________________
२७४
बृहत्कल्प - छेदसूत्रम् -३-५/१४६
च सारणादिना स्थिरतरो भवति, अत एव 'धन्याः ' धर्मधनं लब्धारः शिष्या गुरुकुलवासं 'यावत्कथया' यावज्जीवं न मुञ्चन्ति । किञ्च
[ भा. ५७१४]
मीतावास र धम्मे, अनाययणवज्रणा । निग्गहो य कसायाणं, एवं धीराण सासनं ॥
वृ- गच्छे 'मीतावासो भवति' आचार्यादिभयमीतैः सदैवाऽऽसितव्यम्, न किमप्यकृत्यं प्रतिसेवितुं लभ्यत इति भावः । 'धर्मे च' वैयावृत्य-स्वाध्यायादिरूपे रतिर्भवति, 'अनायतनस्य च' स्त्रीसंसर्गप्रभृतिकस्य वर्जनं भवति, कषायाणां चोदीर्णानां आचार्यादीनामनुशिष्टया 'निग्रहः ' विध्यापनं भवति । 'धीराणां' तीर्थकृतामेतदेव 'शासनम्' आज्ञा, यथा- गुरुकुलवासो न मोक्तव्यः ।
अपि च[भा. ५७१५]
जइमं साहुसंगिंग, न विमोक्खसि मोक्खसि । उज्जतो व ते नियं, न होहिसि न होहिसि ।
- यदि एनां साधुसंसर्गि 'न विमोक्ष्यसि' न परित्यक्ष्यसि ततः 'मोक्ष्यसि ' मुक्तो भविष्यसि । यदिच 'तपसि' अनशनादौ सुखलम्पटतया नोद्यतो भविष्यसि ततोऽव्याबाधसुखी न भविष्यसि । [भा. ५७१६] सच्छंदवत्तिया जेहिं, सग्गुणेहिं जढा जढा ।
अप्पणी ते परेसिं च, निच्चं सुविहिया हिया ।।
वृ-यैः साधुभिः स्वच्छन्दवर्तिता 'जढा' परित्यक्ता । कथम्भूता ? सद्भि-शोभनैर्ज्ञानादिभिर्गुणैः 'जढा' रहिता, आत्मनः 'परेषांच' षण्णां जीवनिकायानां नित्यं ते सुविहिता हिता इति प्रकटार्थम् । [भा. ५७१७] सिंचाऽयं गणे वासी, सजणानुमओ मओ । दुहाऽवाऽऽ राहियं तेहिं, निव्विकप्पसुहं सुहं ।
वृ- 'येषां च' साधूनाम् 'अयम्' इत्यात्मनाऽनुभूयमानो गणे वासः 'मतः' अभिरुचितः कथम्भूतः ? सज्जनाः तीर्खतरादयस्तेषामनुमतः सज्जनानुमतः । 'तैः' साधुभिः 'निर्विकल्पसुखं' निरुपमसौख्यं 'सुखम्' इति सुखेनैव द्विधाऽप्याराधितम्, तद्यथा श्रमणसुखं निर्वाणसुखं च । अत्र श्रमणसुखं निरुपममित्यं मन्तव्यम्
नैवास्ति राजराजस्य तत् सुखं नैव देवराजस्य । यत् सुखमिहैव साधोर्लोकव्यापाररहितस्य ॥ निर्वाणसुखं तु निरुपमं प्रतीतमेवेति ॥ [ भा. ५७१८]
नवधम्मस्स हि पाएण, धम्मे न रमती मती । वह सो वि संजुतो, गोरिवाविधुरं धुरं ॥
वृ- नवधर्मणो हि प्रायेण 'धर्मे' श्रुत चारित्ररूपे न रमते मति, परं गच्छे वसतस्तस्यापि धर्मे रतिर्भवति । तथा चाह- 'सोऽपि' नवधर्मा साधुभिः संयुक्तः संयमधुरामविधुरां वहेति । गौरिव द्वितीयेन गवा संयुक्तः 'अविधुरां' अविषमां 'धुरं' शकटभारं वहति, एकस्तु वोढुं न शक्नोति । [ भा. ५७१९ ] गागिस्स हि चित्ताई, विचित्ताइं खणे खणे । उप्पज्जूंति वियंते य, वसेवं सज्जने जने ॥
वृ- एकाकिनो हि 'चित्तानि' मनांसि 'विचित्राणि' शुभा ऽशुभाध्यवसायपरिणतानि क्षणे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org