________________
उद्देशक : ५, मूलं-१४७, [भा. ५७५६]
२७९
[मा.५७५६] अन्नगणे भिक्खुस्सा, दसेव राइंदिया भवे छेदो।
पन्नरस अहोरत्ता, गणि आयरिए भवे वीसा॥ वृ. अन्यगणे साम्भोगिकेषु सङ्क्रान्तस्य भिक्षोर्दशरात्रिन्दिवच्छेदः, उपाध्यायस्य पञ्चदशरात्रिन्दिवः,आचार्यस्य विंशतिरात्रिन्दिवः । एवमन्यसाम्भोगिकेषुअवसन्नेषुच प्रागुक्तानुसारेण नेयम् ।।अथैवं प्रतिदिनं छिद्यमाने पर्याये पक्षण कियन्तो मासा अमीषांछिद्यन्ते? इति जिज्ञासायां छेदसङ्कलनामाह[भा.५७५७] अड्डाइज्जा मासा, पक्खे अट्ठहि मासा हवंति वीसंतू।
पंच उ मासा पक्खे, अट्ठहि चत्ता उभिक्खुस्स। वृ-स्वगणेसङ्क्रान्तस्य भिक्षोः प्रतिदिनंपञ्चकच्छेदेनच्छिद्यमानस्यपर्यायस्यपक्षणअर्द्धतृतीया मासाश्छिद्यन्ते । तथाहि-पक्षे पञ्चदश दिनानि भवन्ति, तैः पञ्च गुण्यन्ते चाटी स्पर्धकानि, तेषु पक्षे पक्षे सञ्चरतः पञ्चकभिर्गुणितं जातानि षट् शतानि, तेषां त्रिंशता भागे हृते विंशतिर्मासा लभ्यन्ते । एवमुत्तरत्रपि गुणकार-भागाहारप्रयोगेण स्वबुध्या उपयुज्यमासा आनेतव्याः । परगणे सङ्क्रान्तस्य भिक्षोर्दशकेनछेदेनच्छिद्यमानस्य पर्यायस्य पक्षेण पञ्च मासाश्छिद्यन्ते, दशकेनैव च्छेदेनाष्टभि पक्षैश्चत्वारिंशद् मासाश्छिद्यन्ते । एवं भिक्षोरुक्तम् । उपाध्यायस्य पुनरिदम्[भा.५७५८] पंच उ मासा पक्खे, अट्ठहि मासा हवंति चत्ता उ ।
अद्धऽढ़ मास पक्खे, अट्ठहि सर्टि भवे गणिणो॥ - उपाध्यायस्यापि स्वगणे दशकेन च्छेदेन पक्षेण पञ्च मासाः, अष्टभिः पक्षश्चत्वारिंशद मासाश्छिद्यन्ते। तस्यैव परगणे पञ्चदशकेनच्छेदेनार्धाष्टममासाः पक्षणच्छिद्यन्ते। परगणएवाष्टभिः पक्षैः षष्टिमासा गणिनश्छिद्यन्ते ।। [भा.५७५९] अद्धट्ठ मास पक्खे, अट्टहि मासा हवंति सद्धिं तु ।
दस मासा पक्खेणं, अट्ठहऽसीती उ आयरिए। वृ-आचार्यस्य स्वगणे सङ्क्रान्तस्य पञ्चदशकेनच्छेदेनच्छिद्यमाने पर्याये पक्षणाष्टिमासाः, अष्टभिः पक्षैः षष्टिासाश्चिद्यन्ते । तस्यैव परगणे सङ्क्रान्तस्य विशेन च्छेदेन पक्षण दश मासाः अष्टभिः पक्षरशीतिर्मासाश्छिद्यन्ते।। एवं स्वगणेपरगणेच साम्भोगिकेषु सङ्क्रान्तस्यच्छेदसङ्कलनाऽभिहिता । अन्यसाम्भोगिकेषु अवसन्नेषु च सङ्क्रान्तस्य भिक्षोरुपाध्यायस्याचार्यस्य चानयैव दिशा छेदसङ्कलना कर्तव्या[भा.५७६०] एसा विही उनिग्गए, सगणे चत्तारिमास उक्कोसा।
चत्तारि परगणम्मिं, तेन परं मूल निच्छुभणं॥ वृ-एष विधिगच्छाद् निर्गतस्योक्तः ।अत्रचस्वगणेऽष्टसु स्पर्द्धकेषु पक्षे पक्षे सञ्चरतश्चत्वारो मासा उत्कर्षतो भवन्ति, परगणेऽप्येवं चत्वारोमासाः, अवसन्नेष्वपि चत्वारोमासाः। ततः परं यदि उपशान्तस्ततोमूलम्।अथ नोपशान्तस्तदा निष्काशनं कर्तव्यम्, लिङ्गमपहरणीयमित्यर्थः। [भा.५७६१] चोएइ राग-दोसे, सगण परगणे इमं तु नाणतं ।
पंतावण निच्छुभणं, पर-कुलधर घाडिए न गया। वृ-शिष्यः प्रेरयति-राग-द्वेषिणो यूयम्, यत् स्वगणेस्तोकंछेदप्रायश्चित्तं दत्तपरगणे तुप्रभूतम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org