्वेण चउत्थी घरसामिणी कया । तइयाए घाडियघरं जंतीए सो चेव अनुवत्तितो, विगतरोसेण खरंटिता आणिता य। बिइयाए कुलघरं जंतीए पिउगिहब्लं गहियं, गाढतरं रुद्वेण अन्नेहिं भणिए विगतरोसेण खरंटिता दंडिया य । पढमा 'दूरे नट्ट त्ति न ताए किंचिप ओयण' महंतेन वा पच्छिदंडेण दंडिउं आणिजइ । एवं परट्ठाणीया ओसना, कुलघरठाणीया अन्नसंभोइया, गाडियसभा संभोइया, अनिग्गमे सघरसमो सगच्छो । जाव दूरतरं ताव महंततरो दंडो भवइ || अथ गच्छादनिर्गतस्य विधिमाह
[ भा. ५७६२] गच्छा अनिग्गयस्सा, अनुवसमंतस्सिमो विही होइ । सज्झाय भिक्ख भत्तट्ठ वासए चउर एक्केके ।।
वृ- गच्छादनिर्गतस्यानुपशाम्यतोऽयं विधिर्भवति-सूर्योदयकाले यः स्वाध्यायः क्रियते तदवसरे प्रथममसी नोद्यते द्वितीयं भिक्षावतरणवेलायाम्, तृतीयं भक्तार्थनाकाले चतुर्थं प्रादोविकावश्यकवेलायाम् । एवं चतुरो वारानेकैकस्मिन् दिने नोद्यते ॥ तच्चाधिकरणं प्रभाते प्रतिक्रान्तानां स्वाध्यायेऽप्रस्थापिते एवमादौ कारणे उत्पद्येत
[भा. ५७६३] दुप्पडिलेहियमादिसु, चोदिए सम्मं तु अपडिवज्रंते । न वि पट्टवेंति उवसम, कालो न सुद्धो जियं वा सिं ॥
वृ- दुष्प्रत्युपेक्षितं कुर्वन् आदिशब्दाद् अप्रत्युपेक्षमाणोऽसामाचार्या वा प्रत्युपेक्षमाणो नोदितः सम्यग् यदि न प्रतिपद्यते ततोऽधिकरणं भवेत् । उत्पन्ने चाधिकरणं यदि स्वाध्यायेऽप्रस्थापिते स्वयमेवोपशान्तस्ततो लष्टम् । अथन नोपशान्तस्ततो यः प्रस्थापनार्थमुपतिष्ठते स वारणीयः, यथा-तिष्ठतु तावद् यावत् सर्वेऽपि मिलिताः । तत आगतेषु सर्वेषु सूरयो ब्रुवते - आर्य ! उपशाम्य, इमे साधवः स्वाध्यायं न प्रस्थापयन्ति । स वष्टोत्तरं प्रयच्छति - अवश्यं कालो न शुद्धः परिजितं वा एषां साधूनां सूत्र श्रुतं ततो न प्रस्थापयन्ति । एवं भणतो मासगुरु! साधवश्च सर्वेऽपि प्रस्थापयन्ति स्वाध्यायं च कुर्वन्ति ॥ काले प्रतिक्रान्ते भिक्षावेलायां जातायामिदमाचार्या भणन्ति
[मा. ५७६४ ] नोत्तरणे अभतट्ठी न व वैला अभुंजणे न जिन्नं सिं । न पडिक्कमंति उवसम, निरती यारा नु पच्चाह ।
वृ- आर्य! साधवस्त्वदीयेनानुपशमनेन भिक्षां नावतरन्ति । स प्राह नूनमभक्तार्थिनो न वा भिक्षावेला । एवमुक्ते सर्वेऽप्यवतरन्ति । तस्यानुपशान्तस्य द्वितीयं मासगुरु । भिक्षानिवृत्तेषु साधुषु गुरवो भणन्ति - आर्य ! साधवो न भुञ्जते । स प्राह- नूनं साधूनां न जीर्णम् । एवमुक्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org