SearchBrowseAboutContactDonate
Page Preview
Page 1326
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ५, मूलं-१४६, [भा. ५७१९] २७५ क्षणे उत्पद्यन्ते व्ययन्तेच, यत एवमतः सज्जने' सुसाधुजनसमूहरूपे जने वसेदिति। एते गुणागच्छे वसतामुक्ताः॥एवं गच्छनिर्गतस्य प्रस्तुतसूत्रसम्भव उक्तः । सम्प्रति गच्छान्तर्गतस्य तमाह[भा.५७२०] अहवा निग्गयस्सा, भिक्ख वियारे य वसहि गामे य । ___ जहि ठाणे साइज्जति, चउगुरु बितियम्मि एरिसगो॥ वृ-'अथवा' इति न केवलं गच्छाद् निर्गतस्य प्रायश्चित्तं किन्तुगच्छादनिर्गतस्यापि भिक्षाचर्यां विचारभूमिं वा गतस्य वसतौ वा तिष्ठतो ग्रामबहिर्वा यत्र स्थाने देवः स्त्रीरूपेण निर्ग्रन्थं गृह्णाति तत्र वद्यसौ स्यादयति तदा तस्यापि चतुर्गुरु । एतावता प्रथमसूत्रं व्याख्यातम् । द्वितीयसूत्रेऽपि यत्र देवी स्त्ररूपं विकुळ निर्ग्रन्थं गृह्णीयादित्युक्तं तत्राऽपीश एव गमः ।। अथ निर्ग्रन्थीसूत्रद्वयं व्याख्याति[भा.५७२१] एसेव गमो नियमा, निग्गंथीणं पिहोइ नायव्यो । नवरं पुन नाणतं, पुव्वं इत्थी ततो पुरिसो॥ वृ- एष एव गमो निर्ग्रन्थीनामपि ज्ञातव्यः । नवरमत्र नानात्वम्-पूर्वं "देवी य पुरिसरूवं विउव्वित्ता निर्गथिं पडिगाहेजा" इति स्त्रसूत्रम्, ततः "देवे य पुरिसरूवं” इत्यादिकं द्वितीयं पुरुषसूत्रम्। अनयोरपि सम्भवो धर्मकथादिभिव्याघतिर्गणा निर्गमने तथैव मन्तव्यो यावत्ता अप्यार्यिका देवकुलिकायां स्थिताः ॥ ततः[भा.५७२२] विगुरुविऊण रूवं, आगमनं डंबरेण महयाए। जिन-अज-साहुभत्ती, अज्जपरिच्छा विय तहेव ।। वृ-सम्यग्दृष्टिदेवतायाः पुरुषरूपंविकुळ आगमनम् । ततो महता आडम्बरेण देवकुलिकायाः पार्वे सार्थमावास्य मायया श्राद्धवेषं विधाय वन्दनकं विस्तरेण कृत्वा भणति-युष्माभिः काचित् पुराणिका संयती वा विषयपराजिता दृष्टा? युष्माकंवायद्यर्थस्ततो भोगान् भुञ्जीमहि, भुआनाश्च जिनचैत्यानामार्यिकाणांसाधूनां च भक्ति करिष्यामस्ततो निस्तरिष्यामः । एवमार्यापरीक्षाऽपि तथैव मन्तव्या यथा निर्ग्रन्थानामुक्ता ।। अथ किमर्थं निर्ग्रन्थेषु प्रथमं देवसूत्रं निर्ग्रन्धीषु च प्रथमं देवीसूत्रम् ? इत्याह[भा.५७२३] वीसत्यया सरिसए, सारुप्पं तेन होइ पढमंतु। पुरिसुत्तरिओ धम्मो, निग्गंथो तेन पढमं तु ।। वृ. 'सशे' स्वपक्षजातौ 'विश्वस्तता' विश्वासो भवति तेन प्रथममुभयोरपि पक्षयोः सारूप्यसूत्रमभिहितम् । 'पुरुषोत्तरो धर्म' इति कृत्वा च प्रथमं निर्ग्रन्थानां सूत्रद्वयमुक्तम्, ततो निर्ग्रन्थीनाम् ॥ एतेषु विशेषतो विराधनामाह[भा.५७२४] खित्ताइ मारणं वा, धम्माओ भंसणं करे पंता। भद्दाए पडिबंधो, पडिगमनादी व निंतीए॥ वृ-या प्रान्तदेवता सातंसाधुंप्रतिसेवनापरिणतं क्षिप्तचित्तादिकं कुर्यात्, मारणं धर्माद् भ्रंशनं वा कुर्वीत । या भद्रा तस्यामसौ प्रतिबन्धं कुर्यात्, निर्गच्छन्त्यां वा तस्यां प्रतिगमनादीनि स विदधीत ।। अत्रेदं द्वितीयषदम् [भा.५७२५] बितियं अच्छित्तिकरो, बहुवक्खेवेगणम्मि पुच्छित्ता। Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy