________________
२७८
बृहत्कल्प-छेदसूत्रम् -३-५/१४७ निर्गमनं करोति ततो निर्गतस्य तस्य स्वगणे परगणे च प्रत्येकमष्टी स्पर्द्धकानि वक्ष्यमाणानि भवन्ति ॥खर-परुष-निष्ठुरपदानि व्याख्याति[भा.५७५१] उच्चं सरोस भणियं, हिंसग-मम्मवयणं खरंतंतू।
अक्कोस निरुवचारिं, तमसमं निवरं होती ।। वृ-'उच्चं महता स्वरेण सरोषं यद् भणितं हिंसकं मर्मघट्टनवचनं वा तत् तु खरं मन्तव्यम् । जकारादिकं यद् आक्रोसवचनं यच्च निरुपचारि' विनयोपचाररहितं तत्परुषम् । यद् ‘असभ्यं' सभाया अयोग्यं कोलिकस्त्वम्' इत्यादिकंवचनं तनिष्ठुरंभण्यते॥ईशानि भणित्वा गच्छाद् निर्गतस्याचार्य प्रायश्चित्तविभागं दर्शयितुकाम इदमाह[भा.५७५२] अट्ठऽह अद्धमासा, मासा होतऽ असु पयारो।
वासासुअसंचरणं, न चेव इयरे वि पेसंति॥ वृ- स्वगणे यान्याचार्यसत्कानि अष्टौ स्पर्धकानि तेषु पक्षे पक्षे अपरापरस्मिन् स्पर्द्धके संचरतोऽष्टावर्द्धमासा भवन्ति, परगणसत्केष्वप्यष्टसुस्पर्द्धकेषुपक्षेपक्षे संचरतोऽष्यावर्द्धमासाः, एवमुभयेऽपि मीलिता अष्टौ मासा भवन्ति । अष्टसुच ऋतुबद्धमासेषु साधूनां प्रचारः' विहारो भवतीति कृत्वा अष्टग्रहणं कृतम् । वर्षासु चतुरो मासान् तस्याधिकरणकारिणः साधोः संचरणं नास्ति, वर्षाकाल इति कृत्वा । इतरेऽपि' येषां स्पर्द्धके सान्तस्तेऽपितं प्रज्ञाप्य वर्षावास इति कृत्वा यतो गणादागतस्तत्र न प्रेषयन्ति । तत्र यानि स्वगणेऽष्टौ स्पर्द्धकानि तेषु सङ्क्रान्यस्य तैः स्वाध्याय-भिक्षा-भोजन-प्रतिक्रमणवेलासु प्रत्येकं सारणा कर्तव्या-आर्य ! उपशमं कुरु । यदि एवंन सारयन्ति ततो मासगुरुकम् ॥ तस्य पुनरनुपशाभ्यत इदं प्रायश्चित्तम्[भा.५७५३] सगणम्मि पंचराइंदियाइंदस परगणे मणुनेसू ।
अनेसु होइ पनरस, वीसा तु गयस्स ओसन्ने ।। वृ- स्वगणस्पर्द्धकेषु सङ्क्रान्तस्यानुपशाम्यतो दिवसे दिवसे पञ्चरात्रिन्दिवच्छेदः । परगणे 'मनोज्ञेषु' साम्भोगिकेषु सङ्क्रान्तस्य दशरात्रिन्दिवः, अन्यसाम्भोगिकेषु पञ्चदशरात्रिन्दिवः । अवसन्नेषुगतस्य विंशतिरात्रिन्दिवच्छेदः ।।एवं भिक्षोरुक्तम्।अथोपाध्याया-ऽऽचार्ययोरुच्यते[भा.५७५४] एमेव य होइ गणी, दसदिवसादी उ भिन्नमासंतो।
पन्नरसादी तु गुरू, चतुसु वि ठाणेसुमासंतो॥ वृ- एवमेव 'गणिनः' उपाध्यायस्यापि अधिकरणं कृत्वा परगणं सङ्क्रान्तस्य मन्तव्यम् । नवरम्- दशरात्रिन्दिवमादौ कृत्वा भिन्नमासान्तस्तस्य च्छेदः । एवमेव 'गुरोरपि' आचार्यस्य 'चतुर्यु' स्वगण-परगण साम्भोगिका- ऽन्यसाम्भोगिका-ऽवसन्नेषु पञ्चदशरात्रिन्दिवादिको मासिकान्तश्छेदः ॥ एतत् पुरुषाणां स्वगणादिस्थानविभागेन प्रायश्चित्तमुक्तम् । अथैतेष्वेव स्थानेषु पुरुषविभागेन प्रायश्चित्तमाह[भा.५७५५] सगणम्मि पंचराइंदियाई भिक्खुस्स तद्दिवस छेदो।
दस होति अहोरत्ता, गणि आयरिए य पन्नरस ।। वृ- स्वगणे सङ्क्रान्तस्य भिक्षोस्तद्दिवसादारभ्य दिने दिने पञ्चरात्रिन्दिवच्छेदः । 'गणिनः' उपाध्यायस्य दशरात्रिन्दिवः । आचार्यस्य पञ्चदशरात्रिन्दिवः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org